________________
१७८
नन्दी-चूलिकासृत्रं शब्दार्थपरिज्ञानरूपत्वादथ च मतिज्ञानमभिधीयमानं वर्तत तत्कथमादेश इति सूत्रादेशो व्याख्यातः?, तदयुक्तं, सम्यग्वस्तुतत्त्वापरिज्ञानात्, इह हि श्रुतभावितमतेः श्रुतोपलब्धेष्वपि अर्थेषु सूत्रानुसारमात्रेण येऽवग्रहेहापायादयो बुद्धिविशेषाः प्रादुयन्ति ते मतिज्ञानमेव, न श्रुतज्ञानं, सूत्रानुसारनिपेक्षत्वात्, आह च भाष्यकृत्
"आदेसोत्ति व सुत्तं सुओवलद्धेसु तस्स मइनाणं ।
पसरइ तब्भावणया विणावि सत्तानसारेणं।" एवं क्षेत्रादिप्वपि वाच्यं, नवरं तान् सर्वथा न पश्यति, तत्र क्षेत्रं लोकालोकात्मकं, कालः सर्वाद्धारूपोऽतीतानागतवर्तमानरूपो वा, भावाश्च पञ्चसङ्ख्या औयिकादयः, तथा चाहभाष्यकृत्
"आएसोत्ति पगारो ओघाएसेण सव्वदव्वाई। धम्मत्थिकाइआई जाणइ न उसव्वभावेणं ||१|| खेत्तं लोकालोकं कालं संवुद्धमहव तिविहं वा।
पंचोदइयाईए भावे जं नेयमेवइयं ।।२।।" सम्प्रति संग्रहगाथां प्रतिपादयतिमू.(१२२) जगह ईहाऽवाओ य धारणा एव हुँति चत्तारि।
आभिनिबोहियनाणस्स भेयवत्थू समासेणं। वृ. 'उग्गहो' इत्यादि, अवग्रह:-प्राग्निरूपितशब्दार्थस्तथा ईहा अपायश्च, चशब्दः पृथगवग्रहादिस्वरूपस्वातन्त्र्यप्रदर्शनार्थः, अवग्रहादयः परस्परं पर्याया न भवन्तीति भावार्थः, अथवा चशब्द: समुच्चये, तस्य च व्यवहितः प्रयोगो धारणा चेत्येवं द्रष्टव्यः, एवकार: क्रमप्रदर्शनार्थः, 'एवम्' एतेन क्रमेण 'समासेन' संक्षेपेण चत्वारि आभिनिबोधिकज्ञानस्य भिद्यन्ते इति भेदा विकल्प अंशा इत्यर्थः त एव वस्तृनि भवन्ति, तथाहि-नानवगृहीतमीह्यते नानीहितं निश्चीयते नानिश्चितं धार्यते इति । इदानीमेतेपामवग्रहादीनां स्वरूपं प्रतिपिपादयिषुराहमृ.(१२३) अत्थाणं उग्हणमि उगहो तह विआलणे ईहा।
ववसायंमि अवाओ धरणं पुन धारणं बिति। वृ. अत्थाण'मित्यादि, अर्थानां-रूपादीनामवग्रहणंचशब्दोऽवग्रहणस्य अव्यक्तत्वसामान्यमात्रसामान्यविशेपविषयत्वापेक्षया स्वगतभेदबाहुल्यसूचकः, अवग्रहंब्रवते इति योगः, 'तथे'त्यानन्तर्ये विचारणं-पर्यालोचनमर्थानामिति वर्तते ईहां ब्रुवते, तथा विविधोऽवसायो व्यवसायोनिर्णयस्तं चार्थानामिति वर्तत अपायं ब्रुवते इति संसर्गः, धरणं पुनरर्थानामविच्युतिस्मृतिवासनारूपांधारणांब्रुवते तीर्थकरगणधराः, अनेन स्वमनीषिकाव्यदासमाह__ अन्यत्वेवं पठन्ति-"अत्थाणं' उग्गहणंमि उग्गहो" इत्यादि, तत्रैवं व्याख्यानम् -अर्थानामवग्रहणे सत्यवग्रहो नाम मतिविशेषो भवतीत्येवं ब्रुवते, एवमीहादिष्वपि योजना कार्या, भावार्थः प्राग्वदेव। इदानीमभिहितस्वरूपाणामवग्रहादीनां कालप्रमाणमभिधित्सुराहमू.(१२४) उग्गह इक्कं समयं ईहावाया मुहुत्तमद्धं तु।
कालमसंखं संखं च धारणा होइ नायव्वा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org