________________
१८२
नन्दी-चूलिकासूत्रं नन्तरमिन्द्रियमनोनिमित्तं शब्दार्थपर्यालोचनानुसारिशाङ्खोऽयमित्याद्यक्षरानुविद्धं ज्ञानमुपजायते इत्यर्थः, नन्विदं लब्ध्यक्षरंसझिनामेव पुरुषादीनामुपपद्यते नासझिनामेकेन्द्रियादीनां तेषामकारादीनां वर्णानामवगमे उच्चारणे वा लब्ध्यसम्भवात, न हि तेपां परोपदेशश्रवणं सम्भवति येनाकारादिवर्णानामवगमादि भवेत् अथचैकेन्द्रियादीनामपि लब्ध्यक्षरमिष्यते, तथाहिपार्थिवादीनामपि भावश्रुतमुपवर्ण्यते___ 'दव्वसुयाऽभावंमिवि भावसुयं पत्थिवाईण'मिति वचनप्रामाण्याद्, भावश्रुतं च शब्दार्थपर्यालोचनानुसारि विज्ञानं, शब्दार्थपर्यालोचनं चाक्षरमन्तरेण न भवतीति, सत्यमेतत्, किन्तु यद्यपि तेषामेकेन्द्रियादीनां परोपदेशश्रवणासम्भवस्तथापि तेषां तथाविधयक्षयोपशमभावातः कश्चिदव्यक्तोऽक्षरलाभो भवति यद्वशादक्षरानुपक्तं श्रुतज्ञानमुपजायते, इत्थं चैतदङ्गीकर्त्तव्यं, तथाहि-तेषामप्याहाराद्यभिलाष उपजायते, अभिलापश्च प्रार्थना, सा च यदीदमहं प्राप्नोमि ततो भव्यं भवतीत्याद्यक्षरानुविद्धव, ततस्तेषामपि काचिदव्यक्ताक्षरलब्धिरवश्यं प्रतिपत्तव्या, ततस्तेपामपि लब्ध्यक्षरं सम्भवतीति न कश्चिद्दोपः।
तथा लब्ध्यक्षरंपोढा, तद्यथा-'श्रोत्रेन्द्रियलध्यक्षर'मित्यादि, इह यच्छ्रोत्रेन्द्रियेण शब्दश्रवणे सति शानोऽयमित्याद्यक्षरानुविद्धं शब्दार्थपर्यालोचनानुसारि विज्ञानं तच्छोडेन्द्रियलब्ध्यक्षरं, तस्य श्रोत्रेन्द्रियनिमित्तत्वात्, यत्पुनश्चक्षुपा आम्रफलाद्युपलभ्याम्रफलमित्याद्यक्षरानुविद्धं शब्दार्थ-- पर्यालोचनात्मकं विज्ञानं तच्चक्षुरिन्द्रियलब्ध्यक्षरं, एवं शषेन्द्रियलब्ध्यक्षरमपि भावनीयं, से त'मित्यादि, तदेतत्, लब्ध्यक्षरं, तदेतदक्षरश्रुतं ।
अथकिंतदनक्षरश्रुतं?,अनक्षरात्मकं श्रुतमनक्षरश्रुतं, आचार्य आह-अनक्षरश्रुतमनेकविधम्अनेकप्रकारं प्रज्ञप्तं, तद्यथामू.(१३१) ऊससिनीससिअंनिच्छूढं, खासिअंच छीअंच।
निस्सिधिअमनुसारं अनक्खरं छेलिआईअं॥ वृ.'ऊससिय'मित्यादि, उच्छसनमुच्छसितं, भावे निष्ठाप्रत्ययः, तथा निःश्वसनं नि:श्वसितं निष्ठीवनं निष्ठयूतं, कासनं कासितं, चशब्द: समुच्चयार्थः, क्षवणं क्षुतं, एषोऽपि चशब्दः समुच्चार्थः परमस्य व्यवहितः प्रयोग: सेंटितादिकं चेत्येवं द्रष्टव्यः, तथा 'निस्सिघनं निस्सिङ्कितं, अनुस्वार-. वदनुस्वारं, सानुस्वारमित्यर्थः, तथा सेंटितादिकं चानक्षरश्रुतं, इह उच्छसितादि द्रव्यश्रुतं द्रष्टव्यं, ध्वनिमात्रत्वाद्भाव श्रुतस्य कारणत्वात्कार्यत्वाच्च, तथाहि-यदाऽभिसन्धिपूर्वकं स विशेषतरमुच्छसितादि कस्यापि पुंसः कस्यचिदर्थस्य ज्ञप्तये प्रयुक्ते तदा तदुच्छसितादिप्रयोक्तु वश्रुतस्य फलं श्रोतुश्च भावश्रुतस्य कारणं भवति ततो द्रव्य श्रुतमित्युच्यते, अथ ब्रवीथाः-एवं तर्हि करादिचेष्टाया अपि द्रव्यश्रुतत्वप्रसङ्गः, साऽपि हि बुद्धिपूर्विका क्रियमाणा तत्कर्त वश्रुतस्यं फलं द्रष्टुश्च भाव श्रुतस्य कारणमिति, नैष दोषः, श्रुतमित्यन्वर्थाश्रयणात्, तथाहि-यच्छ्रयते तच्छ्रुत- मित्युच्यते, न च करादिचेष्टा श्रूयते ततो न तत्र द्रव्यश्रुतत्वप्रसङ्गः, उच्छसितादिकं तु श्रूयते अन.. क्षरात्मकं च ततस्तदनक्षरश्रुतमित्युक्तं, मू.(१३२)
से तं अनक्खरसुअं॥ वृ.'सेत्तमि'त्यादि, तदेतदनक्षरश्रुतं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org