SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २२२ नन्दी - चूलिकासूत्र कुण्डानि - गङ्गाकुण्डादीनि गुहाः - तिमि श्रगुहादयः आकरा :- रूप्यसुवर्णाद्युत्पत्तिस्थानानि, हुदा:पौण्डरीकादयः, नद्यो - गङ्गासिन्ध्वादय आख्यायन्ते, तथा स्थानेनाथवा स्थाने 'ण' मितिवाक्यालङ्कारे एकाद्येकोत्तरिकया वृद्धया दशस्थानकं यावद्विवर्द्धितानां भावानां प्ररूपणा आख्यायते, किमुक्तं भवति ? एकसङ्ख्यायां द्विसङ्ख्यायां यावद्दशसङ्ख्यायां ये ये भावा यथा यथाऽन्तर्भवन्ति तथा तथा ते प्ररूप्यन्ते इत्यर्थः, यथा 'एंगे आया' इत्यादि, तथा 'जं इत्थं च नं लोके तं सव्वं दुपडोयारं, तं जहा- जीया चेव अजीवा चेव' इत्यादि, 'ठाणस्स नं परित्ता वायणा' इत्यादि, सर्वं प्राग्वत् परिभावनीयं पदपरिमाणं च पूर्वस्मात् पूर्वस्मादङ्गादुत्तरस्मिन्नुत्तरस्मिन्नङ्गे द्विगुणमवसेयं, शेषं पाठसिद्धं, यावन्निगमनं । मू. ( १४२ ) से किं तं समवाए?, समवाए णं जीवा समासिज्जति, अजीवा समासिज्जति, जीवाजीव समासिज्जति ससमए समासिज्जइ परसमए समासिज्जइ ससमयपरसमए समासिज्जइ लोए समासिज्जइ अलोए समासिज्जइ लोआलोए समासिज्जइ, समवाए नं एगाइआणं एगुत्तरिआणं ठाणसयविवड्ढिआणं भावाणं परूवणा आघविज्जइ दुवालसविहस्स य गणिपडिगस्स पल्लवग्गे समासिज्जइ, समवायस्स णं परित्ता वायणा संखिज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखिज्जाओ निज्जुत्तीओ संखिज्जाओ पडिवत्तीओ, से नं अंगट्टयाए चउत्थे अंगे एगे सुअक्खंधे, एगे अज्झयणे एगे उद्देसणकाले एगे समुद्देसणकाले एगे चोआले सयसहस्से पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइआ जिनपन्नत्ता भावा आघविज्जति पन्नविज्जंति परूविज्जति दंसिज्जति निदंसिज्जंति उवदंसिज्जंति, से एवं आया से एवं नाया एवं विण्णाया एवं चरणकरणपरूवणा आघविज्जइ, से तं समवाए ॥ वृ . ' से किंत' मित्यादि, अथ कोऽयं समवायः ?, सम्यगवायो- निश्चयो जीवादीनां पदार्थानां यस्मात्म समवाय:, तथा चाह सूरि:- 'समवाए न'मित्यादि, समवायेन यद्वा समवाये 'ण' मिति वाक्यालङ्कारे, जीवाः 'समाश्रीयन्ते' समिति - सम्यग् यथाऽवस्थिततया आश्रीयन्ते - बुद्धा स्वीक्रियन्ते, अथवा जीवाः समास्यन्ते - कुप्ररूपणाभ्यः समाकृष्य सम्यक्प्ररूपणायां प्रक्षिप्यन्ते शेषमानिगमनं निगदसिद्धं, नवरकेमादिकानामेकोत्तराणां शतस्थानकं यावद्विवर्द्धितानां भावानां प्ररूपणा आख्यायते, अयमत्र भावार्थ:- एकसङ्ख्यायां द्विसङ्ख्यायां यावत्छतसङ्ख्यायां ये ये भावा यथा २ यत्र यत्रान्तर्भवन्ति ते ते तत्र तत्र तथा २ प्ररूप्यन्ते, यथा 'एगे आया' इत्यादि ॥ मू. ( १४३ ) से किं ते विवाहे ?, विवाहे णं जीवा विआहिज्जति अजीवा विआहिज्जति जीवाजीव विआहिज्जति ससमए विआहिज्जति परसमए विआहिज्जति ससमयपरसमए विआहिज्जति लोए विआहिज्जति अलोए विआहिहिज्जति लोयालोए विआहिज्जति, विवाहस्स णं परित्ता वायणा संखिज्जा अनुओगदारा संखिज्जा वेढा संखिज्जा सिलोगा संखिज्जाओ निज्जुत्तीओ संखिज्जाओं संग्रहणीओ संखिज्जाओ पडिवत्तीओ, सेनं अंगट्टयाए पंचमे अंगे एगे सुअक्खंधे, एगे साइरेगे अज्झयणसए दस उद्देसगसहस्साइं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy