SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ नन्दी-चूलिकासूत्रं "देवागमनभोयानचामरादिविभूतयः।। मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान्॥" भवतु वा वर्द्धमानस्वामी सर्वज्ञः तथापि तत्सत्कोऽयमाचारादिक उपदेशो न पुन: केनापि धूर्तेन स्वयं विरचय्य प्रवर्ति इति कथमवसेयं?, अतीन्दियत्वेनैतद्विषये प्रमाणाभावात्, अथवा भवत्वेषोऽपि निश्चयो यथाऽयमाचारादिके उपदेशो वर्द्धमानस्वामिन इति, तथापि तस्योपदेशस्यायमर्थो नान्य इति न शक्यः प्रत्येतुं, नानार्था हिशब्दालोके प्रवर्त्तन्ते, तथादर्शनात्, ततोऽन्यथाऽप्यर्थसम्भावनायां कथं विवक्षितार्थनियमनिश्चयः?, अथ मन्येथास्तदात्वे तत एव सर्वज्ञात् साक्षाच्छ्रवणतो गौतमादेरर्थनियमनिश्चयोऽभूत तत आचार्यपरम्परयेदानीमपि भवतीति, तदप्युक्तं, यतो नाम गौतमादिरपिछद्मस्थः, छद्मस्थस्य च परचेतोवृत्तिरप्रत्यक्षा, तस्या अतीन्द्रियत्वेनैतद्विषये चक्षुरादीन्द्रियप्रत्यक्षप्रवृत्तेरभावात्, अप्रत्यक्षायां च सर्वज्ञस्य विवक्षायां कथमिदं ज्ञायते-एष, सर्वज्ञस्याभिप्रायोऽनेन चाभिप्रायेण शब्दः प्रयुक्तो नाभिप्रायान्तरेण?, तत एवं सम्यक्परिज्ञानाभावात् यामेव वर्णावलीमुक्तवान् भगवान् तामेव केवलां पृष्ठतो लग्नो गौतमादिरभिभाषते, न पुनः परमार्थतस्तस्योपदेशस्यार्थमवबुध्यते, यथाऽऽर्यदेशोत्पन्नोक्तस्यानुवादकोऽपरिज्ञातशब्दार्थो म्लेच्छ:, उक्तं च "मिलक्खू अमिलक्खुस्स, जहा वृत्तानुभासए। न हेउं से वियाणाइ, भासियं तऽनुभासए॥१॥ एवमन्नाणिया नाणं, वयंता भासियं सयं। निच्छयत्थं न याणन्ति, मिलक्खू अबोहिए।॥२॥" तदेवं दीर्घतरसंसारकारणत्वात् सम्यनिश्चयाभावाच्च न ज्ञानं श्रेयः, किन्त्वज्ञानमेवेति स्थितं, ते चाज्ञानिकाः सप्तषष्टिसङ्घया अमुनोपायेन प्रतिपत्तव्याः, इह जीवाजीवादीन् नव पदार्थान् क्वचित्पट्टिकादौ व्यवस्थाप्य पर्यन्ते उत्पत्तिः स्थाप्यते, तेषां च जीवाजीवादीनां नवानां पदार्थानां प्रत्येकमधः सप्त सत्त्वादयोन्यस्यन्ते, तद्यथा-सत्त्वमसत्त्वंसदसत्त्वमवाच्यत्वंसदवाच्यत्वमसदवाच्यत्वं सदसदावाच्यत्वं चेति। तत्र सत्त्वं स्वरूपेण विद्यमानत्वं, असत्त्वं पररूपेणविद्यमानत्वं, सदसत्त्वं स्वरूपपररूपाभ्यां विद्यमानाविद्यमानत्वं, तत्र यद्यपि सर्वं वस्तु स्वरूपपररूपाभ्यां सर्वदैव स्वभावत एव सदसत् तथापि कचित् किञ्चित्कदाचिदुद्भूतं प्रमात्रा विवक्ष्यते तत एवं त्रयो विकल्पा भवन्ति, तथा तदेव सत्त्वमसत्त्वं च यदा युगपदेकेन शब्देन वक्तुमिष्यते तदा तद्वाचकः शब्दः कोऽपि न विद्यते इति अवाच्यत्वं, एते चत्वारोऽपि विकल्पाः सकलादेश इति गीयन्ते, सकलवस्तुविषयत्वात्, यदा त्वेको भागः सन्नपरश्चावाच्यो युगपद्विक्ष्यते तदा सदवाच्यत्वं यदा त्वेको भागोऽसन्नपरश्चावाच्यस्तदाऽसदवाच्यत्वं, यदा त्वेको भागः सन्नपरश्वासन परतरश्चावाच्यस्तदा सदसदवाच्यत्वमिति, न चैतेभ्यः सप्तविकल्पेभ्योऽन्यो विकल्पः सम्भवति, सर्वस्यैतेष्वेव मध्येऽन्तर्भावात्, ततस्सप्त विकल्पा उपन्यस्ताः, सप्त विकल्पा नवभिर्गुणिता जातास्त्रिषष्टिः, उत्पत्तेश्चत्वार एवाऽऽद्या विकल्पाः, तद्यथा-सत्त्वमसत्त्वं सदसत्त्वमवाच्यत्वं चेति, एते चत्वारोऽपि विकल्पास्त्रिषष्टिमध्ये प्रक्षिप्यन्ते ततः सप्तषष्टिर्भवति, तत्र को जानाति जीवः Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy