________________
१७६
नन्दी-चूलिकासूत्रं नियमात्तद्वस्तु निश्चिनोति, यदि पुनर्वस्तु दुर्बोधं न च तथाविधो विशिष्टो मतिज्ञानावरणक्षयोपशमस्सत ईहोपयोगदच्युतः पुनरप्यन्तर्मुहूर्त्तकालमीहते, एवमीहोपयोगविच्छेदेन प्रभूतान्यन्तर्मुहूत्तानि यावदीहते तत ईहानन्तरं जानाति-अमुक एपोऽर्थः शब्द इति, इदं च ज्ञानमवायरूपं, ततोऽस्मिन् ज्ञाने प्रादुर्भवति 'ण'मिति वाक्यालङ्कारेऽपायं प्रविशति, ततः 'से' तस्य उपगतम्अविच्युत्या सामीप्येनात्मनि परिणतं भवति, ततो धारणां-वासनारूपा प्रविशति, सङ्ख्येयसङ्घयेयं वा कालम्। __'एवम्' अनेन क्रमप्रकारेण एतेन पूर्वदर्शितेनाभिलापेन शेपेप्वपि चक्षुरादिष्विन्द्रियेषु अवग्रहादयो वाच्याः, नवरं अभिलापविषये 'अवत्तं सदं सुणेज्जा' इत्यस्य स्थाने 'अवत्तं रूवं पासेज्जा' इति वक्तव्यं, उपलक्षणमेतत् तेन सर्वत्रापि शब्दस्थाने रूपमिति वक्तव्यं, तद्यथा'तेणं रूवित्ति उग्गहिए नो चेवणं जाणइ केवेस रूवित्ति?. ततो ईहं पविसइ, ततो जाणइ अमुगे एसरूवेत्ति, ततो अवायं पविसई' इत्यादि तदवस्थमेव, नवरमिह व्यञ्जनावग्रहो न व्याख्येयः, अप्राप्यकारित्वाच्चक्षुषः, घ्राणेन्द्रियादिषु तु व्याख्येयः, एवं तु घ्राणेन्द्रियविषये-'अव्वत्तं गंधं अग्धाइज्जा' इत्यादि वक्तव्यं, जिह्वेन्द्रियविषये अव्वत्तं रसं आसाइज्जा' इत्यादि, स्पर्शनेन्द्रियविषये 'अव्वत्तं फासं पडिसंवेइज्जा' इत्यादि, यथा च शब्द इति निश्चिते तदुत्तरकालमुत्तरधर्मजिज्ञासायां किं शाङ्कः? किंवा शाङ्गः? इत्येवंरूपाईहा प्रवर्तते तथा रूपमिति निश्चिते तदुत्तरकालमुत्तरधर्मजिज्ञासायां स्थाणुः किं वा पुरुषः ? इत्यादिरूपा(सा) प्रवर्त्तते, एवं घ्राणेन्द्रियादिष्वपि समानगन्धादीनि वस्तूनि ईहाऽऽलम्बनानि वेदितव्यानि, आह च भाष्यकृत
"सेसेसुविरूवाइसुविसएसु होति रूवलक्खाई।
पायं पच्चासन्नत्तणेण ईहाए वत्थूणि ॥१॥ थाणुपुरिसाइ कुट्ठप्पलादि संभियकरिल्लमसाइ।
सप्पुप्पलनालाइव समाणरूवाइ विसयाई।।२।।" 'से जहानामए'त्यादि, स यथानामक: कोऽपि पुरुषोऽव्यक्तं स्वप्नं प्रतिसंवेदयेत्, व्यक्तं नाम सकलविशेषविकलनिर्देश्यमितियावत् स्वप्नमिति प्रज्ञापकः सूत्रकारो वदति, सतु प्रतिपत्ता स्वप्नादिव्यक्तिविकलं किञ्चिदनिर्देश्यमेव तदानीं गृह्णाति, तथाऽनेन प्रतिपन्त्रा 'सुविणोत्ति उग्गहिए'त्ति स्वप्नमिति अवगृहीतं, अत्रापिस्वप्न इति प्रज्ञापको वदति, स तु प्रतिपत्ता अशेषविशेषवियुक्तमेवावगृहीतवान्, तथा चाह-न पुनरेवं जानाति-क एष स्वप्न इति?, स्वप्न इत्यपि तमर्थं न जानातीति भावः, तत ईहां प्रविशतीत्यादि प्राग्वत्, एवं स्वप्नमधिकृत्य नोइन्द्रियस्यार्थावग्रहादयः प्रतिपादिताः। __ अनेन चोल्लेखेनान्यत्रापिविषये वेदितव्याः, तदेवं मल्लकदृष्टान्तेन व्यञ्जनावग्रहप्ररूपणां कुर्वता प्रसङ्गतोऽष्टविंशतिसङ्ख्या अपि मतिज्ञानस्य भेदाः सप्रपञ्चमुक्ताः, सम्प्रति मल्लकदृष्टान्तमुपसंहरति-'सेत्तं मल्लगदिटुंतेपण' एवं मल्लकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा। एते चावग्रहादयोऽष्टविंशतिभेदा: प्रत्येकं बह्वादिभिः सेतरैः सर्वसङ्घयया द्वादशसङ्घयैर्भदेभिद्यमाना यदा विवक्षयन्ते तदा षट्त्रिंशदधिकं भेदानां शतत्रयं भवति, तत्र बह्वादय: शब्दमधिकृत्य भाव्यन्ते-शङ्खपटहादिनानाशब्दसमूहपृथगेकैकं यदाऽवगृह्णाति तथा बह्ववग्रह:, यदा त्वेकमेव कञ्चिच्छब्दमवगृह्णाति
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only