________________
मूलं - १३६
१९५
ध्यादिज्ञानस्य, ततोऽवध्यादिज्ञानमिवादिमदेवु युज्यते श्रुतमपि नानादिमदिति कथं तृतीयचतुर्थभङ्गसम्भवः ?, तत आह-‘सव्वजीवाणंपि' सर्वजीवानामपिणमिति वाक्यालङ्कारे अक्षरस्यश्रुतज्ञानस्य (श्रुतसंलुलितकेवलस्येति तु भाष्यकृत) श्रुतज्ञानं च मतिज्ञानाविनाभावि ततो मतिज्ञानस्यापि अनन्तभागो ‘नित्योद्घाटित: ' सर्वदैवानावृतः सोऽपि च- अनन्तमो भागोऽनेकविधः, तत्र सर्वजघन्यश्चैतन्यमात्रं तत्पुनः सर्वोत्कृष्टश्रुतावरणस्त्यानर्द्धिनिद्रोदय भावेऽपि नाव्रियते, तथाजीवस्वाभाव्यात्, तथा चाह
'जइ पुन ' इत्यादि, यदि पुनः सोऽपि अनन्तमो भाग आव्रियते तेन तर्हि जीवोऽजीवत्वं प्राप्नुयात्, जीवो हि नाम चैतन्यलक्षणस्ततो यदि प्रबल श्रुतावरणस्त्यानर्द्धिनिद्रोदयभावे चैतन्यमात्रमण्याव्रियेत तर्हि जीवस्य स्वस्वभावपरित्यागादजीवतैव सम्पनीपद्येत, न चैतदृष्टमिष्टं वा, सर्वस्य सर्वथा स्वभावातिरस्काराद्, अत्रैव दृष्टान्तमाह-'सुडुवी' त्यादि, सुष्टुवी मेघसमुदये भवति प्रभा चन्द्रसूर्ययोः, इयमत्र भावना-यथा निबिडनिबिडतरमेघपटलैराच्छादितयोरपि सूर्याचन्द्रमसोर्नैकान्तेन तत्प्रभानाशः सम्पद्यते, सर्वस्य सर्वथा स्वभावापनयनस्य कर्त्तुमशक्यत्वात्, एवमनन्तानन्तैरपि ज्ञानदर्शनावरणकर्मपरमाणुभिरेकैकस्यात्प्रदेशस्याऽऽवेष्टितपरिवेष्टितस्यापि नैकान्तेन चैतन्यमात्रस्या (प्य) भावो भवति, ततो यत्सर्वजघन्यं तन्मतिश्रुतात्मकमतः सिद्धोऽक्षरस्यानन्ततमो भागो नित्योद्घाटितः, तथा च सति मतिज्ञानस्य श्रुतज्ञानस्य चानादिभावः प्रतिपद्यमानो न विरुध्यते इति स्थितं । 'सेत्त' मित्यादि, तदेतत् सादि सपर्यवसितमनाद्यपर्यवसितं च ॥
मू. (१३७ ) से किं तं गमिअं?, दिट्टिवाओ, अगमिअं कालिअं सुअं, सेत्तं गमिअं, सेत्तं अगमिअं ।
अहवा तं समासओ दुविहं पन्नत्तं, तंजहा- अंगपविट्टं अंगबाहिरं च ।
से किं तं अंगबाहिरं ?, अंगबाहिरं दुविहं पन्नत्तं, तंजहा - आवस्सयं च आवस्सयवइरितं च ।
से किं तं आवस्यं ?, आवस्सयं छव्विहं पन्नत्तं, तंजहा - सामाइअं चउवीसत्थओ वंदनयं पडिक्कमणं काउस्सग्गो पच्चक्खाणं, सेत्तं आवस्सयं ।
से किं तं आवस्यवइरित्तं ?, आवस्सयवइरित्तं दुविहं पण्णत्तं, तंजहा- कालिअं च उक्कालिअं च ।
से किं तं क्वालिअं ?, उक्कालिअं अनेगविहं पन्नत्तं, तंजहा-दसवेआलिअं कप्पिआकप्पिअं चुल्लकप्पसुअं महाकप्पसुअं उववाइअं रायपसेणिअं जीवाभिगमो पन्नवणा महापन्नवणा पमायप्पमायं नंदी अनुओगदाराई देविंदत्थओ तंदुलवे आलिअं चंदाविज्झयं सूरपन्नत्ती पोरिसिमंडलं मैडलपवेसो विज्जाचरणविनिच्छओ गणिविज्जा झाणविभत्ती मरणविभत्ती आयविसोही वीयरागसुअं संलेहणासुअं विहारकप्पो चरणविही आउरपच्चक्खाणं महापच्चक्खाणं एवमाइ, सेतं उक्कालिअं ।
किं तं कालिअं ?, कालिअं अनेगविहं पन्नत्तं, तंजहा- उत्तरज्झयणाई दसाओ कप्पो यवहारो निसीहं महानिसीहं इसि भासिआई जंबूदीवपन्नत्ती दीवसागरपन्नत्ती चंदपन्नत्ती खुड्डीआविमानपविभत्ती महल्लिआविमानपविभत्ती अंगचूलिआ वग्गचूलिआ विवाहचूलिया अरुणो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org