________________
मूलं - ११४
१६९
कारादिविशेपचिन्ताविकलोऽ निर्देश्यसामान्यमात्रचिन्तात्मको बोधो नोइन्द्रियार्थावग्रहः ॥
मू. ( ११५ ) तस्स णं इमे एगद्विआ नानाघोसा नानावंजणा पंच नामधिज्जा भवंति, तंजहाओगेण्हणया उवधारणया सवणया अवलंबणया मेहा। से तं उग्गहे ।
वृ. ‘तस्य' सामान्येनावग्रहस्य 'ण'मिति वाक्यालङ्कारे 'अमूनि' वक्ष्यमाणानि एकार्थिकानि 'नानाघो साणि'त्ति घोषा:- उदात्तादयः स्वरविशेषाः, आह च चूर्णिकृत् - " घोसा उदात्तादओ सरविसेसा" नाना घोषा येषां तानि नानाघोपाणि, तथा नाना व्यञ्जनानि कदानि येषां तानि नानाव्यञ्जनानि पञ्च नामान्येव नामधेयानि भवन्ति, 'तद्यथे 'ति तेषामेवोपदर्शने, 'ओगिण्हणया' इत्यादि, यदा पुनरवग्रहविशेषानपेक्ष्यामृनि पञ्चापि नामधेयानि चिन्त्यन्ते तदा परस्परं भिन्नार्थानि वेदितव्यानि, तथाहि - इहावग्रहस्त्रिधा, तद्यथा-व्यञ्जनावग्रहः सामान्यार्थावग्रहो विशेषसामान्यार्थावग्रहश्च, तत्र विशेषसामान्यार्थावग्रह औपचारिकः, स चानन्तरमेवाग्रे दर्शयिष्यते, तत्र 'ओगिण्हय'त्ति अवगृह्यते ऽनेति अवग्रहणं, करणेऽनट् व्यञ्जनावग्रहः- प्रथमसमयप्रविष्टशब्दादिपुद्गलादानपरिणामः, तद्भावोऽवग्रहणता ।
तथा 'उवधारणय'त्ति धार्यतेऽनेनेति धारणं, उप सामीप्येन धारणं उपधारणं व्यञ्जनावग्रहेऽपि द्वितीयादिसमयेषु प्रतिसमयपूर्वापूर्वशब्दादिपुद्गलादानपुरस्सरं प्राक्तनप्राक्तनसमयगृहीतशब्दादिपुद्गल धारणपरिणामः तद्भाव उपधारणता, तथा 'सवणय'त्ति श्रूयतेऽनेनेति श्रवणमेकसामयिक: सामान्यर्थावग्रहरूपो बोधपरिणामः तद्भावः श्रवणता, तथा 'अवलंबणय'त्ति अवलम्ब्यते इति अवलम्बनं, 'कुद्बहुल' मिति वचनात्कर्मण्यनट्, विशेषसामान्यार्थावग्रहः, कथं विशेषसामान्यार्थावग्रहोऽवलम्बनमिति ?, चेत्, उच्यते-इह शब्दोऽयमित्यपि ज्ञानं विशेषावगमनरूपत्वादवायज्ञानं, तथाहि शब्दोऽयं नाशब्दो - रूपादिरिति शब्दस्वरूपावधारणं विशेषावगमः, ततोऽ ऽस्मात् यत्पूर्वमनिर्देश्यसामान्यमात्रग्रहणमेकसामयिकं स पारमार्थिकार्थावग्रहः, तत ऊर्ध्वं तु यत्किमिदमिति विमर्शनं सा ईहा, तदनन्तरं तु यच्छब्दस्वरूपावधारणं शब्दोऽयमिति तदवायज्ञानं, तत्रापि यदा उत्तरधर्म्मजिज्ञासा भवति किमयं शब्दः शाङ्खः किंवा शार्ङ्गः ?
इति तदा पाश्चात्यं शब्द इति ज्ञानं विशेषावगमापेक्षया सामान्यमात्रालम्बनमित्यवग्रह इत्युपचर्यते, स च परमार्थत: सामान्यविशेषरूपार्थालम्बन इति विशेषसामान्यार्थावग्रहइत्युच्यते, इदमेव च शब्द इति ज्ञानमवलम्ब्य किमयं शाङ्खः ? किंवा शार्ङ्गः ? इति ज्ञानमुदयते, ततो विशेषसामान्यार्थावग्रहोऽवलम्बन इत्युक्तः ततोऽवलम्बनस्य भावोऽवलम्बनता ततोऽप्यूर्व किमयं शाङ्खः ? किंवा शार्ङ्गः इतीहित्वा यच्छाङ्ख एव शार्ङ्गः एव वेति ज्ञानं तदवायज्ञानं, तदपि च किमयं शाङ्खोऽपि शब्दः मन्द्रः किं वा तार? इत्युत्तरविशेषजिज्ञासायां पाश्चात्यं पाश्चात्यमवायज्ञानमुत्तरोत्तरविशेषावगापेक्षया सामान्यार्थावलम्बनमित्यवग्रह इत्युपचर्यते, किं मन्द्रः ?, किंवा तार: ? इतीह मन्द्र एवायं तार एवायमित्यवायः, एवमुत्तरोत्तरविशेषजिज्ञासायां पाश्चात्यं पाश्चात्यमवायज्ञानमुत्तरोविशेषावगमापेक्षया सामान्यर्थावलम्बनमित्यवग्रह इत्युपचर्यते, यदा उत्तरधर्मजिज्ञासा न भवति तदा तदत्यन्तविशेषज्ञानमवायज्ञानमेव, नावग्रह इत्युपचर्यते, उपचारानिबन्धनाभावात्, उत्तरविशेषाकांक्षाया अपगमात्,
ततस्तदनन्तरमविच्युतिरूपा धारणा प्रवर्त्तते, वासनास्मृती तु सर्वेष्वपि विशेषावगमेषु द्रष्टव्ये,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org