________________
१८५
मूलं-१३३
अत्राह-ननु प्रथमं हेतृपदेशेन संजी वक्तुं यज्यते, हेतृपदेशेनाल्पमनोलब्धिसम्पन्नस्यापि द्वीन्द्रियादेः संज्ञित्वेनाभ्युपगतत्वात् तस्य चाविशुद्धतरत्वात्, ततः कालिक्युपदेशन, हत-- पदेशेसंज्ञापेक्षया कालिक्युपदेशन संजिनो मन:पर्याप्तियुक्ततया विशुद्धत्वात्, तत्किमर्थमुत्क्रमोप न्यासः ?. उच्यते, इह सर्वत्र सूत्रे यत्र क्वचित् संज्ञी असंज्ञी वा परीगृह्यते तत्र सर्वत्रापि प्रायः कालिक्युपदेशेन गृह्यत न हेतृपदेशेन नापि दृष्टिवादोपदेशेन, तत एतत्सम्प्रत्ययार्थं प्रथमं कालि.. क्युपदेशेन संज्ञिनो ग्रहणं, उक्तं च
"सन्नित्ति असन्नित्ति य सव्वसुए कालिओवएसेणं।
पायं संववहारो कीरइ नाइआ सकओ।।" ततोऽनन्तरमप्रधानत्वाद्धेतृपदेशेन संज्ञिनो ग्रहणं, ततः सर्वप्रधानत्वादन्तै दृष्टिवादोपदेश - नेति। सेत्त'मित्यादि, तदेतत्संज्ञिश्रुतम्, असंज्ञिश्रुतमपि प्रतिपक्षाभिधानादेव प्रतिपादितं, तत आह-'सेत्तं असन्निसुयं तदेतदसंज्ञिश्रुतं।।
मू.(१३४ ) से किं तं सम्मुसुअं?, जं इमं अरहंतेहिं भगवंतेहिं उप्पन्ननाणदंसणधरेहि तेलुक्कनिरिक्खअमहिअपूइएहिं तीयपडुप्पन्नमनागयजाणएहिं सव्वण्णूहि सव्वदरिसीहिं पणीअं दुवालसंगं गणिपिडग तंजहा-आयारो १ सूयगडो २ ठाणं ३ समवाओ ४ विवाहपन्नत्ती ५ नायाधम्मकहाओ६ उवासगदसाओ७ अंतगडदसाओ८ अनुत्तरोववाइयदसाओ९ पण्हावागरणाई १० विवागसुअं११ दिहिवाओ १२, इच्चेअंदुवालसंगं गणिपिडगं चोद्दसपुव्विस्स सम्मसुअं अभिन्नदसपुब्विस्स सम्मसुअंतेन परंभिन्नेसु भयणा, से तं सम्मसुअं।
वृ. से किंत'मित्यादि, अथ किं तत्सम्यक्श्रुतं?, आचार्य आह-सम्यक्श्रुतं यदिदमर्हद्भिः.. अशोकाद्यष्यमहाप्रातिहार्यरूपां पूजामर्हन्तीत्यर्हन्तः-तीर्थकरास्तैरर्हद्भिः, ते चार्हन्तः कैश्चि. च्छुद्धद्रव्यास्तिकनयमतानुसारिभिरनादिसिद्धा एव मुक्तात्मानोऽभ्युपगम्यन्ते, तथा च ते पठन्ति
"ज्ञानमप्रतिधं यस्य, वैराग्यं च जगत्पतेः ।
ऐश्वर्यं चैव धर्मश्च, सहसिद्धं चतुष्टयम्॥ इत्यादि, एवंरूपाश्चापि ते बहव इप्यन्ते स्थापनादिद्वारेण च विशिष्टां पूजामर्हन्ति ततोऽर्हन्तोऽप्युच्यन्ते ततस्तद्वयवच्छेदार्थं विशेपणान्तरमाह-'भगवद्भिः' भगः-समग्रैश्वर्यादिरूपः,
"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः।
धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना।।" भगो विद्यते येषां ते भगवन्तः तैर्भगवद्भिः, इहानादिसिद्धानां रूपमात्रमपि नोपपद्यते किं पुनः समग्रं रूपम्, अशरीरत्वात्, शरीरस्य च रागादिकार्यतया तेषां रागादिरहितानामसम्भवात्, ततो भगवद्भिरित्यनेन परपरिकल्पितानादिसिद्धार्हद्वयवच्छेदमाह। ___ अथ मन्येथाः-अनादिशुद्धा अप्यर्हन्तो यदा स्वेच्छया समग्ररूपादिगुणोपेतं शरीरमारचयन्ति तदा तेऽपि भगवन्तो भवन्ति ततः कथं तेषां व्युदास इत्याशङ्कापनोदार्थं भूयोऽपि विशेषणान्तरमाह'उत्पन्नज्ञानदर्शनधरैः' उत्पन्नं ज्ञानं-केवलज्ञानं दर्शन-केवलदर्शनं धरन्तीति उत्पन्नज्ञानदर्शनधराः, 'लिहादिभ्य' इत्यच्प्रत्ययः, न च येऽनादिविशुद्धास्ते उत्पन्नज्ञानदर्शनधरा भवन्ति, ज्ञानमप्रतितं यस्ये' त्यादिवचनविरोधात्, तत उत्पन्नज्ञानदर्शनधरैरिति विशेषणेन तेषां व्यवच्छेदो भवति, ननु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org