SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ मूलं-११७ १७१ निवृत्यापायभावं प्रत्यभिमुखो वर्त्तते येन बोधपरिणामेन स आवर्तनस्तद्भाव आवर्तनता, तथा आवर्तनं प्रति ये गता अर्थविशेषेषूत्तरोत्तरेषु विवक्षिता अपायप्रत्यासन्नतरा बोधविशेषास्ते प्रत्यावर्त्तना: तद्भावः प्रत्यावर्त्तनता, तथा अपायो-निश्चयः सर्वथाईहाभावद्विनिवृत्तस्यावधारणाअवधारितमर्थमवगच्छतो यो बोधविशेषः सोऽपाय इत्यर्थः, ततस्तमेवावधारितम) क्षयोपशमविशेषात्स्थिरतया पुनः, पुनः स्पष्टतरमवबुध्यमानस्य वा बोधपरिणतिः सा बुद्धिः, तथा विशिष्टं ज्ञानं विज्ञानं-क्षयोपशमविशेषादेवावधारितार्थविषय एव तीव्रतरधारणाहेतुर्बोधविशेषः, सेत्तं अवाए' । इति निगमनम्। मू.(११८) से किं तं धारणा?, धारणा छव्विहा पन्नत्ता, तंजहा-सोइंदिअधारणा चक्खिदिअधारणा घाणिदिअधारणा जिभिदिअधारणा फासिंदिअधारणा नोइंदिअधारणा, तीसे णं इमे एगडिआ नानाधोसा नानावंजणा पंचनामधिज्जा भवंति, तंजहा-धारणा साधारणा ठवणा पट्ठा कोटे, से तं धारणा ॥ वृ.'से किं तं'मित्यादि सुगम, यावद्धारणा इत्यादि, अत्रापि सामान्यत एकार्थानि विशेषार्थचिन्तायां पुनभिन्नार्थानि तत्रापायानन्तरमवगतस्यार्थस्याविच्युत्याऽन्तर्मुहूर्तकालं यावद्धरणं धारणा, ततस्तमेवार्थमुपयोगात् च्युतं जघन्यतोऽन्तर्मुहूर्तादुत्कर्षतोऽसंख्येययकालात् परतो यत्स्मरणं सा धारणा, तथा स्थापना, अपायावधारितस्यार्थस्य हदि स्थापनं, वासनेत्यर्थः, अन्ये तु धारणास्थापनयोर्व्यत्यासेन स्वरूपमाचक्षते, तथा प्रतिष्ठिापनं प्रतिष्ठा-अपायावधारितस्यैवार्थस्य हदि प्रभेदेन प्रतिष्ठापनमित्यर्थः, कोष्ठ इव कोष्ठः अविनष्टसूत्रार्थधारणामित्यर्थः । सेत्तं धारणा' सेयं धारणा । सम्प्रति अवग्रहादेः कालप्रमाणप्रतिपादनार्थमाह मू.(११९) उग्गहे इक्कसमइए, अंतोमुहुत्तिआईहा, अंतोमुहुत्तिए अवाए, धारणा संखेनं वा कालं असंखेज्जवा कालं। वृ.अवग्रहः-अर्थावग्रह एकसामयिकः, आन्तर्मुहूर्तिकी ईहा, आन्तर्मुहूर्त्तिकोऽवायः, धारणा संख्येयं वा कालमसङ्घयेयं वा, तत्र सङ्ख्येयवर्षायुषां सङ्ख्येयकालमसङ्ख्येयं कालं, सा च धारणा सङ्ख्येयमसङ्खयेयं वा कालं यावद्वासनारूपा द्रष्टव्या, अविच्युतिस्मृत्योरजधन्योत्कर्षेणान्तर्मुहूर्तप्रमाणत्वात्, यत उक्तं भाष्यकृता "अत्थोग्गहो जहन्नं समओ सेसोग्गहादओ वीसुं। अंतोमुत्तमेगं तु वासना धारणं मोत्तुं।" मू. (१२०) एवं अट्ठावीसइविहस्स आभिनिबोहिअनाणस्स, वंजणुग्गहस्स परूवणं करिस्सामि पडिबोहगादिट्टतेण मलगदिटुंतेण य। से किं तं पडिबोहगदिढतेणं ?, पडिबोहगदिटुंतेण से जहानामाए केइ पुरिसे कंचि पुरिसं सुत्तं पडिबोहिज्जा अमुगा अमुगत्ति, तत्थ चोअगे पनवगं एवं वयासी-किं एगसमयपविट्ठा पुग्गला गहणमागच्छंति दुसमयपविट्ठा पुग्गला गहणमागच्छंति जाव दससमयपविट्ठा पुग्गला गहणमागच्छंति संखिज्जासमयपविट्ठा पुग्गला गहणमागच्छति असंखिज्जसमयपविट्ठा पुग्गला गहणमागच्छति ?, एवं वदंतं चोअगं पनवए एवं वयासी-नो एगसमयपविट्ठा पुग्गला गहणमागच्छंति नो दुसमयपविट्ठा पुग्गला गहणमागच्छंति जाव नो दससमयपविट्ठा पुग्गला Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy