________________
मूलं-१४०
२१५ ततो न कश्चिद्दोष इति, तदेतदतीव प्रमाणमार्गानभिज्ञतासूचकं, यतो यत एव तत्र प्रत्यक्षेण बाधोपलम्भोऽत एव नान्यत्रापि शब्दसाम्यात्तथारूपवस्त्वनुमानं कर्त्तव्यं, प्रत्यक्षत एव शब्दसाम्यस्य वस्तुतथारूपेण सहाविनाभावित्यस्याभावावगमात्, न च बाधकमत्र नोपलभ्यते इत्येवानुमान प्रवर्तते, किन्तु वस्तुसम्बन्धबलात्, तथा चोक्तम्
"न न बाध्यत इत्येवमनुमानं प्रवर्तते।
सम्बन्धदर्शनात्तस्य, प्रवर्तनमिहेयष्यते।" ___ इति, च सम्बन्धोऽत्र न विद्यते, तद्ग्राहकप्रमाणाभावात्, ततोऽनैकान्तिकता हेतोः, इत्थं चैतदङ्गीकर्तव्यं अन्यथा यो यो मद्विकारः स स कुम्भकारकृतो यथा घटादिः, मृद्विकारश्चायं वल्मीकः तस्मात् कुम्भकारकृत इत्यनुमानं समीचीनतामाचीनस्कन्द्यते, बाधकलभ्यते तस्मादेतदयुक्तमिति, तदेतदीश्वरानुमानेऽपि समानं, यदि हि सर्वस्यापि वस्तुजातस्येश्वर: कर्त्ता तहि कचित्कदाचिदुपलभ्येत न चोपलभ्यते तस्मात्तदप्यलीकमिति कृतं प्रसङ्गेन।
येऽपि चात्मवादिनः 'पुरुष एवेदं सर्व'मिति प्रतिपन्नास्तेऽपि महामोहमहोरगगरलपूरमूच्छितमानसा वेदितव्याः, तथाहि-यदि नाम पुरुषमात्ररूपमद्वैतं तत्त्वंतहि यदेतदुपलभ्यते सुखित्वदुःखत्वादि तत्सर्वं परमार्थतोऽसत् प्राप्नोति, ततश्चैवं स्थिते यदेतदुच्यते-'प्रमाणतोऽधिगम्यं संसारनैगुण्यं तद्विमुखया प्रज्ञया तदुच्छेदाय प्रवृत्ति'रित्यादि तदेतदाकाशकुसुमसौरभवर्णनोपमानमवसेयं, अद्वैतरूपे हि तत्त्वे कुतो नरकादिभवभ्रमणरूपः संसारो? यन्नेर्गुण्यमवगम्य तदुच्छेदाय प्रवृत्तिरुपपद्यते, यदप्युच्यते-'पुरुषमात्रमेवाद्वैत तत्त्वं, यत्तु संसारनैर्गुण्यं भावभेददर्शनंच तत्सर्वदा सर्वेषामविगानप्रतिपत्तावपि चित्रे निम्नोन्नतभेददर्शनमिव भ्रान्तमवसेयमिति, तदप्यचारु, एतद्विषयवास्तवप्रमाणाभावात्, तथाहि-नाद्वैताभ्युपगमे किञ्चिदद्वैतग्राहकं ततः पृथग्भूतं प्रमाणमस्ति, द्वैतत्वप्रसक्तेः, न च प्रमाणमन्तरेण निष्प्रतिपक्षा तत्त्वव्यवस्था भवति, मा प्रापत्सवस्य सर्वेष्टार्थसिद्धिप्रसङ्गः, तथा भ्रान्तिरपि प्रमाणभूतादद्वैताद् भिन्नाऽभ्युपगन्तव्या, अन्यथा प्रमाणभूतमद्वैतमप्रमाणमेव भवेत्, तदव्यतिरेकात्, तत्स्वरूपवत्, तथा च कुतस्तत्त्वव्यवस्था?, भिन्नायां च भ्रान्तावभ्युपगम्यमानायां द्वैतं प्रसक्तमित्यद्वैतहानिः, अपि च-यदीदं स्तम्भाभः कुम्भाम्भोरुहादिभावभेददर्शनं भ्रान्तमुच्यते तर्हि नियमात्तदपि कचित्सत्यमवगन्तव्यं, अभ्रान्तदर्शनमन्तरेण भ्रान्तेरयोगात्, न खलु येन पूर्वमासीविषो न दृष्टस्तस्य रज्ज्वामासीविषभ्रान्तिरुपजायते, यदुक्तं
"नादृष्टपूर्वसर्पस्य, रज्ज्वां सर्पमतिः क्वचित्।
ततः पूर्वानुसारित्वाद्धान्तिरभ्रान्तिपूर्विका।।" तत एवमप्यव्याहतो भेदः, अन्यच्च पुरुषाद्वैतरूपं तत्त्वमवश्यं परस्मै निवेदनीयं, नात्मने, आत्मनो व्यामोहाभावात्, विमोहश्चेदद्वैतप्रतिपत्तिरेव न भवेत्, अथोच्येत-यत एव व्यामोहोऽत एव तन्निवृत्त्यर्थमात्मनोऽद्वैतप्रतिपत्तिरास्थेया, तदयुक्तम्, एवं सत्यद्वैतप्रतिपत्त्याधानेनात्मनो व्यामोहे निवर्त्यमानेऽवश्यं पूर्वरूपत्यागोऽपररूपस्य चाव्यामूढतालक्षणस्योत्पत्तिरित्यद्वैत - प्रतिज्ञाहानिः, परस्मैच प्रतिपादयनियमतः परमभ्युपगच्छेत्, परं चाभ्युपगच्छन् तस्मै चाद्वैतरूपं तत्त्वं निवेदयन् पिता मे कुमारब्रह्मचारीत्यादिवदन्निव कथं नोन्मत्तः?, स्वपराभ्य्पगमेनाद्वैतवचसो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org