________________
२११
मूलं-१४० सत्रित्येको विकल्पः, न कश्चिदपि जानाति, तद्ग्राहप्रमाणाभावादिती भावः, ज्ञातेन वा किं तेन प्रयोजनं?, ज्ञानस्याभिनिवेशहेतुतया लोके प्रतिपन्थित्वात्, एवमसदादयाऽपि विकल्या भावनीयाः, उत्पत्तिरिपि किं सतोऽसतः सदसतोऽवाच्यस्य वेति को जानाति?, ज्ञातेन वा किं?, न कश्चिदपि प्रयोजनमिति ।।
तथा विनयेन चरन्तीति वैनयिकाः एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा वेदितव्याः, ते च द्वात्रिंशत्सङ्ख्या अमुनोपायेन दृष्टव्या:-सुरनृपतियतिज्ञातिस्थविराधममातृपितृरूपेष्वष्टसुस्थानेषुकायेन वाचा मनसा दानेन देशकालोपपनेत विनय: कार्य इति चत्वारः कायादयः स्थाप्यन्ते, चत्वारश्चाष्टभिर्गुणिता जाता द्वात्रिंशत्॥
एतेषां च त्रयाणां त्रिषष्टयधिकानां पाखण्डिकशतानां प्रतिक्षेपः सूत्रकृताङ्गे शेषेषु च प्रकरणेषु पूर्वाचार्यैरनेकधा युक्तिभिः कृतस्ततो वयमपिस्थानाशून्यार्थं पूर्वाचार्यकृतं तेषां प्रतिक्षेपं संक्षेपतो दर्शयामः-तत्र ये कालवदानिः सर्वं कालवादिनः सर्वं कालकृतं मन्यन्ते तान् प्रति ब्रूमः कालो नाम किमेवस्वभावो नित्यो व्यापी? किंवा समयादिरूपतया परिणामि?, तत्र यद्याद्यः पक्षः तदयुक्तं तथाभूतकालग्राहकप्रमाणाभावात्, न खलु तथाभूतं कालं प्रत्यक्षेणोपलभामाहे, नाप्यनुमानेन, तदविनाभाविलिङ्गगाभावात्, अथ कथं तदविनाभाविलिङ्गाभावो?, यावता दृश्यते भरतमादिषु पूर्वापरव्यवहारः, सच न वस्तुस्वरूपमात्रनिमित्तो, वर्तमानो च काले वस्तुस्वरूप विद्यमानतया तथाव्यवहारप्रवृत्तिप्रसक्तेः, ततो यन्निमित्तोऽयं भरतरामादिपु पूर्वाव्यवहारः स काल इति, तथाहि-पूर्वकालयोगी पूर्वो भारत चक्रवर्ती अपरकालयोगी चापरो रामादिरिति, ननु यदि भरतरामादिषु पूर्वापरकालयोगतः पूर्वापरव्यवहारस्तहि कालस्यैव कथं स्वयं पूर्वापरव्यवहारः?, तदन्यकालयोगादिति चेत्, न, तत्रापि स एव प्रसङ्ग इत्यनवस्था, अथ मा भूदेष दोप इति तस्य स्वयमेव पूर्वत्वमपरत्वं चेष्यते नान्यकालयोगादिति, तथा चोक्तम्
___ "पूर्वकालादियोगी यः, स पूर्वाद्यपदेशभाक् ।
पूर्वापरत्वं तस्यापी, स्वरूपादेव नान्यतः॥" तदप्यकण्ठपीतासवप्रलापदेशीयं, यत एकान्तेनैको व्यापी नित्यः कालोऽभ्युपगम्यते, ततः कथं तस्य पूर्वादित्वसम्भवः?, अथ सहचारिसम्पर्कवशादेकस्यापितथात्वकल्पना, तथाहिसहचारिणो भरतादयः पूर्वाः अपरे च रामादयोऽपरास्ततस्तत्सम्पर्क वशात्कालस्यापि पूर्वापरव्यपदेशः, भवति च सहचारिणो व्यपदेशो यथा मञ्चा: क्रोशन्तीति, तदेतदपि बालिशजल्पितम्, इतरेतराश्रयदोषपसङ्गात्, तथाहि-सहचारिणां भरतादीनां पूर्वादित्वं कालगत-- पूर्वादित्वयोगात् कालस्य च पूर्वादित्यं सहचारिभरतादिगतपूर्वादित्ययोगतः, तत एकासिद्धावन्यतरस्याप्यसिद्धिः, उक्तं च
"एकत्वव्यापितायां हि, पूर्वादित्वं कथं भवेत्? । सहचारिवशात्तच्चेदन्योऽन्याश्रयताऽऽगमः ॥१॥
सहचारिणां हि पूर्वत्वं, पूर्वकालसमागमात्।
कालस्य पूर्वादित्वं च, सहचार्यवियोगतः ॥२॥" प्रागसिद्धावेकस्य कथमन्यस्य सिद्धिरिति तन्नायं पक्ष: श्रेयान्, अथ द्वितीयः, पक्षः, सोऽप्यु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org