________________
मूलं - १
इत्यादि, एतेन संसारमोचकानां व्यापाद्योपकृतये दुःखितसत्त्वव्यापादनमुपदिशतामकुशलमार्गप्रवृत्तत्वमावेदितं दृष्टव्यं यतेस्ते एवमाहुः
१५
यत्परिणामसुन्दरं तदापातकटुकमपि परेपामाधेयं, यथा रोगोपशमनमौषधं, परिणामसुन्दरं च दुःखितसत्त्वानां व्यापादनमिति, तथाहि -कृमिकीटपतङ्गमशकलावकचटककुष्टिमहादरिद्रान्धपंग्वादयो दुःखितजन्तवः पापकर्म्मोदयवशात्संसारसागरमभिप्फुवन्ते, ततस्तेऽवश्यं तत्पापक्षपणाय परोपकरणैकरसिकमानसेन व्यापादनीयाः, तेषां हि व्यापदने महादुःखमतीवोपजायते, तीव्रदुःखवेदनाभिभववशाच्च प्राग्बद्धं पापकर्मोदीर्योदीर्यानुभवन्तः प्रतिक्षिपन्ति, स्यादेतत्-किमत्र प्रमाणं यत्ते व्यापाद्यमानाः तीव्रवेदनाऽनुभवतः प्राग्बद्धं पापकर्मोदीर्योदीर्य परिक्षिपन्ति न पुनरार्त्तरौद्रध्यानोपगमतः प्रभूततरं पापमावर्जयन्तीति ?, उच्यते, युष्मत्सिद्धान्तानुगतमेव नारकस्वरूपोपदर्शकं वचः, तथाहि - नारका निरन्तरं परमाधार्मिकसुरै: ताडनभेदनोत्कर्त्तनशूल्यारोपणाद्यनेकप्रकारमुपहन्यमानाः परमाधार्मिकसुराभावे परस्परोदीरिततीव्रवेदना रौद्रध्यानोपगता अपि प्राग्बद्धमेव कर्म क्षपयन्ति, नापूर्वं पापमधिकतरमुपार्जयन्ति, नारकायुर्बन्धासम्भवात्, तदसम्भवश्चानन्तरं भूयः तत्रैवोत्पादाभावाद् ।
अपि च-यत एव रौद्रध्यानोपगता अत एव तेषा प्रभूततरप्राग्बद्धपापकर्मपरिक्षयः, तीव्र - सङ्केलशभावात्, न खलु तीवसङ्कलेशाभावे परमाधार्मिकसुरा अपि तेषां कर्म्म क्षपयितुं शक्ताः, ततो रौद्रादिध्यानमुपजनयन्तोऽपि व्यापदका व्यापाद्यानामुपकारका एवं, इत्थं च व्यापादनतः तेषामुपकारसम्भवे ये तद्यापादनमुपेक्षन्ते प्रतिषेधन्ति वा ते महापापकारिणः, ये पुनः प्रागुपात्तपुण्यकर्मोदयवशतः सुखासिकामनुभवन्तो ऽवतिष्ठन्ते न ते व्यापादनीयाः, तेषां व्यापादने सुखानुभववियोगभावतोऽपकारसम्भवात्, न च परहितनिरताः परापकृतये संरम्भमातन्वन्ते, तदेतदयुक्तम्, परोपकारो हि स सुधिया विधेयो य आत्मन उपकारको, न च परेषां व्यापादनेनोपकृतिकरणे भवत: कमप्युपकारमीक्षामहे, तथाहि
परेषां व्यापादने को भवतः उपकारः ?, किं पुण्यबन्धः उत कर्मक्षयः ?, तत्र न तावत्पुण्यबन्धः, परेषामन्तरायकरणात्, ते हि परे यदि भवता न व्यापाद्येरंस्ततः ते परान् सत्त्वान् व्यापाद्य पुण्यमुपार्जयेयुः, व्यापादिताश्च परवधे अप्रसक्ता इति व्यापादनं पुण्योपार्जनान्तरायकरणं, न च पुण्योपार्जनान्तरायकृत् पुण्यमुपार्जयति, विरोधात्, सर्वस्य पुण्यबन्धप्रसक्तेश्च, एतेन यदुक्तं
‘परिणामसुन्दरं च दुःखितसत्त्वानां व्यापादन' मिति तदसिद्धं द्रष्टव्यम्, पुण्योपार्जनान्तरायकरणेन परिणामसुन्दरत्वायोगात्, अथ कर्मक्षय इति पक्षः, ननु तत्कर्म किं सहेतुकमुताहेतुकं ?, सहेतुकमपि किमज्ञानहेतुकमुताहिंसाजन्यमुताहो वधजन्यं ?, तत्र न तावदज्ञानहेतुकम्, अज्ञानहेतुकतायां हिंसातो निवृत्त्यसम्भवात्, यो हि यन्निमित्तो दोष: स तत्प्रतिपक्षस्यैवासेवायां निवर्त्तते, यथा हिमजनितं शीतमनलासेवनेन, न चाज्ञानस्य हिंसा प्रतिपक्षभूता, किन्तु सम्यग्ज्ञानं, तत्कथमज्ञानहेतुकं कर्म हिंसातो विनिवर्त्तते ?, अथाहिंसाजन्यमिति वदेत्, तदपि न युक्तम्, एवं सति मुक्तानामपि कर्मबन्धप्रसक्ते:, तेषामहिंसकत्वात्, अथ हिंसाजन्यं, यद्येवं तर्हि कथं हिंसात एव तस्य निवृत्तिः, न हि यत एव यस्य प्रादुर्भावः तत एव तस्य निवृत्तिर्भवितुमर्हति, विरोधात्, न खल्वजीर्णप्रभवो रोगो मुहुरजीर्णकरणात् निवर्त्तते, ततः प्राणिहिंसोत्पा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International