SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ २०६ नन्दी-चूलिकासूत्रं मू.(१४०)से किं तं सूअगडे?, सूअगडे णं लोए सूइज्जइ अलोए सूइज्जइ लोआलोए सूइज्जइ जीवा सूइज्जति अजीवा सूइज्जति जीवाजीवा सूइज्जति ससमए सूइज्जइ परसमए सूइज्जइ ससमयपरसमए सूइज्जइ, सूअगडे णं असीअस्स किरियावाइसयस्स चउरासीइए अकिरिआवाईणं सत्तट्ठीए अन्नाणि अवाईणं बत्तीसाए वेणइअवाईणं तिण्हं तेसट्ठाणं पासंडिअसयाणं वूह किच्चा सममए ठाविज्जइ, सूअगडे णं परित्ता वायणा संखिज्जा अनुओगदारा सखेज्जा वेढा संखेज्जा सिलोगा संखिज्जाओ निज्जुत्तीओ संखिज्जाओ पडिवत्तीओ, सेणं अंगठ्ठयाए बिइए अंगे दो सुअखंधा तेवीसं अज्झयणा तित्तीसं उद्देसणकाला तित्तीसं समुद्देसणकाला छत्तीसंपयसहस्साणि पयग्गेणं संखिज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइया जिनपन्नत्ता भावा आपविजंति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति, से एवं आया से एवं नाया से एवं विनाया एवं चरणकरणपरूवणा आघविज्जइ सेत्तं सूअगडे। वृ. 'से किं त'मित्यादि, अथ किं तत्सूत्रकृतं ?, 'सूच पैशून्ये' सूचनात्सूत्रं निपातना--- दूपनिष्पत्तिः, भावप्रधानश्चायं सूत्रशब्दः, ततोऽयमर्थः-सूत्रेण कृतं, सूत्ररूपतया कृतमित्यर्थः, यद्यपिच सर्वमङ्गं सूत्ररूपतया कृतं तथापिरूढिवशादेतदेव सूत्रकृतमुच्यते, नशेषमङ्गं, आचार्य आह-सूत्रकृतेन अथवा सूत्रकृते 'ण'मिति वाक्यालङ्कारे लोकः सूच्यते इत्यादि निगदसिद्धं यावत् 'असीयस्स किरियावाइसयस्से'त्यादि, अशीत्यधिकस्य क्रियावादिशतस्य चतुरशीतेरक्रियावादिनां सप्तषष्टेरज्ञानिकानां द्वात्रिंशतो वैनयिकानां सर्वसङ्घयया त्रयाणां त्रिषष्ट्यधिकानां पाखण्डिशतानां 'व्यूह' प्रतिक्षेपं कृत्वा स्वसमयः स्थाप्यते। __ तत्र न कर्तारमन्तरेण क्रिया पुण्यबन्धादिलक्षणा सम्भवति तत एवं परिज्ञाय तां क्रियाम्आत्मसमवायिनी वदन्ति तच्छीलाश्च ये ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणेनामुनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः जीवाजीवाश्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षरूपान् नव पदार्थान् परिपाट्य पट्टिकादौ विरचय्य जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ, तयोरधो नित्यानित्यभेदौ, तयोरप्यध: कालेश्वरात्मनियतिस्वभावभेदाः पञ्चन्यसनीयाः, पुनश्चैवं विकल्पाः कर्त्तव्याः, तद्यथा-अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, अस्य च विकल्पस्यायमार्थ:-विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालतः कालवादिनो मते, कालवादिनश्च नाम ते मन्तव्या य कालकृतमेव सर्वं जगत् मन्यन्ते, तथा च ते आहुः-न कालन्तरेण चम्पकाशोकसहकारादिवनस्पतिकुसुमोद्गमफलबन्धादयो हिमकणानुषक्तशीतप्रपातनक्षत्रगर्भाधानवर्षादयो वा ऋतुविभागसम्पादिता बालकुमारयौवनवलिपलितागमादयो वाऽवस्थाविशेषा घटन्ते, प्रतिनियमतकालविभाग एव तेषामुपलभ्यमानत्वात्, अन्यथा सर्वमव्यवस्थया भवेत्, न चैतद् दृष्टमिष्टं वा, अपिच-मुदगपक्तिरपि न कालमन्तरेण लोके भवन्ति दृश्यते, किन्तु कालक्रमेण, अन्यथा स्थालीन्धनादिसामग्रीसम्पर्कसम्भवे प्रथमसमयेऽपितस्या भावप्रसङ्गो, न च भवति, तस्माद्यद्यत्कृतकं तत्सर्वं कालकृतमिति, तथा चोक्तम् "न कालव्यतिरेकेण, गर्भबालशुभादिकम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy