SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ मूलं-१४० २०७ यत्किञ्चिज्जायते लोके, तदसो कारणं किल ।।१।। किञ्च कालादृते नैव, मुद्गपक्तिरपीक्ष्यते। स्थाल्यादिसन्निधानेऽपि, ततः कालादसौ मता ।।२।। कालाभावे च गर्भादि, सर्वं स्यादव्यवस्थया। परेष्टहेतुसद्भावमात्रादेव तदुद्भवात्॥३॥ काल: पचति भूतानि, कालः संहरति प्रजाः। कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥४॥" अत्र 'परेष्टहेतुसद्भावमात्रादि'ति पराभिमतवनितापुरुषसंयोगादिमात्ररूपहेतुसद्भावमात्रादेत 'तदुद्भवादि'ति गर्भाधुद्भवप्रसङ्गादिति, तथा काल: पचति-परिपाकं नयति परिणति नयति 'भूतानि' पृथिव्यादीनि, तथा कालः संहरति प्रजाः-पूर्वपर्यायात्प्रच्याव्य पर्यायान्तरेण प्रजालोकान् स्थापयति, तथा कालः सुप्तेषु जनेषु जागर्ति, काल एवं तं तं सुप्तं जनमापदो रक्षतीति भावः, तस्माद् हि:-स्फुटंदुरतिक्रमः अपाकर्तुमशक्यः काल इति। उक्तेनैव प्रकारेण द्वितीयोऽपि विकल्पो वक्तव्यो, नवरंकालवादिन इति वक्तव्ये ईश्वरवादिन इति वक्तव्यं, तद्यथा-अस्ति जीवः स्वतो नित्य ईश्वरतः, ईश्वरवादिनश्च सर्वं जगदीश्वरकृतं मन्यन्ते, ईश्वरं च सहसिद्धज्ञानवैराग्यधम्मैश्वर्यरूपचतुष्टयं प्राणिनां स्वर्गापवर्गयोः प्रेरकमिति, तदुक्तम् ___ "ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः ऐश्वर्यं चैव धर्मश्च, सहसिद्धं चतुष्टयम् ॥१॥ अन्यो (ज्ञो) जन्तुरनीशोऽयमात्मनः सुखदुःखयो। ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेण वा ॥२॥" इत्यादि, एवं तृतीयो विकल्प आत्मवादिनां, आत्मवादिनो नाम 'पुरुष एवेदं सर्व' मित्यादि प्रतिपन्नाः । चतुर्थो विकल्पो नियतिवादिनां, ते ह्येवमाहुः-नियति म तत्त्वान्तरमस्ति यद्वशादेते भावाः सर्वेऽपि नियतेनैवरूपेण प्रादुर्भावमशुवते, नान्यथा, तथाहि-यद्यदा यतो भवति तत्तदा तत एव नियतेनैवरूपेण भवदुपलभ्यते, अन्यथा कार्यकारणभावव्यवस्था प्रतिनियतरूपव्यवस्था चन भवेत्, नियामकाभावात्, तत एव कार्यनयत्यतःप्रतीयमानामिमांनियति को नाम प्रमाणकुशलो बाधितुं क्षमते?,मा प्रापदन्यत्रापि प्रमाणपथव्याघातप्रसङ्गः, तथा चोक्तम "नियतेनैव रूपेण, सर्वे भावा भवन्ति यत्। ततो नियतिजा ह्येते, तत्स्वरूपानुवेधतः ॥१॥ यद्यदैव यतो यावत्तत्तदैव ततस्तथा। नियतं जायते न्यायात् (नान्यात्), क एनां बाधितुं क्षमः? ॥२॥" पञ्चमो विकल्पः स्वभाववादिना, ते हि स्वभाववादिन एवमाहुः-इह सर्वे भावाः स्वभाववशादुपजायन्ते, तथाहि-मृदः कुम्भो भवति न पटादि, तन्तुभ्योऽपि पट उपजायतेन कुम्भादि, एतच्च प्रतिनियतभवनं न तथास्वभावतामन्तरेण घटाकोटीसण्डङ्कमाटीकते, तस्मात् सकलमिदं स्वभावकृतमवसेयं, अपिच-आस्तामन्यत् कार्यजातं इह मुद्गपक्तिरपि न स्वभावमन्तरेण भवितुर्महति, तथाहि-स्थालीन्धनकालादिसामग्रीसम्भवेऽपि न काङ्कटुकमुद्गानां पक्तिरुप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy