________________
१८०
नन्दी-चूलिकासूत्रं शृणोति मिश्राणि वा, न केवलान्येवोत्सृष्टानि, तथा चाहमू.(१२६) भासासमसेढीओ सदं जं सुणइ मीसियं सुणइ।
वीसेढी पुन सदं सुणेइ नियमा पराघाए। वृ.'भासासमे'त्यादि, भाष्यत इति भाषा-वाक् शब्दरूपतया उत्सृज्यमाना द्रव्यसन्ततिः सा च वर्णात्मिका भेरीभाङ्कारादिरूपा वा द्रष्टव्या तस्याः समाः श्रेणयः, श्रेणयो नाम क्षेत्रप्रदेशपंक्तयोऽभिधीयन्ते, ताश्च सर्वस्यैव भाषामाणस्य षट्सुदिक्षु विद्यन्ते यासूत्सृष्टा सती भाषा प्रथमसमय एव लोकान्तमनुधावति, भाषासमश्रेणयः, समश्रेणिग्रहणं विश्रेणिव्यवच्छेदार्थं, भाषासमश्रेणी: इतो-गतः प्राप्तो भाषासमश्रेणीतः, भाषासमश्रेणिव्यवस्थित इत्यर्थः, यं शब्दं पुरुषादिसम्बन्धिनं भेर्यादिसम्बन्धिनं वा शृणोति यत्तदोनित्याभिसम्बन्धात्तं मिश्रशृणोति, उत्सृष्टशब्दद्रव्यभावितापान्तरालस्थद्रव्यमिश्रंशृणोतीति भावार्थः।
'वीसेढी'त्यादि, अत्रेत इति वर्त्तते, ततोऽयमर्थः --विश्रेणिं पुनरितः-प्राप्तो, विश्रेणिव्यवस्थितः पुनरित्यर्थः, अथवा विश्रेणिस्थितो विश्रेणिरित्युच्यते, शब्दंशृणोति नियमात्पराधाते सति, नान्यथा, किमुक्तं भवति? -उत्सृष्टशब्दद्रव्यशब्दा (शब्दाद्रव्या) भिधातेन यानिवासितानि शब्दद्रव्याणि तान्येव केवलानि शृणोति, न कदाचिदपि उत्सृष्टानि, कुत इति चेद्, उच्यते, तेषामनुश्रेणिगमनात्प्रतिघाताभावाच्च । सम्प्रति विनेयजनसुखप्रतिपत्तये मतिज्ञानस्य पर्यायशब्दानिभिधित्सुहारमू.(१२७) ईहा अपोह वीमंसा, मागणा य गवेसणा।
सन्ना सई मई पन्ना, सव्वं आभिनिबोहि। वृ. 'ईह'त्यादि, एते ईहादयः शब्दा सर्वेऽपि परमार्थतो मतिवाचका: पर्यायशब्दाः, परं विनेयजनबुद्धिप्रकाशनाय किञ्चिद्भेदाभेदोऽमीषां प्रदर्श्यते-ईहनमीहा-सदर्थपर्यालोचनं अपोहनमपोह: निश्चय इत्यर्थः, विमर्शनं विमर्शः--अपायादर्वागीहायाः परिणामविशेषः, मार्गणं मार्गणा-अन्वयधर्मान्वेषणं, च: समुच्चये, गवेषणं गवेषणा-व्यतिरेकधर्मालोचनं, तथा संज्ञानं संज्ञा व्यञ्जनावग्रहोत्तरकालभावी मतिविशेष इत्यर्थः, तथा स्मरणं स्मृतिः-पूर्वानुभूतालम्बनः प्रत्ययविशेषः, मननं मति-कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिः, प्रज्ञापनं प्रज्ञा-विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा संवित्, सर्वमिदमाभिनिबोधिकं, मतिज्ञानामित्यर्थः,
मू.(१२८) सेतं आभिनिबोहिअनाणपरोक्खं॥ वृ. 'सेत्तमि'त्यादि, तदेतदाभिनिबोधिकज्ञानं। साम्प्रतं प्रागुपन्यस्तसकलचरणकरणक्रियाधारश्रुतज्ञानस्वरूपजिज्ञासया शिष्यः प्रश्नयति
मू.(१२९) से किं तं सुयनाणपरोक्खं?, सुयनाणपरोक्खं चोद्दसविहं पन्नत्तं, तंजहाअक्खरसुयं १ अनक्खरसुयं २ सण्णिसुयं ३ असण्णिसुअं४ सम्मसुअं५ मिच्छसुअं६ साइअं ७ अनाइअं८ सपज्जवसिअं९ अपज्जवसिअं१० गमिअं११ अगमिअं१२ अंगपविट्ठ १३ अनंगपविलु १४ ।
वृ. अथ किं तच्छ्रुतज्ञानं?, आचार्य आह-श्रुतज्ञानं चतुर्दशविधं प्रज्ञप्तं, तद्यथा-अक्षरश्रुतमनक्षरश्रुतं संज्ञि श्रुतमसंज्ञिश्रुतं सम्यक्श्रुतं मिथ्याश्रुतं सादि अनादि सपर्यवसितमपर्यवसितं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org