________________
मूलं-१२९
१८१ गमिकमगमिकङ्गप्रविष्टमनङ्गप्रविष्टं च । ननु अक्षरश्रुतानक्षरश्रुतरूप एव भेदद्वये अन्तर्भवन्ति तत्किमर्थं तेषां भेदोपन्यासः?, उच्यते, इहाव्युत्पन्नमतीनां विशेषावगमसम्पादनाय महात्मनां शास्त्रारम्भप्रयासो, न चाक्षरश्रुतानक्षरश्रुतरूपभेदद्वयोपन्यासमात्रादव्युत्पन्नमतयः शेपभेदानवगन्तुमाशते, ततोऽव्युत्पन्नमतिविनेयजनानुग्रहाय शेषभेदोपन्यास इति।
साम्प्रतमुपन्यस्ताना भेदानां स्वरूपमनवगच्छन् आद्यं भेदमधिकृत्य शिष्यः प्रश्नं करोति
मू.(१३०)से किंतं अक्खरसुअं?, अक्खरसुअंतिविहं पत्रतं. तंजहा-सनक्खरंवंजणक्खरं लद्धिअक्खरं, से किंतं सनक्खरं?, २ अक्खरस्स संठाणागिई, सेत्तं सन्नक्खरं। से किंतं वंजणक्खरं?, वंजणक्खरं अक्खरस्स वंजणाभिलावी, सेतं वंजणक्खरं। से किं तं लद्धिअक्खरं?, लद्धिअक्खरं अक्खरलद्धियस्स लद्धिअक्खरं सम्प्पज्जइ, तंजहा-सोइंदिअलद्धिअक्खरं चक्खिंदियलद्धिअक्खरं रसनिदियलद्धिअक्खरं फासिंदियलद्धिअक्खरं नोइंदियलद्धिअक्खरं
से तं लद्धिअक्खरं, से तं अक्खरसुआ से किं तं अनक्खरसुअं?, अनक्खरसुअंअनेगविहं पन्नत्तं, तंजहा
वृ.अथ किं तदक्षरश्रुतं?, सूरिराह-अक्षरश्रुतं त्रिविधं प्रज्ञप्तं, तद्यथा-सञ्ज्ञाक्षरं व्यञ्जनाक्षरं लब्ध्यक्षरंच, तत्र 'क्षर सञ्चलने'न क्षरति-न चलतीत्यक्षरं-ज्ञानं, तद्धि जीवास्वाभाव्यादनुपयो - गेऽपि तत्त्वतो न प्रच्यते, यद्यपि च सर्वं ज्ञानमविशेषेणाक्षरं प्राप्नोति तथाऽपीह श्रुतज्ञानस्य प्रस्तावादक्षरं श्रुतज्ञानमेव द्रष्टव्यं, नशेष, इत्थम्भूतभावाक्षरकारणं वाऽकारादि वर्णजातं ततस्तदप्युपचारादक्षरमुच्यतेप ततश्चाक्षरं च तच्छ्रुतं च श्रुतज्ञानं च अक्षरश्रुतं, भावश्रुतमित्यर्थः, तच्च लब्ध्यक्षरंवेदितव्यं, तथाऽक्षरात्मकमकारादिवर्णात्मकं श्रुतमक्षरश्रुतं द्रव्यश्रुतमित्यर्थः, तच्च सञ्ज्ञाक्षरं व्यञ्जनाक्षरं च द्रष्टव्यं,
अथ किं तत्सझाक्षरं ?, अक्षरस्याकारादेः, संस्थानाकृतिः-संस्थानाकारः, तथाहिसञ्ज्ञायतेऽनयेति सञ्जा-नाम तनिबन्धनं-तत्कारणमक्षरं संज्ञाक्षरं संज्ञाक्षरं संज्ञायाश्च निबन्धनमाकृतिविशेषः, आकृतिविशेष एव नाम्नः करणाद्वयवहरणाच्च, ततोऽक्षरस्य पट्टिकादौ संस्थापितस्य संस्थानाकृतिः संज्ञाक्षरमुच्यते, तच्च ब्राहयादिलिपिभेदतोऽनेकप्रकारं, तत्र नागरी लिपिमधिकृत्य किञ्चित्प्रदर्श्यते-मध्ये स्फाटितचुल्लीसन्निवेशसदृशो रेखासनिवेशो मकारो वक्रीभूतश्वपुच्छसन्निवेशसदृशो ढकार इत्यादि, सेत्तामि'त्यादि, तदेतत् संज्ञाक्षरं। __अथ किं तद्वयञ्जनाक्षरं?, आचार्य आह-व्यञ्जनाक्षरमक्षरस्य व्यञ्जनाभिलापः, तथाहिव्यज्यतेऽनेनार्थः प्रदीपेनेव घटइति व्यञ्जनं-भाष्यमाणमकारादिकं वर्णजातं, तस्य विवक्षितार्थाभिव्यञ्जकत्वात्, व्यञ्जनं च तदक्षरंच व्यञ्जनाक्षरं, ततो युक्तमुक्तं व्यञ्जनाक्षरमक्षरस्य व्यञ्जनाभिलापः, अक्षरस्याकारदेर्वर्णजातस्य व्यञ्जनेन-अत्र भावे अनट्व्यञ्जकत्वेनाभिलाप:-उच्चारणं, अर्थव्यञ्जकत्वेनोच्चार्यमाणमकारादिवर्णजातमित्यर्थः। ___ 'से किं तमि'त्यादि, अथ किं तल्लब्ध्यक्षरं?, लब्धिः -उपयोगः स चेह प्रस्तावात् शब्दार्थपर्यालोचनानुसारी गृह्यते, लब्धिरूपमक्षरं लब्ध्यक्षरं, भाव श्रुतमित्यर्थः, 'अक्खरलद्धियस्से'त्यादि, अक्षरे-अक्षरस्योच्चारणेऽवगमे वालब्धिय॑स्य सोऽक्षरलब्धिक: तस्य, अकाराद्यक्षरानुविद्धश्रुतलब्धिसमन्वितस्येत्यर्थः, लब्ध्यक्षरं भावश्रुतं समुत्पद्यते, शब्दादिग्रहणसम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org