SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ १२ नन्दी - चूलिकासूत्रं न समस्तीति तत्रापि वाचो न प्रवर्त्तेरन्, अपि च-यदि वाचां सद्भूतार्थमन्तरेण न प्रवृत्तिः तर्हि न कस्याश्चिदपि वाचोऽलीकता भवेत्, न चैतत् दृश्यते, तसमात्सर्वमपि पूर्वोक्तं मिथ्या, तदप्युक्तम्, इह द्विधा शब्दाः - मृषाभाषावर्गणोपादानाः सत्यभाषावर्गणोपादानाश्च, तत्र ये मृषाभाषावर्गणोपादानास्ते तु तीर्थान्तरीयपरिकल्पिताः कुशास्त्रसम्पर्कवशसमुत्थवासनासम्पादितसत्ताकाः प्रधानरूपं जगत् ईश्वरकृतं विश्वम् इत्येवमाकाराः तेऽनर्थका एवाभ्युपगम्यन्ते, ते हिवन्ध्याऽबला इव तदर्थप्राप्तयादिप्रसवविकलाः, केवलं तथा विधसंवेदनभोगफला इति न तैर्व्यभिचारः, अथ तेऽपि सत्याभिमतशब्दा इव प्रतिभासन्ते तत्थकमयं सत्यासत्यविवेको निर्द्धारणीयः ?, ननु प्रत्यक्षाभासमपि प्रत्यक्षमिवाभासते ततः तत्रापि कथं सत्यासत्यप्रत्यक्षविवेकनिर्द्धारणम् ?, स्वरूपविषयपर्यालोचनयेति चेत्, तथाहि अभ्यासदशामापन्नाः स्वरूपदर्शनमात्रादेव प्रत्यक्षस्य सत्यासत्यत्वमवधारयन्ति, यथा मणिपरिक्षका मणेः, अनभ्यासदशामापन्नास्तु विषयपर्यालोचनया, यथा-किमयं विषयः सत्य उताहो नेति, तत्रार्थक्रियासंवाददर्शनतः तद्गतस्वभावलिङ्गदर्शनतो वा सत्यत्वमवगच्छन्ति अन्यथा त्वसत्यत्वमिति, तदेतत्स्वरूपविषयपर्यालोचनया सत्यासत्यत्वविवेकनिर्द्धारणमिहापि समानं, तथाहि-दृश्यन्त एव केचित् प्रज्ञातिशयसमन्विता: शब्द श्रवणमात्रादेव पुरुषाणां मिथ्याभाषित्वममिथ्याभाषित्वं वा सम्यगवधारयन्तः, विषयसत्यासत्यत्वपर्यालोचनायां तु किमेष वक्ता यथावदास उत नेति ?, तत्र यदि यथावदाप्त इति निश्चितं ततो विषयसत्यत्वमितरथा त्वसत्यत्वम्, आप्तेतरविवेकोऽपि परिशीलनेन लिङ्गतो वा कुतश्चिदवसेयो, निपुणेन हि प्रतिपन्त्रा भवितव्यं, यदप्युक्तं 'यदपि च विनष्टमनुत्पन्नं वा तदपि न स्वरूपेण समस्तीत्यादि' तत्रापि यदि विनष्टानुत्पन्नयोर्वार्त्तमानिकविद्यमानरूपाभिधायकः शब्दः प्रवर्त्तते तर्हि स निरर्थको ऽभ्युपगम्यत एव ततो न तेन व्यभिचार:, यदा तु ते अपि विष्टानुत्पन्ने विनष्टानुत्पन्नतयाऽभिधत्ते शब्दः तदा तद्विषयसार्वज्ञज्ञानमिव सद्भूतार्थविषयत्वात्स प्रमाणम्, इत्थं चैतदङ्गीकर्त्तव्यम्, अन्यथाऽतीतकल्पान्तरवर्त्तिपार्वादिसर्वज्ञदेशना भविष्यच्छङ्खचक्रवर्त्यादिदेशना च सर्वथा नोपपद्येत, तद्विषयज्ञाने शब्दप्रवृत्त्यभावात्, अथोच्येत - अनलेऽनलशब्दः तदभिधानस्वभावतया यमभिधेयपरिणाममाश्रित्य प्रवर्त्तते सजले नास्ति, जलानलयोरभेदप्रसङ्गाद्, अथ च प्रवर्त्तते सङ्केतवशाज्जलेऽप्यनलशब्दः तत्कथं शब्दार्थयोर्वास्तव: सम्बन्धः ?, तदसत्, शब्दस्यानेकशक्तिसमन्वितत्वेनोक्तदोषानुपपत्तेः, तथाहि-नानलशब्दस्यानलवस्तुगताभिधेयपरिणामापेक्षी तदभिधानविषय एवैकः स्वभाव:, अपि तु समयाधानतत्स्मरणपूर्वकतया विलम्बितादिप्रतीतिनिबन्धनत्वेन जलवस्तुगताभिधेयपरिणामापेक्षी तदभिधानस्वभावोऽपि, तथा तस्यापि प्रतीते:, अन्यथा निर्हेतुकत्वेन तत्प्रतीत्यभावप्रसङ्गात्, ननु कथमेते शब्दा वस्तुविषयाः प्रतिज्ञायन्ते ?, चक्षुरादीन्द्रियसमुत्थबुद्धाविव शाब्दे ज्ञाने वस्तुनोऽप्रतिभासनात्, यदेव चक्षुरादीन्द्रियबुद्धौ प्रतिभासते व्यक्त्यन्तराननुयायि प्रतिनियतदेशकालं तदेव वस्तु, तस्यैवार्थक्रियासमर्थत्वात्, नेतरत्परपरिकल्पितं सामान्यं, विपर्यवात्, न च तदर्थक्रियासमर्थं वस्तु शाब्दे ज्ञाने प्रतिभासते, तस्मादवस्तुविषया एते शब्दाः, तथा चात्र प्रमाणं योऽर्थः शाब्दे ज्ञाने येन शब्देन सह संस्पृष्टो नावभासते न स तस्य शब्दस्य विषयः, यथा गोशब्दस्याश्वः, नावभासते चेन्द्रियगम्योऽर्थः शाब्दे ज्ञाने शब्देन संस्पृष्ट इति, यो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy