________________
१४
नन्दी-चूलिकासूत्रं देशान्तरादावपि तथा प्रतीतावन्यथा परिकल्पनं श्रेयः, अतिप्रसङ्गप्राप्तेः, नाग्निधूमं जनयति किन्त्वदृष्टः पिशाचादिरित्यस्या अपि कल्पनायाः प्रसङ्गात्, अपि च___ अर्थक्रियार्थी प्रेक्षावान् प्रमाणमन्वेषयति, नचाभिप्रायविपयं विकल्पप्रतिबिम्बं विवक्षितार्थक्रियासमर्थं, किन्तु बाह्यमेव वस्तु, न चवाच्यम्-अभिप्रायविषयं विकल्पप्रतिबिम्बं ज्ञात्वा बाह्ये वस्तुनि प्रवर्तिष्यते तेनायमदोष इति, अन्यस्मिन् ज्ञाते अन्यत्र प्रवृत्त्यनुपपत्तेः, न हि घटे परिच्छिन्ने पटे प्रवृतियुक्ता, एतेन विकल्पप्रतिबिम्बकं शब्दवाच्यमिति यत्प्रतिपन्नं तदपि प्रतिक्षिप्तमवसेयं, तत्रापि विकल्पप्रतिबिम्बके शब्देन प्रतिपन्ने वस्तुनि प्रवृत्त्यनुपपत्तेः दृश्यविकल्पावावेकीकृत्य वस्तुनि प्रवर्तते इति चेत्, तथाहि-तदेव विकल्पप्रतिबिम्बवं, बहीरूपतयाऽध्यवस्यति ततो बहिः प्रवर्तते तेनायमदोपइति, न, तयोरेकीकरणासिद्धेः, अत्यन्तवैलक्षण्येन साधायोगात्, साधर्म्यं चैकीकरणनिमित्तम्, अन्यथाऽतिप्रसङ्गात्, अपिच-कश्चैतावेकीकरोतीति वाच्यम्, स एव विकल्प इति चेत्, तद् न, तत्र बाह्यस्वरूपलक्षणानवभासात्, अन्यथा विकल्पत्वायोगाद, अनवभासितेनचेकीकरणासम्भवाद, अतिप्रसक्तः, अथविकल्पादन एव कश्चिद्विकल्प्यमेवार्थं दृश्यमित्यध्यवस्यति, हन्त तर्हिस्वदर्शनपरित्यागप्रसङ्गः, एवमभ्युपगमे सति बलादात्मास्तित्वप्रसक्तेः तथाहि-निविकल्पकं न विकल्प्यमर्थं साक्षात्करोति, तदगोचरत्वात्, ततो न तत् दृश्यमर्थं विकल्पेन सहैकीकर्तुमलं, न च देशकालस्वभावव्यवहितार्थविषयेषु शाब्दविकल्पषु तद्विषये निर्विकल्पकसम्भवः, तत्कथं तत्र तेन दृश्यविकल्पार्थेकीकरणम्, ततो विकल्पादन्यः सर्वत्र दृश्यविकल्पावावेकीकुर्वन्, बलादात्मैवोपपद्यते, न च सोऽभ्य्पगम्यते, तस्माच्छब्दो बाह्यस्यार्थस्य वाचक इत्यकामेनापि प्रतिपत्तव्यम्, इतश्च प्रतिपत्तव्यम्, अन्यथा सङ्केतस्यापि कर्तुमशक्यत्वात्,
तथाहि-येन शब्देन इदं तदित्यादिना सङ्केतो विधेयः तेन किं सङ्केतितेन उतासङ्केतितेन?, न तावत्सङ्केतितेन, अनवस्थाप्रसङ्गात्, तस्यापि हि येन शब्देन सङ्केतः कार्यः तेन किं सङ्केतितेन उतासङ्केतितेनेत्यादि तदेवावर्त्तते, अथासङ्केतितेन सिद्धः तर्हि शब्दार्थयोर्वास्तवः सम्बन्ध इति।
तथा 'जगदानन्दः' इह जगच्छब्देन संज्ञिपञ्चेन्द्रियपरिग्रहः तेषामेव भगवद्दर्शनदेशनादित आनन्दसम्भवात्, ततश्च जगतां-संज्ञिपञ्चेन्द्रियाणाममृतस्यन्दिमूर्तिदर्शनमात्रतो निःश्रेयसाभ्युदयसाधकधर्मोपदेशद्वारेण चानन्दहेतुत्वादैहिकामुष्मिकप्रमोदकारणत्वाज्जगदानन्दः, अनेन परार्थसम्पदमाह । तथा 'जगन्नाथ' इह जगच्छब्देन सकलचराचरपरिग्रहः, नाथशब्देन च योगक्षेमकृदभिधीयते, योगक्षेमकृत नाथ' इति विद्वत्प्रवादात्, ततश्च जगतः-सकलचराचररूपस्य यथावस्थितस्वरूपप्ररूपणद्वारेण वितथप्ररूपणापायेभ्यः पालनाच्च नाथ इव नाथो जगन्नाथः अनेनापि परार्थसम्पदमाह - ___ तथा 'जगबन्धुः' इह जगच्छब्देन सकलप्राणिगणपरिग्रहः, प्राणिन एवाधिकृत्य बन्धुत्वोपपत्तेः, ततश्च जगतः-सकलप्राणिसमुदायरूपस्याव्यापादनोपदेशप्रणयनेन सुखस्थापकत्वाद्वन्धुरिव बन्धुर्जगद्वन्धुः, सकलजगदव्यापादनोपदेशप्रणयनं च भगवतः सुप्रतीतम्, तथा चाचारसूत्रं-"सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता न हंतव्या न अज्जावेयव्वा न परिधेत्तव्वा न उवद्दवेयव्वा, एस धम्मे सुद्धे धुवे नीए सासए समेच्च लोयं खेयोहिं पवेइए"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org