________________
१८४
नन्दी-चूलिकासूत्रं _ 'से कि त'मित्यादि, अथ कोऽयं हेतूपदेशेन संज्ञी ?, हेतुः कारणं निमित्तमित्यनान्तरं उपदेशनमुपदेशः हेतोरुपदेशनं हेतृपदेशस्तेन, किमक्तं भवति ? कोऽयं संज्ञित्वनिबन्धनहेतुमुपलभ्य कालिक्युपदशेनासंग्यपि संज्ञीति व्यवह्रियते?, आचार्य आह-हेतृपदेशेन संज्ञा यस्य प्राणिनोऽस्ति-विद्यतेऽभिसन्धारणम्-अव्यक्तेन व्यक्तेन वा विज्ञानेनालोचनंतत्पूविकातत्कारणिका 'करणशक्तिः' करण क्रिया तस्यां शक्तिः--प्रवृत्तिः सप्राणी 'ण'मिति वाक्यालङ्कारे हेतूपदेशेन संज्ञीति भण्यते. एतदुवां भवति-यो बुद्धिपूर्वकं स्वदेहपरिपालनार्थमिष्टेप्वाहारादिषु वस्तुप प्रवर्त्तते अनिष्टभ्यश्च निवर्ती सं हतपदेशेन संज्ञी, स च द्वीन्द्रियादिरपि वेदितव्यः, तथाहिरष्टानिष्टविषयप्रवृत्तिनिवृत्तिसञ्चिन्तनं न मनोव्यापारमन्तरेण सम्भवति, मनसा पर्यालोचनं संज्ञा, सा च द्वीन्द्रियादेरपि विद्यते, तस्यापि प्रतिनियतेष्टानिष्टविषयप्रवृत्तिनिवृत्तिदर्शनात, ततो द्वीन्द्रियादिरपि हेतृपदेशेन संज्ञी लभ्यते, नवरमस्य चिन्तनं प्रायो वर्तमानकालविपयं न भूतभविष्यद्विषयमिति न कालिक्युपदेशेन संज्ञी लभ्यते, यस्य पुनर्नास्त्यभिसन्धारणापृविका करणशक्तिः स प्राणी 'ण'मिति वाक्यालङ्कारे हेतृपदेशेनाप्यसंज्ञी लभ्यते, सच पृथिव्यादिरेकेन्द्रियो वेदितव्यः, तस्याभिसन्धिपूर्वकमिष्टानिष्टप्रवृत्तिनिवृत्त्यसम्भवात्, या अपि चाहारादिसंज्ञाः पृथिव्यादीनां वर्तन्ते ता अप्यत्यन्तमव्यक्तरूपा इति तदपेक्षयाऽपिनतंपां संज्ञित्वव्यपदेशः, उक्तंच भाष्यकृता
"जे' पुन संचिंतेउंइट्टानिट्टेसु विसयवत्थूसुं।
वत्तंति नियत्तंति य सदेहपरिपालनाहेडं।।१।। पाएण संपइ च्चिय कालंमि न याइदीहकालण्णू।
ते हेउवायसण्णी निच्चिट्ठा होति अस्सण्णी॥२॥" अन्यत्रापि हेतृपदेशेन संज्ञित्वमाश्रित्योक्तं
कृमिकीटपतङ्गाद्याः समनस्का: जङ्गमाश्चतुर्भेदाः।
अमनस्काः पञ्चविधाः पृथिवीकायादयो जीवाः ।।" 'सेत्त'मित्यादि, सोऽयं हेतृपदेशेन संज्ञी। ‘से किंत'मित्यादि, अथ कोऽयं दृष्टिवादोपदेशेन संज्ञी?, दृष्टिः दर्शनं-सम्यक्त्वादि वदनं वाद: दृष्टीनां वादो दृष्टिवादस्तदुपदेशेन, तदपेक्षयेत्यर्थः, आचार्य आह-दृष्टिवादोपदेशेन संज्ञि श्रुतस्य क्षयोपशमेन संज्ञी लभ्यते, संज्ञानं संज्ञा-सम्यग्ज्ञानं तदस्यास्तीति(स) संज्ञी-सम्यगदृष्टिस्तस्य यच्छ्रतं तत्संज्ञि श्रुतं, सम्यक श्रुतमिति भावार्थः तस्य क्षयोपशमेन-तदावारकस्य कर्मणः क्षयोपशमभावने संज्ञी लभ्यते, किमुक्तं भवति? सम्यग्दृष्टिः क्षायोपशमिकज्ञानयुक्तो दृष्टिवादोपदेशेन संज्ञी भवति, सच यथाशक्ति रागादिनिग्रहपरो वेदितव्यः, सहि सम्यग्दृष्टिः सम्यग्ज्ञानी वा यो रागादीन् निगृह्णाति, अन्यथा हिताहितप्रवृत्तिनिवृत्त्यभावतः सम्यग्दृष्टिवाद्ययोगात्, उक्तं च..
___ "तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः।
तमसः कुतोऽस्ति शक्तिदिनकरकिरणाग्रतः स्थातुम्।" अन्यस्तु मिथ्यादृष्टिरसंज्ञी, तथा चाह -'असंज्ञिश्रुतस्य' मिथ्या श्रुतस्य क्षयोपशमेनासंज्ञीति लभ्यते, ‘से त्त'मित्यादि निगमनं, सोऽपं दृष्टिवादोपदेशेन संजी। तदेवं संज्ञिनस्त्रिभेदत्वात् श्रुतमपि तदुपाधिभेदात् त्रिविधमुपन्यस्तं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org