________________
मूलं-१२०
१७७ तदाऽबह्ववग्रहः, तथा शङ्कपटहादिनानाशब्दसमूहमध्ये एकैकं शब्दमनेकै: पर्यायः स्निग्धगाम्भीर्यादिभिविष्टं यथास्थितं यदाऽवगृह्णाति तदा स बहविधावग्रह:, यदा त्वेकमनेकं वा शब्दमेकपर्यायविशिष्टमवगृह्णाति तदा सोऽबहुविधावग्रहः, यदा तु अचिरेण जानाति तदा सक्षिप्रावग्रहः, यदा त चिरेण तदाऽक्षिप्रावग्रहः, तमेव शब्दं स्वरूपेण यदा जानाति नलिङ्गपरिग्रहात्तदाऽनिश्रितावग्रह:, लिङ्गपरिग्रहेण त्ववगच्छतो निश्रितावग्रहः, अथवा परधर्मविमिश्रितं यद्ग्रहणं तन्मिश्रितावग्रहः, यत्पुनः परधर्मेरमिश्रितस्य ग्रहणं तदमिश्रितावग्रहः, तथा निश्चितमवगृह्णतो निश्चितावग्रहः, सन्दिग्धमवगृह्णतः सन्दिग्धावग्रहः, सर्वदैव बह्वदिरूपेणावगृह्णतो ध्रुवावग्रहः, कदाचिदेव पुनर्बह्वादिरूपेणावगृह्णतोऽध्रुवावग्रहः. एप च बहुबहुविधादिरूपोऽवग्रहो विशेषसामान्यावग्रहरूपे द्रष्टव्यः, नैश्चयिकस्यावग्रहस्य सकलविशेषनीरपेक्षानिर्देश्यसामान्यमात्रग्राहिण एकसामायिकस्य बहुविधादिविशेपग्राहकत्वासम्भवात्, बह्वादीनामनन्तरोक्तं व्याख्यानं भाष्यकारोऽपि प्रमाणयति
"नाणासद्दसमूहं बहुविहं सुणेइ भिन्नजातीयं।
बहुविहमनेगभूयं एक्के कं निद्धमहुराइ॥१॥ खिप्पमचिरेण तं चिय सरूवओ जमनिस्सियमलिंग।
निच्छियमसंसयं जं धुवमच्चंतं न उकयाइ।।२।। एत्तो च्चिय पडिवक्खं साहेज्जा निस्सिए विसेसोऽयं ।
परधम्मेहिं विमिस्सं मिस्सियमविमिस्सियं इयरं ।।३।। यदा पुनरालोकस्य मन्दमन्दतरमन्दतमस्पष्टस्पष्टतरस्पष्टतमत्वादिभेदतो विषयस्याल्पत्वमहत्त्वसन्निकर्पादिभेदतः क्षयोपशमस्य च तारतम्यभेदतो भिद्यमानं मतिज्ञानं चिन्त्यते तदा तदनन्तभेदं प्रतिपत्तव्यम्।
सम्प्रति पुनद्रव्यादिभेदतश्चतुःप्रकारतामाह -
मू. (१२१)तं समासओ चउब्विहं पन्नत्तं, तंजहा-दव्वओ खित्तओ कालओ भावओ, तत्थादव्वओ णं आभिनिबोहिअनाणी आएसेणं सव्वाइंदव्वाइं जाणइन पासइ, खेत्तओ णं आभिनिबोहिनाणी आएसेणं सव्वं खेत्तं जाणइ न पासइ, कालओ णं आभिनिबोहिअनाणी आएसेणं सव्वकालं जाणइ न पासइ, भावओ णं आभिनिबोहिअनाणी आएसेणं सव्वे भावे जाणइन पासइ।
वृ.'तं समासओ' इत्यादि, 'तत्' मतिज्ञानं 'समासतः' संक्षेपेण चतुर्विधं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो 'ण'मिति वाक्यालङ्काकरे, आभिनिबोधिकज्ञानी आदेसेणं'ति आदेश:-प्रकारः,सच द्विधा-सामान्यरूपो विशेषरूपश्च, तत्रेह सामान्यरूपो ग्राह्यः, तत आदेशेनद्रव्यजातिरूपसामान्यादेशेन सर्वद्रव्याणि-धर्मास्तिकायादीनी जानाति किञ्चिद्विशेषतोऽपि, यथा धर्मास्तिकायो धर्मास्तिकायस्य प्रदेशः तथा धर्मास्तिकायो गत्युपष्टम्भहेतुरमूर्तो लोकाकाशप्रमाण इत्यादि, न पश्यति-सर्वात्मना धर्मास्तिकायादीन पश्यति, घटादींस्तु योग्यदेशावस्थितान् पश्यत्यपि, अथवा आदेश इति-सूत्रादेशस्तस्मात्सुत्रादेशात्सर्वद्रव्याणि धर्मास्तिकायादीनि जानाति, न तु साक्षात् सर्वाणि पश्यति, ननु यत्सूत्रादेशतो ज्ञानमुपजायते तच्छृतज्ञानं भवति तस्य 30/12
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org