SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ २०९ मूलं-१४० तीव्रतीव्ररचित्तकालुष्यभाव(स्त) तोऽहङ्कारः ततश्च प्रभूततराशुभकर्मबन्धसम्भवः, तस्माच्च दीर्घतर: संसारः, तथा चोक्तम् . "अन्नेण अन्नहा देसियंमि भावंमि नाणगव्वेणं। कुणइ विवायं कलुसियचित्तो तत्तो य से बंधो।" यदा पुनर्न ज्ञानमाश्रीयते तदा नाहङ्कारसम्भवो नापि परस्योपरिचित्तकालुष्यभावः, ततो न कर्मबन्धसम्भवः, अपिच-सञ्चिन्त्य क्रियते कर्मबन्धः, स दारुणविपाकः, अत एव चावश्यंवेद्यः, तस्य तीव्राध्यवसायतो निष्पन्नत्वात्, यस्तु मनोव्यापारमन्तरेण कायवाक्कर्मवृत्तिमात्रतो विधीयते न तत्र मनसोऽभिनिवेशस्ततो नासाववश्यंवेद्यो, नापि तस्य दारुणो विपाकः, केवलमतिशुष्क सुधापङ्कधवलितभित्तिगतरजोमल इव स कर्मसङ्गः स्वत एव शुभाध्यवसायपवनविक्षोभितोऽपयाति, मनसोऽभिनिवेशाभावश्चाज्ञानाभ्युपगमे समुपजायते, ज्ञाने सत्यभिनिवेशसम्भवात्, तस्मादज्ञानमेव मुमुक्षुणा मुक्तिपथप्रवृत्तेनाभ्युपगन्तव्यं न ज्ञानमीति, अन्यच्च-भवेद्युक्तो ज्ञानस्याभ्युपगमो यदि ज्ञानस्य निश्चयः कर्तुं पार्येत यावता स एव न पार्यते, तथाहि-सर्वेऽपि दर्शनिनः परस्परं भिन्नमेव ज्ञानं प्रतिपन्नाः ततो न निश्चयः कत्तुं शक्यते-किमिदं ज्ञानं सम्यग् नेदमिति?, उक्तं च "सव्वे य मिहो भिन्नं नाणं इह नाणिणो जओ बिति। तीरइ न तओ काउंविनिच्छओ एवमेयंति।" अथोच्येत-इह यत्सकलवस्तुस्तोमसाक्षात्कारिभगवदुपदेशादुपजायते ज्ञानं तत्सम्यग्नेतरत्, असर्वज्ञमूलत्वादिति, सत्यमेतत्, किन्तु स एव सकलवस्तुस्तोमसाक्षात्कारीति कथं ज्ञायते?, तद्ग्राहकप्रमाणाभावात्, अपिच-सुगतादयोऽपि सौगतदिभिः सकलवस्तुस्तोमसाक्षात्कारिण इप्यन्ते, तत्कि सुगतादिः सकलवस्तुस्तोमसाक्षात्कारीति प्रतिपद्यतामस्वाभिः किंवा भगवद्वद्धमानस्वामीति तदवस्थ एव निश्चयाभावः?, स्यादेतत्-किमत्र संशयेन?, यस्य पादारविन्दयुगलं प्रणिणंसवो दिवौकसः परस्परमहमहमिकया विशिष्टविशिष्टरविभूतिद्युतिपरिकलिताः शतसहस्रसङ्ख्येन विमाननिवहेन सकलमपि नभोमण्डलमाच्छादयन्तो महीमवतीर्य पूजादिकमातन्वन्ति स्म च भगवान् वर्द्धमानस्वामी सर्वज्ञो न शेषाः सुगतादयः, मनुष्या हि मूढमनस्का अपि सम्भाव्यन्ते न देवाः, ततो यदि शेषा अपि सुगतादयः सर्वज्ञा अभविष्यन् तर्हि तेषामपि देवाः पूजामकरिष्यन् न च कृतवन्तस्तस्मात्र ते सर्वज्ञाः तदेतत्स्वदर्शनानुरागतरलितमनस्कतासूचकं, यतो वर्द्धमानस्वामिनो दिवः समागत्य देवास्तथा पूजां कृतवन्त इत्येतदपि कथमवीसयते?, भगवतश्चिरातीतत्वेनेदानीं तद्भावग्राहकप्रमाणाभावात्, सम्प्रदायादवसीयते इति चेत् ननु सोऽपि सम्प्रदायो न धूर्तपुरुषप्रवर्तितः किन्तु सत्यपुरुषप्रविर्तत एवेति कथमवगन्तव्यं ?, तद्ग्राहकप्रमाणाभावात्, न चाप्रमाणकं वयं प्रतिपत्तुं क्षमाः, मा प्रापदप्रेक्षावत्ताप्रसङ्गः, अन्यच्च-मायाविनः स्वयमसर्वज्ञा अपि जगति स्वस्य सर्वज्ञभावं प्रचिकटयिषवस्तथाविधेन्द्रजालवशादर्शयन्ति देवानितस्ततः सञ्चरतः स्वस्य च पूजादिकं कुर्वतः, ततो देवागमदर्शनादपि कथं तस्य सर्वज्ञत्वनिश्चयः?, तथा चाह भावत्क एव स्तुतिकारः समन्तभद्रः30/14 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy