SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १९४ नन्दी-चूलिकासूत्रं त्मकस्याकारस्य तत्त्वतो ज्ञातत्वायोगादिति, आह च भाष्यकृत् "जेसु अनाएसु तओ न नज्जए नज्जए य नाएसुं। कहतस्य ते न धम्मा?, घडस्सरूवाइधम्मव्व।" तस्माद् घटादिपर्याया अपि अकारस्य सम्बन्धिन इति स्वपरपर्यायापेक्षयाऽकार: सर्वद्रव्यपर्यायपरिमाणः, एवमाकारादयोऽपि वर्णाः सर्वे प्रत्येकं सर्वद्रव्यपर्यायपरिमाणा वेदितव्याः, एवं घटादिकमपि प्रत्येकं सर्वं वस्तुजातं परिभावनीयं, न्यायस्य समानत्वात्, न चैतदनाएं, यत उक्तमाचाराङ्गे-"जे एगं जाणइ से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ" अस्यायमर्थःय एकं वस्तूपलभत सर्वपर्यायैः सनियमात्सर्वमुपलभते, सर्वोपलब्धिमन्तरेण विवक्षितस्यैकस्य स्वपरपर्यायभेदभिन्नतया सर्वात्मनाऽवगन्तुमशक्यत्वात्, यश्च सर्वं सर्वात्मना साक्षादपलभतेस एकं स्वपरपर्यायभेदभिन्नं जानाति, तथाऽन्यत्राप्युक्तम् "एको भावः सर्वथा येन दृष्टः, सर्वे भावाः सर्वथा तेन दृष्टाः । सर्वे भावाः सर्वथा येन दृष्टा, एको भावः सर्वथा तेन दृष्टः।।" तदेवमकारादिकमपि वर्णजातं केवलज्ञानमिव सर्वद्रव्यपर्यायपरिणाममिति न कश्चिद्विरोधः। अपिच-केवलज्ञानमपि स्वपरपर्यायभेदभिन्नं, यतस्तदात्मस्वभावरूपं नघटादिवस्तुस्वभावात्मकं, ततो ये घटादिस्वपर्यायस्ते तस्य परपर्यायाः, ये तु परिच्छेदकत्वस्वभावास्ते स्वपर्यायाः, परपर्याया अपी च पूर्वोक्तयुक्तेस्तस्य सम्बन्धिन इति स्वपरपर्यायभेदभिन्नं, तथा चाह भाष्यकृत् "वत्थुसहावं पइ तंपि सपरपज्जायभेदभित्रं तु। तं जेन जीयभावो भिन्ना यतओ घडाईया।" ततः पर्यायपरिमाणचिन्तायां परमार्थतो न कश्चिदकारादिश्रुतकेवलज्ञानयोविशेषः, अयं तु विशेष:-केवलज्ञानं स्वपर्यायैरपि सर्वद्रव्यपर्यायपरिमाणतुल्यमकारादिकं तु स्वपरपर्यायैरेव, तथाहि-अकारास्य स्वपर्यायाः सर्वद्रव्यपर्यायाणामनन्ततमभागकल्पाः, परपर्यायास्तुस्वपर्यायरूपानन्ततमभागोनाः सर्वद्रव्यपर्यायाः, ततः स्वपरपर्यायैरेव सर्वद्रव्यपर्यायपरिमाणमकारादिकं भवति, आह च भाष्यकृत् "सय पज्जाएहि उ केवलेन तुल्लं न होइन परेहि। । सयपरपज्जाएहिं तु तं तुल्लं केवलेनेव॥" यथा चाकारादिकं सर्वद्रव्यपर्यायपरिमाणं तथा मत्यादीन्यपि ज्ञानानि द्रष्टव्यानि, न्यायस्य समानत्वात्, इह यद्यपि सर्वं ज्ञानमविशेषेणाक्षरमुच्यते सर्वद्रव्यपर्यायपरिमाणं च भवति तथापि श्रुताधिकारादिहाक्षरश्रुतज्ञानमवसेयं, श्रुतज्ञानं च मतिज्ञानाविनाभूतं ततो मतिज्ञानमपि, तदेवं यतः श्रुतज्ञानमकारादिकं चोत्कर्षतः सर्वद्रव्यपर्यायपरिमाणं तच्च सर्वोत्कृष्टश्रुतकेवलिनो द्वादशाङ्गविदः सङ्गच्छते, न शेषस्य, ततोऽनादिभावः श्रुतस्य जन्तूनां जघन्यो मध्यमो वा द्रष्टव्यो, न तूतकृष्ट इति स्थितम्। अपरआह-नन्वनादिभाव एव श्रुतस्य कथमुपपद्यते?, यावता याद प्रबल श्रुतज्ञानावरणस्त्यानर्द्धिनिद्रारूपदर्शनावरणादयः सम्भवन्ति तदा सम्भाव्यते साकल्येन श्रुतस्यावरणं, यथाऽव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy