________________
मूलं-१२०
१७५ धूमो निश्चितो भवति, अनिवर्तितशङ्कतया तस्य सम्यग्निश्चितत्वायोगात्, तस्मादवश्यं स वस्तुविशेषनिश्चयः स ईहापूर्वकः, शब्दोऽयमिति च निश्श्चचयो वस्तुविशेषनिश्चयो, रूपादिव्यवच्छेदात्, ततोऽवश्यमित: पूर्वमीहया भवितव्यं, ईहा च प्रथमतः सामान्यरूपेणावगृहीते भवति, नानवगृहीते, न खलु सर्वथा निरालम्बनमीहनं कापि भवदुपलभ्यते, न चानुपलभ्यमानं प्रतिपत्तुं शक्नुमः, सर्वस्या अपि प्रेक्षावतां प्रतिपत्तेः प्रमाणमूलत्वाद्, अन्यथा प्रेक्षावत्ताक्षिपिप्रसक्तः, तस्मादीहायाः प्रागवग्रहोऽपि नियमात्प्रतिपत्तव्यः, अमुमेवार्थं भाष्यकारोऽपि द्रढयति
"ईहिज्जइ नागहियं नज्जइ नानीहियं न यानायं।
धारिज्जइ तं वत्धुं तेन कमो उग्गहाईओ।" अवग्रहश्च शब्दोऽयमिति ज्ञानात्पूर्व प्रवर्त्तमानोऽनिर्देश्यसामान्यमात्रग्रहणरूप एवोपपद्यते, नान्यः, अत एवोक्तं सूत्रकृता-'अव्यक्तं शब्दं शृणुयादि'ति, स हि परमार्थतः शब्द एव, ततः प्रज्ञापकस्तं शब्दमनूद्य तद्विशेषणमाचष्टे-अव्यक्तमिति, तं शब्दमव्यक्तं शृणोति, किमुक्तं भवति?-शब्दव्यक्त्यापि व्यक्तं न शृणोति, किन्तु सामान्यमात्रनिद्देश्यं गृह्णातीत्यर्थः, यदपि चोक्तं-तेन प्रमात्रा शब्द इत्यवगृहीतमिति, तत्र शब्द इति प्रतिपादयति प्रज्ञापकः सूत्रकारो, न पुनः तेन प्रमात्रा शब्द इति अवगृह्यते, शब्द इति ज्ञानस्यापायरूपत्वात्, तथाहि-शब्दोऽयमिति, किमुक्तं भवति?-नशब्दाभावो, न च रूपादिः, किन्तु शब्द एवायमिति, ततो विशेषनिश्चयरूपत्वादयमवगमोऽपायरूप एव, नावग्रहरूपः, अथ च अवग्रहप्रतिपादनार्थमिदमुच्यमानं वर्तते ततः शब्द इति प्रज्ञापकः सूत्रकारो वदति, न पुनस्तेन प्रमात्रा शब्द इत्यवगृह्यते इति स्थितं, तथा चाह सूत्रकृत्-'नो चेवणमि'त्यादि, न पुनरेवं जानाति-कंएष शब्दादिरर्थ इति, शब्दादिरूपतया तमर्थं न जानातीति भावार्थः, अनिद्देश्यसामान्यमात्रप्रतिभासात्मकत्वादर्थावग्रहस्य, अर्थावग्रहश्च श्रोत्रेन्द्रियघ्राणेन्द्रियादीनां व्यञ्जनावग्रहपूर्वक इति पूर्वं व्यञ्जनावग्रहोऽपि द्रष्टव्यः, तदेवं सर्वत्राप्यवग्रहेहापूर्वमवायज्ञानमुपजायते, केवलमभ्यासदशामापत्रस्य शीघ्रं शीघ्रतरमवग्रहादयः प्रवर्तन्ते इति कालसौक्ष्मयात्ते स्पष्टं न संवेद्यन्ते इति स्थितं। ___ तत ईहां प्रविशति, इह केचिदीहां संशयमानं मन्यन्ते, तदयुक्तं, संशयो हि नामाज्ञानमिति, ज्ञानांशरूपा चेहा, ततः सा कथमज्ञानरूपा भवितुमर्हति?, नन्वीहापि किमयं शाङ्गः किंवा शाङ्गः? इत्येवंरूपतया प्रवर्त्तते, संशयोऽपि चैवमेव, ततः कोऽनयोः प्रतिविशेष:?, उच्यते, इह यत् ज्ञानं शाङ्घशाङ्गादिविशेषाननेकानालम्बते न चासद्भूतं विशेषमपासितुं शक्नोति, किन्तु सर्वात्मना शयानमिव वर्तते-कुण्ठीभूतं तिष्ठतीत्यर्थः, तदसद्भूतविशेषापर्युदासपरिकुण्ठितं संशयज्ञानमुच्यते, यत्पुनः सद्भूतार्थविशेषविषये हेतूपपत्तिव्यापारतया सद्भूतार्थविशेषोपादानाभिमुखमसद्भूतविशेषत्यागाभिमुखं च तदीहा, आहच भाष्यकृत
"जमणेगत्थालंबणमपज्जुदासकुंठियं चित्तं । सयइव सव्वप्पणओतं संसयरूवमन्नाणं ।।१।। जं पुन सयत्थहेऊववत्तिवाबारतप्परममोहं।
भूयाभूयविसेसादानच्चायाभिमुहमीहा॥२॥" . इह यदि वस्तु सुबोधं भवति विशिष्टश्च मतिज्ञानावरणक्षयोपशमो वर्तते ततोऽन्तर्मुहूर्त्तकालेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org