________________
मूलं-१ यकतानिश्चयः, तदभावाच्च न शब्दा निश्चितस्यार्थस्य प्रतिपत्तिः, अपित्वनिवर्तितशङ्कतयाऽस्ति नवेति विकल्पितस्य, न च विकल्पितमुभयरूपंवस्त्वस्ति यत्प्राप्यं सद्विवषयः स्यात्, प्रवर्त्तमानस्य तु पुरुषस्य तस्य तस्यार्थस्य पृथिव्याममज्जनादवरश्यमन्द ज्ञानान्तरं प्राप्तिनिमित्तमुपजायते यतः किञ्चिदवाप्यत इति शाब्दज्ञानस्य विषयवत्त्वाभावः, तदसत्, विषयवत्त्वाभावासिद्धेः, परोक्षस्य तद्विषयत्वाभ्युपगमात्, यत्पुनरुक्तं-'न शब्दस्यार्थेन सह निश्चितान्वयव्यतिरेकता, प्रतिबन्धाभावादिति,' तदसमीचीनं, वाच्यवाचकभावलक्षणेन प्रतिबन्धान्तरेण नान्तरीयकतानिश्चयात्, शब्दो हिबाह्यवस्तुवाचकस्वभावतया तन्नान्तरीयकः, ततस्तन्नान्तरीयकतायां निश्चितायां शब्दा निश्चितस्यैवार्थस्य प्रतिपनि विकल्पितरूपस्य, निश्चितं च प्रापयत् विषयवदेव शाब्दं ज्ञानमिति। स्यादेतद्-यदि वास्तवसंवन्धपरिकरितमूर्तयः शब्दा: तहि समाश्रयतु निरर्थकतामिदानी सङ्केतः, स खलु संबन्धो यतोऽर्थप्रतीतिः, स चेद् वास्तवो निरर्थकः सङ्केतः, तत एवार्थप्रतीतिसिद्धेः, तदेतदत्यन्तप्रमाणमार्गानभिज्ञत्वसूचकं, यतो न विद्यमान इत्येव सम्बन्धोऽर्थप्रतीतिनिबन्धनं, किन्तु स्वात्मज्ञानसहकारी, यथा प्रदीपः, तथाहि-प्रदीपो रूपप्रकाशनस्वभावोऽपि यदि स्वात्मज्ञानसहकारिकृतसाहायकः ततो रूपं प्रकाशयति, नान्यथा, ज्ञापकत्वात्, नखलु धूमादिकमपिलिङ्गंवस्तुवृत्त्या वह्नयादिप्रतिबद्धमपि सत्तामात्रेण वह्नयादेर्गमकमुपजायते, यदुक्तमन्यरैपि
.."ज्ञापकत्वाद्धि सम्बन्धः, स्वात्मज्ञानमपेक्षते।
तेनासौ विद्यमानोऽपि, नागृहीतः प्रकाशकः॥" सम्बन्धस्य च परिज्ञानं तदावरणकर्मक्षयक्षयोपशमानां शब्दादर्थाच्च केवलादप्यवैपरीत्येन वाच्यावाचकभावलक्षणः सम्बन्धोऽवगमपथमृच्छति, तथाहि-सर्वे एव सर्ववेदिनः सुमेरुजम्बूद्वीपादीनानगृहीतसङ्केता अपि तत्तच्छब्दवाच्यानेव प्रतिपद्यन्ते, तैरेव तथाप्ररूपणात्, कल्पान्तरवर्तिभिरन्यैरेवं प्ररूपिता इति तैरपि तथा प्ररूपिता इति चेत्, ननुतेषामपिकल्पान्तरवर्तिनां तथाप्ररूपणे को हेतुरिति वाच्यम्, तदन्यैरेवं प्ररूपणादिति चेत् अत्रापि स एव प्रसङ्गः, समाधिरपि स एवेति चेत्, ननु तर्हि सिद्धः सुमेर्वाद्यर्थानां तदभिधायकानां च वास्तवः सम्बन्धः,
सर्वकल्पवर्त्तिभिरपि सर्ववेदिभिस्तेषां सुमेर्वादिशब्दवाच्यतथा प्ररूपणात्, अनादित्वात्संसारस्य कदाचित्कैश्चिदन्यथापि सा प्ररूपणा कृता भविष्यतीति चेत्, न अतीन्द्रियत्वेनात्र प्रमाणाभावात्, सर्वैरपि तथैव सा प्ररूपणा कृतेत्यत्रापि न प्रमाणमिति चेत्, न, अत्र प्रमाणोपपत्तेः, तथाहि-शाक्यमुनिना सम्प्रतिसुमेर्वादिकोऽर्थः सुमेर्वादिशब्देन प्ररूपितः, सच सुमेर्वादौ सुमेर्वादिशब्दप्रयोगः सङ्केतद्वारेणाप्यतत्स्वभावतायां तयोर्नोपपद्यते, तत्स्वभावत्वाभ्य्पगमे च सिद्धं नः समीहितम्, अनादावपि काले तयोः तत्स्वभावत्वात्, तत्समानपरिणामस्य प्रवाहतो नित्यत्वात् तत्र सम्बन्धाभ्य्पगमाद्, इत्थं चैतदङ्गीकर्त्तव्यमन्यथाऽनादित्वात्संसारस्य कदाचिदन्यतोऽपि धूमादेर्भावो भविष्यतीत्येवं व्यभिचारशङ्का धूमधूमध्वजादिषु प्रसरन्ती दुर्निवारेत्यलं दुर्मतिविस्तपन्दितेषु प्रयासेन, ननु यदि पारमार्थिकसम्बन्धनिबद्धस्वरूपत्वादिमे शब्दाः तात्त्विकार्थाभिधानप्रभविष्णवः तर्हि दर्शनान्तरनिवेशिपुरुषपरिकल्पितेषु वाच्येष्वेतेषां प्रवृत्तिर्नोपपद्येत, परस्परविरुद्धत्वेन तेषामर्थानां स्वरूपतोऽभावात्, यदपि च विनष्टमनुत्पन्नं वा तदपि स्वरूपेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org