________________
१७०
तथा चाह प्रवचनोपनिपद्वेदी भगवान् जिनभद्रगणिक्षमाश्रमण:
नन्दी - चूलिकासूत्रं
"सामन्नमेत्तगहणं निच्छयओ समयमोग्गहो पढमो । तत्तोऽनंतरमीहियवत्थुविसेसस्स जोऽवाओ ॥ १ ॥ सो पुनरीहावायाविक्खाओ उग्गहत्ति उवयरिओ । एसविसेसावे क्खा सामन्नं गेव्हए जेन ॥ २ ॥ तत्तोऽनंतरमीहा तओ अवाओ य तव्विसेसस्स । इह सामन्नविसेसाऽवेक्खा जावंतिमो भेओ ॥३॥ सव्वत्थे हावाया निच्छयओ मोत्तुमाइसामन्नं । संववहारत्थं पुन सव्वत्थावग्गहोऽवाओ ॥४॥ तरतम जोगाभावेऽवाओ च्चिय धारणा तदंतंमि । सव्वत्थ वासना पुन भणिया कालंतरसइय ॥५॥ त्ति,
तथा ‘मेह’त्ति मेधा प्रथमं विशेषसामान्यार्थावग्रहमतिरिच्योत्तरः सर्वोऽपि विशेषसामान्यार्थावग्रहः । तदेवमुक्तानि पञ्चापि नामधेयानि भिन्नार्थानि यत्र तु व्यञ्जनावग्रहो न घटते तत्राद्यं भेदद्वयं न द्रष्टव्यं, 'से त्तं उग्गहो' त्ति निगनमनं ।
मू. ( ११६ ) से किं तं ईहा !, ईहा छव्विहा पन्नत्ता, तंजहा- सोइंदिअईहा चक्खिदियईहा घाणिदिअईहा जिब्भिदिअईहा फासिंदिअईहा नोइंदिअईहा, तीसे णं इमे एगद्विआ नानाघोसा नानावंजणा पंच नामधिज्जा भवंति, तंजहा-आभोगणया मग्गणया गवेसणया चिंता विमंसा, सेतं ईहा ||
वृ. अथ यमीहा ?, ईहा पड्विधा प्रज्ञप्ता, तद्यथा - श्रोत्रेन्द्रियेहा इत्यादि, तत्र श्रोत्रेन्द्रियेणेहा श्रोत्रेन्द्रियेहा श्रोत्रेन्द्रियार्थावग्रहमधिकृत्य या प्रवृत्ता ईहा सा श्रोत्रेन्द्रियेहा इत्यर्थः, एवं शेषा अपि साधनीयाः, ‘तीसे ण' मित्यादि सुगमं, नवरं सामान्यत एकर्थिकानि, विशेषचिन्तायां पुनभिन्नार्थानि, तत्र 'आभोगणय'त्ति आभोग्यतेऽनेनेति आभोगनं-अर्थावग्रहसमनन्तरमेव सद्भूतार्थविशेषाभिमुखामालोचनं तस्य भावं आभोगनता, तथा मार्ग्यतेऽनेनेति मार्गणं सद्भूतार्थविशेषाभिमुखमेव व्यतिरेकधर्मत्यागतोऽन्वयधर्माध्यासालोचनं तद्भावो गवेषणता, ततो मुहुर्मुहुः क्षयोपशमविशेषतः स्वधर्मानुगतसद्द्भृतार्थविशेषचिन्तनं चिन्ता, तत ऊर्ध्वं क्षयोपशमविशेषात्स्पष्टतरं सद्भूतार्थविशेषभिमुखमेव व्यतिरेकधर्मपरित्यागतोऽन्वयधर्मापरित्यागतोऽन्वयधर्म्मविमर्शनं विमर्श: । 'से त्तं ईहे 'ति निगमनम् ।
मू. ( ११७ ) से किं तं अवाए ?, अवाए छव्विहे पत्रत्ते, तंजहा- सोइंदिअअवाए, चक्खिदिअअवाए घाणिंदिअअवाए जिब्भिदिअअवाए फासिंदिअअवाए नोइंदिअअवाए, तस्सणं इमे एगट्टिआ नानाघोसा नानावंजणा पंच नामधिज्जा भवंति, तंजहा-आउट्टणया पच्चाउट्टणया अवाए बुद्धि विनाणे, से तं अवाए ॥
वृ. अत्र श्रोत्रेन्द्रियेणावाय: श्रोत्रेन्द्रियावायः, श्रोत्रेन्द्रियनिमित्तमर्थावग्रहमधिकृत्य यः प्रवृत्तोऽपायः स श्रोत्रेन्द्रियापाय इत्यर्थः एवं शेषा अपि भावनीयाः । 'तस्स ण' मित्यादि प्राग्वत्, अत्रापि सामान्यत एकार्थिकानि, विशेषचिन्तायां पुनर्नानार्थानि तत्र आवर्त्तते - ईहाओ
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International