________________
मूलं - १३९
२०५
सुयखंधा पणवीसं अज्झयणाणि एयं आयारग्गसहियस्स आयारस्स पमाणं भणियं, अट्ठारसपयसहस्सा पुण पढमसुयक्खं धस्स नवबंभचेरमइयस्स पमाणं, विचित्तअत्थनिबद्धाणि य सुत्ताणि गुरुवएसओ सिं अत्थो जाणियव्वो"त्ति
तथा सङ्घयेयानि अक्षराणि, पदानां सङ्ख्येयत्वात्, तथा 'अनंतागमा' इति इहगमाः - अर्थगमा गृह्यन्ते, अर्थगमा नाम अर्थपरिच्छेदाः, ते चानन्ता:, एकस्मादेव सूत्रादतिशायिमतिमेधादिगुणानां तत्तद्धर्म्मविशिष्टानन्तधर्मात्मकवस्तुप्रतिपत्तिभावात्, एतच्च टीकाकृतो व्याख्यानं, चूर्णिकृत् पुनराह - अभिधानाभिधेयवशतो गमा भवन्ति, ते चानन्ता:, अनेन च प्रकारेण ते वेदितव्याः, तद्यथा - 'सुयं मे आउसंत भगवया एवमक्खाय' मिति, इदं च सुर्धमस्वामी जम्बूस्वामिनं प्रत्याह तत्रायमर्थः - श्रुतं मया हे आयुष्यमन् ! तेन-भगवता वर्द्धमानस्वामिना एवमाख्यातं, अथवा श्रुतं मया 'आयुष्पदन्ते' आयुष्यमतो-भगवतो वर्द्धमानस्वामिनोऽन्ते - समीपे 'ण'मिति वाक्यालङ्कारे, तथा च भगवता एवमाख्यातं, अथवा श्रुतं मयाऽयुष्मता, अथवा श्रुतं मया भगवत्पादारविन्दयुगलमामृशता, अथवा श्रुतं मया गुरुकुलवासमावसता, अथवा श्रुतं मया हे आयुष्यमन् ! 'तेणं' ति प्रथमार्थे तृतीया तद्भगवता एवमाख्यातं, अथवा श्रुतं मयाऽयुष्मन् ! 'तेणं'ति तदा भगवता एवमाख्यातं, अथवा श्रुतं मया हे आयुष्यमन्! 'ते नं'ति षड्जीवनिकायविषये तत्र वा विवक्षिते समवसरणे स्थितेन भगवता एवमाख्यातं, अथवा श्रुतं मम हे आयुष्यमन् ! वर्त्तते, यतस्तेन भगवता एवमाख्यातं, एवमादयस्तं तमर्थमधिकृत्य गमा भवन्ति, अभिधानवशतः पुनरेवं गमा:
"सुयं मे आउ आउसं सुयं मे मे सुयं आउस" मित्येवमर्थभेदेन तथा २ पदानां संयोजनतोऽभिधानगमा भवन्ति, एवमादयः किल गमाः अनन्ता भवन्ति, तथा अनन्ताः पर्यायाः ते च स्वपरभेदभिन्ना अक्षरार्थगोचरा वेदितव्याः, तथा परीताः - परिमितास्त्रसा द्वीन्द्रियादयः, अनन्ताः स्थावराः - वनस्पतिकायादयः, 'सासयकडनिबद्धनिकाइय'त्ति शाश्वता-धर्मास्तिकायादयः कृता:- प्रयोगवित्रसाजन्या घटसन्ध्याभ्ररागादयः, एते सर्वेऽपि त्रासदयो निबद्धा: - सूत्रे स्वरूपतः उक्ता निकाचिताः-निर्युक्तिसंग्रहणिहेतूदाहरणादिभिरनेकधा व्यवस्थापिता जिनप्रज्ञप्ता भावा:पदार्थाः आख्यायन्ते-सामान्यरूपतया विशेषरूपतया वा कथ्यन्ते प्रज्ञाप्यन्ते - नामादिभेदोपन्यासेन प्ररूप्यन्ते नामादीनामेव भेदानां सप्रपञ्चस्वरूपकथनेन पृथग्विभक्ताः ख्याप्यन्ते प्रदर्श्यन्तेउपमाप्रदर्शनेन यथा गौरिव गवय इत्यादि निदर्श्यन्ते - हेतुदृष्टान्तोपदर्शनेन उपदर्श्यन्ते - निगमनेन शिष्यबुद्धौ निःशङ्कं व्यवस्थाप्यन्ते ।
साम्प्रतमाचारङ्गग्रहणे फलं प्रतिपादयति- 'से एव' मित्यादि, 'स' इति आचाराङ्गग्राहकोऽभिसम्बध्यते, एवमात्मा एवंरूपो भवति, अयमात्र भावः - अस्मिन्नाचाराङ्ग भावतः सम्यगधीते सति तदुक्तक्रियानुष्ठानपरिपालनात्साक्षान्मूर्त्त इवाऽऽचारो भवतीति, आह च टीकाकृत- " तदुक्तक्रियापरिणामाव्यतिरेकात्स एवाचारो भवतीत्यर्थः" इति, तदेवं क्रियामधिकृत्योक्तं, सम्प्रति ज्ञानमधिकृत्याह-
---
'एवं नाय'त्ति यथाऽचाराङ्गे, निबद्धा भावास्तथा तेषां भावानां ज्ञाता भवति, तथा 'एवं विनाय'त्ति यथा नियुक्तिसंग्रहणिहेतूदाहरणादिभिर्विविधं प्ररूपितास्तथा विविधं ज्ञाता भवति, एवं चरणकरणप्ररूपणाऽऽचारे आख्यायते, 'सेत्तं आयारे' त्ति सोऽयमाचारः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org