SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ नन्दी-चूलिकासूत्रं यद्येवं तर्हि उत्पन्नज्ञानज्ञानदर्शनधरित्येतावदेवास्त्मलं भगवदिभरितिविशेषणोपादानेन, तदयक्तम्, उत्पन्नज्ञानदर्शनधरा हि सामान्यकेवलिनोऽपि भवन्ति न च तपामवश्यं समग्ररूपादिसम्भवः ततस्तत्कल्पनाहतो मा ज्ञासिपरभीविनयजना इति समग्ररूपादिगुणप्रतिपत्त्यर्थं भगवदिभरिति विशेषणोपादानं. तदेवं शुद्धद्रव्यास्तिकनयमतानुसारिकल्पितमुक्तव्यवच्छेदः कृतः, सम्पति पर्यायास्तिकनयमतानुसारिपरिकल्पितमुक्तव्यवच्छेदार्थं विशेषणान्तरमाह___ 'त्रैलोक्यनिरीक्षितमहितपूजितैः' त्रयो लोकास्त्रिलाका:- भवनपतिव्यन्तरविद्याधरज्योतिप्कवैमानिकाः त्रिलोका एव त्रैलोक्यं, भेषजादित्वात् स्वार्थे ध्यण् प्रत्ययः, निरीक्षीताश्च ते महिताश्च ते पूजिताश्च ते निरीक्षितमहितपूजिताः. त्रैलोक्येन निरीक्षितमहितपूजिता: त्रैलोक्य - निरीक्षितमहितपूजिताः, तत्र निरीक्षिताः- मनोरथपरम्परासम्पत्तिसम्भवविनिश्चयसमुत्थ - सम्मदविकाशिलोचनैरालोकिता महिता-यथावस्थितानन्यसाधारणगुणोत्कीर्तनलक्षणने भावस्तवेनार्चिताः पूजिताः-सुगन्धिपुष्पप्रकरप्रक्षेपादिना द्रव्यस्तवेन, तत्र सुगता अपि पर्यायास्तिकनयमतानुसारिभिस्त्रैिलोक्यनिरीक्षितमहितपूजिता इष्यन्ते, तथा चाह स्वयम्भूः "देवागमनभोयानचामरादिविभृतयः। मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान्।।" इति, । ततस्तद्वयवच्छेदार्थं विशेषणान्तरमाह-'अतीतप्रत्युत्पन्नानागतज्ञैः' नचातीतानागतज्ञाः सुगताः सम्भवन्ति, तेपामेकान्तक्षणिकत्वाभ्युपगमन सर्वथाऽतीतानागतयोरसत्त्वाद्, असतां च ग्रहणासम्भवादित्यत्र बहु वक्तव्यं तच्च प्रायः प्रागेवोक्तमन्यत्र(च) धर्मसंग्रहणीटीकादाविति नोच्यते, इह व्यवहारनयमतानुसारिभिः कैश्चिदृषयोऽप्यतीतप्रत्युत्पत्रानागतज्ञा इष्यन्ते, तथा च तद्ग्रन्थः - "ऋषयः संयतात्मानः, फलमूलानिलाशनाः। तपसेव प्रपश्यन्ति, त्रैलोक्यं सचराचरम् ॥१॥ अतीतानागतान् भावान्. वर्तमानांश्च भारत!। ज्ञानालोकेन पश्यन्ति, त्यक्तसङ्गा जितेन्द्रियाः ।।२।।" इत्यादि, ततस्तद्वयवच्छेदार्थमाह-'सर्वज्ञैः सर्वदर्शिभिः' ते तु ऋषयः सर्वज्ञाः सर्वदर्शिनश्च न भवन्ति, ततस्तेषां व्युदासः। तदेवं द्रव्यास्तिकपर्यायास्तिकनयमतव्यवच्छेदफलतया विशेषणसाफल्यमुक्तं, विचित्रनयमताभिज्ञेन तु अन्यथापि विशेषणसाफल्यं वाच्यं, न कश्चिद्विरोधः, प्रणीतम्- अर्थकथनद्वारेण प्ररूपितं, किं तदित्याह 'द्वादशाङ्गं' श्रुतरूपस्य परमपुरुपस्याङ्गानीवाङ्गानि द्वादशाङ्गानि-आचाराङ्गादीनि यस्मिन् तत् द्वादशाङ्ग 'गणिपिडगं'ति गणो-गच्छो गुणगणो वाऽस्यास्तीति गणी-आचार्यस्तस्य पिटकमिव पिटकं, सर्वस्वमित्यर्थः, गणिपटिकं, अथवा गणिशब्दः परिच्छेदवचनाऽ(प्य)स्ति, तथा चोक्तम् "आयारंमि अहीए जं नाओ होइ समणधम्मो उ। तम्हा आयारधरो भन्नइ पढमं गणिट्ठाणं ।।" ततश्च गणीनां पिटकं गणिपिटकं परिच्छेदसमूह इत्यर्थः, तद्यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy