SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १९६ नन्दी - चूलिकासूत्रं ववाए वरुणोववाए गुरुलोववाए धरणोववाए वेसमणोववाए वेलंधरोववाए देविंदोववाए उट्ठाणसुए समुट्ठाणसुए नागपरिआवणिआओ निरयावलियाओ कप्पिआओ कप्पवर्डिसिआओ पुप्फिआओ पुप्फचूलिआओ वहीदसाओ । एवमाइयाइं चउरासीइं पइन्नगससहस्साइं भगवओ अरहओ उसहसामिस्स आइतित्थयरस्स तहा संखिज्जाई पइन्नगसहस्साइं मज्झिमगाणं जिनवराणं चोद्दसपइन्नगसहस्साणि भगवओ वद्धमाणसामिस्स, अहवा जस्स जत्तिआ सीसा उप्पत्तिआए वेणइआए कम्मयाए पारिणामिआए, चउव्विहाए बुद्धीए उववेआ तस्स तत्तिआई पन्नगसहस्साई, पत्ते अबुद्धावि तत्तिआ चेव, सेत्तं कालिअं, सेत्तं आवस्सयवइरित्तं, से तं अनंगपविट्ठ । वृ. अथ कितद्गमिकं ?, इहादिमध्यावसानेषु किञ्चिद्विशेषतो भूयो भूयस्तस्यैव सूत्रस्योच्चारणं गम:, तत्रादौ-‘“सुयं मे आउसंतेणं भगवया एवमक्खायं इह खलु" इत्यादि, एवं मध्यावसनायोरपि यथासम्भवं द्रष्टव्यं गमा अस्य विद्यन्ते इति गामिकं, 'अतोऽनेकस्वरा' दिति मत्वर्थीय इकप्रत्ययः, उक्तं च चूर्णौ - " आई मज्झेऽवसाने वा किंचिविसेसजुत्तं दुगाइसयग्गसो तमेव पढिज्जमाणं गमियं भन्नइ "त्ति, तच्च गमिकं प्रायो दृष्टिवाद:, तथा चाह- 'गमियं दिट्ठीवाओ' तद्विपरीतमगमिकं तच्च प्राय आचारादि कालिक श्रुतम्, असदृशपाठात्मकत्वात्, तथा चाह- 'अगमियं का लियसुयं' 'सेत्त' मित्यादि, तदेतद्गमिकमगमिकं च । 'तं समासओ' इत्यादि, तद्गमिकमगमिकं च, अथवा तत् - सामान्यतः श्रुतमर्हदुपदेशानुसारि समासतः --संक्षेपेण द्विविधं प्रज्ञप्तं, तद्यथा--अङ्गप्रविष्टमङ्गबाह्यंच, अत्राह - ननु पूर्वमेव चतुर्द्दशभेदोद्देशाधिकारेऽङ्गप्रविष्टमङ्गबाह्यं चेत्युपन्यस्तं, तत्किमर्थं भूयस्तत्समासत इत्याद्युपन्यासेन तदेव न्यस्यते इति ?, उच्यते, इह सर्व एव श्रुतभेदा अङ्गानङ्गप्रविष्टरूपे भेदद्वय एवान्तर्भवन्ति, तत एतदर्थख्यापनार्थं भूयोऽप्युद्देशेनाभिधानं, अथवाऽङ्गानङ्गप्रविष्टमर्हदुप्रदेशानुसारि ततः प्राधान्यख्यापनार्थं भूयोऽपि तस्योद्देशेनाभिधानमित्यदोष:, तत्राङ्गप्रविष्टमिति -- इह पुरुषस्य द्वादशाङ्गानि भवन्ति, तद्यथा - द्वौ पादौ द्वै जङ्घे द्वे उरुणी द्वे गात्रार्द्धे द्वौ बाहू ग्रीवा शिरश्च, एवं श्रुतरूपस्यापि परमपुरुषस्याऽऽ चारादीनि द्वादशाङ्गनि क्रमेण वेदितव्यानि, तथा चोक्तं "पायदुगं जंघोरू गायदुगद्धं तु दो य बाहूय । गीवा सिरं च पुरिसो बारस अङ्गो सुयविसिट्ठो ॥" श्रुतपुरुषस्याङ्गेषु प्रविष्टमङ्गप्रविष्टम्-अङ्गभावेन व्यवस्थितमित्यर्थः, यत्पुनरेतस्यैव द्वादशाङ्गात्मकस्य श्रुतपुरुषस्य व्यतिरेकेण स्थितमङ्गबाह्यत्वेन व्यवस्थितं तदनङ्गप्रविष्टं, अथवा यद्गणधरदेवकृतं तदङ्गप्रविष्टं मूलभूतमित्यर्थः, गणधरदेवा हि मूलभूतमाचारदिकं श्रुतमुपरचयन्ति तेषामेव सर्वोत्कृष्टश्रुतलब्धिसम्पन्नतया तद्रचयितुमीशत्वात्, न शेषाणां ततः तत्कृतं सूत्रं मूलभूतमित्यङ्गप्रविष्टमुच्यते, यत्पुनः शेषैः श्रुतस्थविरैस्तदेकदेशमुपजीव्य विरचितं तदनङ्गप्रविष्टं, अथवा यत्सर्वदैव नियतमाचारादिकं श्रुतं तदङ्गप्रविष्टं, तथाहि आचारादिकं श्रुतं सर्वेषु क्षेत्रेषु सर्वकालं चार्थं क्रमं चाधिकृत्यैवमेव व्यवस्थितं ततस्त For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy