SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ - २०४ नन्दी-चूलिकासूत्रं तानि ह्यध्ययनमध्ययनं प्रति प्रवर्तन्ते, अध्ययनानि च सङ्घयेयानीतिकृत्वा, तथा सङ्घयेया वेढा, वेढो नाम छन्दोविशेषः, तथा सङ्घयेयाः श्लोकाः-सुप्रतीताः, तथा सङ्खयेया नियुक्तयः, तथा सङ्खयेयाः प्रतिपत्तयः, प्रतिपत्तयो नाम द्रव्यादिपदार्थाभ्युपगमा: प्रतिमाद्यभिग्रहविशेषा वा ताः सूत्रनिबद्धाः सङ्खयेयाः, आह च चूण्णिकृत-“दव्वाइपयत्थब्मुवगमा पडिमादिभिग्गहविसेसा वा पडिवत्तीओ सुत्तपडिबद्धा संखेज्ज"त्ति से ण'मित्यादि, सआचारो 'ण'मिति वाक्यालङ्कारे अङ्गार्थतयाअङ्गार्थत्वेन, अर्थग्रहणं परलोकचिन्तायां सूत्रादर्थस्य गरीयस्त्वख्यापनार्थं, अथवा सूत्रार्थो भयरूप आचार इति ख्यापनार्थं, प्रथममङ्गम्, एकारान्तता सर्वत्र मागधभाषालक्षणानुसरणाद्वेदितव्या, स्थापनामधिकृत्य प्रमणमङ्गमित्यर्थः, तथा द्वौ श्रुतस्कन्धौ-अध्ययनसमुदायरूपौ, पञ्चविंशतिरध्ययनानि, तद्यथा "सत्थपरिना (१) लोगविजओ (२) सीओसणिज्ज (३) संमत्तं (४)। आवंति (५) धुय (६) विमोहो (७) महापरिनो (८) वहाणसुयं (९) ।।" एतानि नवाध्ययनानि प्रथमश्रुतस्कन्धे "पिंडसण (१) सेज्जि (२) रिया (३) भासज्जाया (४) य वत्थ (५) पाएसा (६)। उग्गहपडिमा (७) सत्तसत्तिक्कया (१४) य भावन (१५) विमुत्ती (१६)॥" अत्र 'सेज्जिरिय'त्ति शय्याऽध्ययनमीर्याऽध्ययनं च 'वत्थपाएस'त्ति वस्त्रैषणाध्ययनं पात्रैषणाध्ययनंच, अमूनि षोडशाध्ययनानि द्वितीय श्रुतस्कन्थे, एवमेतानि निशीथवर्जानि पञ्चविंशतिरध्ययनानि भवन्ति, तथा पञ्चाशीतरुद्देशनकालाः, कथमिति चेत्?, उच्यते, इहाङ्गस्य श्रुतस्कन्धस्याध्ययनस्योद्देशकस्य चैक एवोद्देशनकालः, एवं शस्त्रपरिज्ञायां सप्तोद्देशनकाला: लोकविजये षट्शीतोष्णीयाध्ययने चत्वारः सम्यक्त्वाध्ययने चत्वारः लोकसाराध्ययने षट् धुताध्ययने पञ्च विमोहाध्ययनेऽष्टौ महापरिज्ञायां सप्त उपधानश्रुते चत्वारः पिण्डैषणायामेकादश शय्यैषणाध्ययने त्रयः ईर्याध्ययने त्रयः भाषाध्ययने द्वौ वस्त्रैषणाध्ययने द्वौ पात्रैषणाध्ययने द्वौ अवग्रहप्रतिमाध्ययने द्वौ सप्त सप्तकिकाऽध्ययनेषु भावनायमेको विमुक्तावेकश्च, एवमेते सर्वेऽपि पिण्डिताः पञ्चाशीतिर्वभन्ति, अत्र संग्रहगाथा "सत्त य छ चउ चउरो य छ पंच अटेव सत्त चउरो य। एक्कारत्तिय तिय दो तिय दो सत्ते को (क) एको य॥" एवं समुद्देशनकाला अपि पञ्चाशीतिर्भावनीयाः, तथा पदाग्रेहण-पदपरिमाणेनाष्टादश पदसहस्राणि, इह यत्रार्थोपलब्धिस्तत्पदं, अत्र पर आह-यदाऽऽचारे द्वौ श्रुतस्कन्धौ पञ्चविंशतिरध्ययनानि पदाग्रेण चाष्टादश पदसहस्राणि तहि यद् भणितं-"नवबंभचेरमइओ अट्ठारसपयसहस्सिओवेओ" इति तद्विरुध्यते, अत्र ही नवब्रह्मचर्याध्ययनमात्र एवाष्टादशपदसहस्रप्रमाण आचार उक्तः, अस्मिस्त्वध्ययने श्रुतस्कन्धद्वयात्मकः पञ्चविंशत्यध्ययनरूपोऽष्टादशपदसहस्रप्रमाण इति, ततः कथं न परस्परविरोधः?, तदयुक्तं, अभिप्रायायरिज्ञानात् । इह द्वौ श्रुतस्कन्धौ पञ्चविंशतिरध्ययनानि एतत्समग्रस्याचारस्य परिमाणयुक्तं, अष्टादश पदसहस्राणि पुनः प्रथमश्रुतस्कन्धस्य नवब्रह्मचर्याध्ययनस्य, विचित्रार्थनिबद्धानि हि सूत्राणि भवन्ति, अत एव चैषां सम्यगावगमो गुरूपदेशतो भवति, नान्यथा, तथा चाह चूर्णिकृत्-"दो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy