SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १६ नन्दी-चूलिकासूत्रं दितकर्मनिवृत्त्यमर्थमवश्यमहिंसाऽऽसेवनीया, उक्तंच "तम्हा पाणिवहोवज्जियस्स कम्मस्सखवणहेऊओ। वहविरई कायवा संवररूवत्ति नियमेणं।।" अथाहेतुकं न तर्हि तदस्ति, स्वरविषाणवत्, तत्कथं तदपगमाय प्राणिवधोद्यमो भवतः?, अथाहेतुकमप्यस्ति यथाऽऽकाशं, ताकाशस्येव तस्यापि न कथञ्चन विनाश इत्यफलत्वात् न कार्यः प्राणिवधः, यदुप्युक्तं- 'ये तु प्रागुपात्तपुण्यकर्मवशतः सुखासिकामनुभवन्तोऽतिष्ठन्तेन ते व्यापदनीया' इत्यादि, तदप्ययुक्तं, यतः पुण्यपापक्षयान्मुक्तिः, ततो यथा परेषां पापक्षपणाय व्यापादने भवतः प्रवृत्तिः तथा पुण्यपणायापि भवति, अथपापंदुःखानुभवफलं ततो व्यापादनेन दुःखोत्पादनतः पापं क्षपयितुंशक्यं, पुण्यं तु सातानुभवफलं तत्कथं दुःखोत्पादनेन क्षपियतुं शक्यम्?, सातानुभवफलं हि कर्म सातानुभवोत्पादनेनैव क्षपयितुं शक्यम्, नान्यथा, तदपिन समीचीनं, यतो यत्पुण्यं विशिष्टं देवभवे वेदनीयं तन्मनुष्यादिभवव्यापादनेन प्रत्यासन्नीक्रियते, प्रत्यासन्नीकृतं च प्राय: स्वल्पकालवेद्यं भवति, तत एवं पुण्यक्षपणस्यापि सम्भवात् कथं न व्यापादनेन पुण्यपरिक्षयः?, अथव्यापादनानन्तरं विशिष्टदेवभववेदनीयः पुण्योदयः सन्दिग्धः, कस्यचित्पापोदयस्यापिसम्भवात्, ततो नव्यापादनं पुण्यमनुभवत: कर्तुमुचितम्, यद्येवमितरत्र कथं निश्चयः?, ___ इतरत्रापि हि संदेह एव, तथाविदुःखितोऽपि यदि मार्यते तर्हि नरकदुःखानुभवभागीभवति, अमारितश्च सन् कदाचनापि प्रभूतसत्त्वव्यापादनेन पुण्यमुपाय॑ विशिष्टदेवादिभवभागीभवेत्, ततो दुःखितानामपि व्यापादानं न भवतो युक्तम्, एवं च सति सन्दिग्धानैकान्तिकोऽपि हेतुः, व्यापादनस्य परिणामसुन्दरत्वसन्देहात्, यदप्युक्तं- 'युष्मत्सिद्धान्तानुगतं नारकस्वरूपोपदर्शकं वचः' इत्यादि, तदप्यसमीक्षिताभिधानं, सम्यगस्मत्सिद्धान्तापरिज्ञानाद्, अस्मत्सिद्धान्ते ह्येवं नारकस्वरूपव्यावर्णना-नारकाणां परमाधार्मिकसुरोदीरितदुःखानां परस्परोदीरितदुःखानां वा वेदनातिशयभावतः सम्मोहमुपागतानां नातीव परत्र संक्लेशो यथाऽत्रैवकेषाञ्चिन्मानवानांसम्मूढानां, यथा हि मानवा लकुटादिप्रहारजर्जरीकृतशिरःप्रभृत्यवयवा वेदनातिशयभावतः सम्मूढचेतना नातीव परत्र संक्लिश्यमाना उपलभ्यन्ते, तथा नारका अपि सदैव दृष्टव्याः, ततः तथाविधतीव्रसंक्लेशाभावात् नारकाणां नाभिनवप्रभूततरपापोपचयः, यद्येवंतर्हिसम्मोहो महोपकारी, तथाहिसम्मोहवशान्न परत्रातीव संक्लेशः, तीव्रवेदनाभावतश्च प्रारबद्धपापकर्मपरिक्षयः, सम्मोहश्च हिस्त्रव्यापारादुपजायते, ततो हिंसकामहोपकारिण इति सिद्धमस्मत्समीहितं, तदयुक्तम्, हिंसकानां परपीडोत्पादनतः क्लिष्टकर्मबन्धप्रसक्तः,नखलु पापस्यपरपीडामतिरिच्यान्यन्निबन्धनमीक्षामहे, यदि स्यात्तर्हि मुक्तानामपि पापबन्धप्रसङ्गः, तेषामहिंसत्वात्, ततः कथमिवसचेतनो मनसाऽपि परंव्यापादयितुमुत्सहते? इत्यलं पापचेतोभिः सह प्रसङ्गेन। तथा 'जयति जगत्पितामहः' इति इह जगच्छब्देन सकलसत्त्वपरिग्रहः, ततश्च जगतांसकलसत्त्वानां नरकादिकुगतिविनिपातभयापायरक्षणात् पितेव पिता-सम्यग्दर्शनमूलोत्तरगुणसंहतिस्वरूपो धर्मः, सहिदुर्गतौ प्रपततो जन्तून् रक्षति शुभेचनिःश्रेयसदौ स्थाने स्थापयति, तथा चोक्तं निरुक्तिशास्त्रवेदिभिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy