________________
मूलं - १
१३
हि यस्य शब्दस्वार्थः स तेन सह संस्पृष्टः शाब्दे ज्ञाने प्रतिभासते, यथा गोशब्देन गोपिण्डः, एतावन्मात्रनिबन्धनत्वाद् वाच्यत्वस्येति, तदेतदसमीचीनम्, इन्द्रियगम्यार्थस्य शाब्दे ज्ञाने शब्देन सहानवभासासिद्धेः, तथाहि कृष्णं महान्तमखण्डंमसृणमपूर्वमपवरकात् घटमानयेत्युक्तः कश्चित् तज्ज्ञानावरणक्षयोपशमयुक्तः तमर्थं तथैव प्रत्यक्षमिव शाब्दे ज्ञाने वस्तुनः प्रतिभासोऽनुभूयते, स्फुटाभं च प्रत्यक्षं, तत्कथं प्रत्यक्षगम्यं वस्तु शाब्दज्ञानस्य विषयः ?, नैष दोषः, स्फुटास्फुटरूपप्रतिभासभेदमात्रेण वस्तुभेदायोगात्,
तथाहि-एकस्मिन्नैव नीलवस्तुनि दूरासन्नवर्त्तिप्रतिपत्तृज्ञाने स्फुटास्फुटप्रतिभासे उपलभ्येते, न च तत्र वस्तुभेदाभ्युपगमः, द्वयोरपि प्रत्यक्षप्रमाणतयाऽभ्युपगमात्, तथेहाप्येकस्मिन्नपि वस्तुनीन्द्रियजशाब्दज्ञाने स्फुटास्फुटप्रतिभासे भविष्यतो, न च तद्गोचरवस्तुभेदः, अथ वस्त्वभावेऽपि शाब्दज्ञानप्रतिभासाविशेषात् सत्यपि वस्तुनि शाब्दज्ञानं न तद्याथात्म्यसंस्पर्शि, तद्भावाभावयोरननुविधानात्, यस्य हिज्ञानस्य प्रतिभासो यस्य भावभावावनुविधत्ते तत्तस्य परिच्छेदकं, न च शाब्दज्ञानप्रतिभासो वस्तुनो भावभावावनुविधत्ते, वस्त्वभावेऽपि तदविशेषात्, तन्न वस्तुनः परिच्छेदकं शाब्दज्ञानं रसज्ञानमिव गन्धस्य, प्रमाणं चात- यज्ज्ञानं यदन्वयव्यतिरेकानुविधायि न भवति न तत्तद्विषयं यथा रूपज्ञानं रसविषयं, न भवति चेन्द्रियगम्यार्थान्वयव्यतिरेकानुविधायि शाब्दं ज्ञानमिति व्यापकानुपलब्धेः प्रतिनियतवस्तुविषयक्त्वं हि ज्ञानस्य निमित्तवत्तया व्याप्तं, अन्वयव्यतिरेकानुविधानभावे च निमित्तवत्त्वाभावः स्यात्, निमित्तान्तरासम्भवात्, तेन तद्विषयवत्त्वं निमित्तवत्त्वाभावाद्विपक्षाव्यापकानुपलब्ध्या व्यावर्त्तमानमन्वयव्यतिरेकानुविधानेन व्याप्यते इति प्रतिबन्धसिद्धेः, तदयुक्मत्, प्रत्यक्षज्ञानेऽप्येवमविषयत्वप्रसक्तेः,
तथाहि-यथा जलवस्तुनि जलोल्लेखि प्रत्यक्षमुदयपदवीमासादयति तथा जलाभावेऽपि मरौ मध्याह्नमार्त्तण्डमरीचिकास्वक्षूणजलप्रतिभासमुदयमानमुपलभ्यते ततो जलाभावेऽपि जलज्ञानप्रतिभासाविशेषात् सत्यपि जले जलप्रत्यक्षं प्रादुर्भवन्न तद्याथात्म्यसंस्पर्शि, तद्भावाभावयोरननुकारादित्यादि सर्वं समानमेव, अत्र देशकालस्वरूपपर्यालोचनया तत्प्राप्त्यभावादिना च मरुमरीचिकासु जलोल्लेखिन: प्रत्यक्षस्य भ्रान्तत्वमवसीयते, भ्रान्तं चाप्रमाणं, ततो न तेन व्यभिचारः, प्रमाणभूतस्य च वस्त्वन्वयव्यतिरेकानुविधायित्वाद् व्यभिचारएव, तदेतदन्यत्रापि समानं, तथाहियथार्थदर्शनादिगुणयुक्तः पुरुष आप्तः, तत्प्रणीतशब्दसमुत्थं च ज्ञानं प्रमाणं, न च तस्य वस्त्वन्वयव्यतिरेकानुविधायित्वव्यभिचारसम्भवः, यत्पुनरनाप्तप्रणीतशब्दसमुत्थं ज्ञानं तदप्रमाणं, अप्रमाणत्वाच्च न तेन व्यभिचार:,
यदपि च प्रमाणमुपन्यस्तं तदपि हेतोरसिद्धत्वान्न साध्यसाधनायालं, असिद्धता च हेतोराप्तप्रणीतशब्दस्य वस्तुव्यतिरेकेण प्रवृत्त्यसम्भवात्, यत्पुनरिदमुच्यते शब्दः श्रूयमाणो वक्रभिप्रायविषयं विकल्पप्रतिबिम्बं तत्कार्यतया धूम इव वह्निमनुमापयति, तत्र स एव वक्ता विशिष्टार्थाभिप्रायशब्दयोराश्रयो धर्मी, अभिप्रायाविशेषः साध्यः, शब्दः साधनमिति, तदाह - 'वक्तुरभिप्रेतं तु सूचयेयु' रिति स एव तथा प्रतिपद्यमान आश्रयोऽस्त्विति, तत्पापात्पापीय:, तथाप्रतीतेरभावाद्, न खलु कश्चिदिह धूमादिव वह्नितत्कालर्यतया शब्दादभिप्रायविषयं विकल्पप्रतिबिम्बमनुमिमीते, अपि तु वाचकत्वेन बाह्यमर्थं प्रत्येति, देशान्तरे कालान्तरे च तथाप्रवृत्त्यादिदर्शनात्, न च
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International