________________
१६८
नन्दी - चूलिकासूत्र सम्बन्धाभावात्, अथ च श्रोत्रेन्द्रियाकाशसम्बन्धतया तच्छ्रवणमभ्युपगम्यते, तन्नाकाशगुणत्वाभ्युपगमः शब्दस्य श्रेयान् नन्वाकाशगुणत्वमन्तरेण शब्दस्यावस्थानमेव नोपपद्यते, अवश्य हि पदार्थेन स्थितिमता भवितव्यं, तत्र रूपरसस्पर्शगन्धानां पृथिव्यादिमहाभूतचतुष्टयमारयः, शब्दस्य त्वाकाशमिति, तदयुक्तम्, एवं सति पृथिव्यादीनामप्याकाशगुणत्वप्रसक्ते:, तेषामप्याकाशाश्रितत्वात्, न खल्वाकाशमन्तरेण पृथिव्यादीनामप्यन्यदाश्रयः, अगुणत्वात्पृथिव्यादीनामाकाशगुणत्वमनुपपन्नमिति चेत् न आकाशाश्रितत्वेन भवन्नीत्या बलादपि तद्गुणत्वप्रसक्तेः, अथ नाश्रयणमात्रं तद्गुणत्वनिबन्धनं किन्तु समवायः स चास्ति शब्दस्याकाशे न तु पृथिव्यादीनामिति, ननु कोऽयं समत्रायो नाम ?, एकत्र लोली भावेनावस्थानं यथा पृथिव्यादिरूपाद्येोरिति चेत्, न तर्हि शब्दस्याकाशगुणत्वमाकाशेन सहैकत्र लोली भावेन तस्याप्रतिपत्तेः, अथाऽऽकाशे उपलभ्मयानत्वात्तद्गुता शब्दस्य, तूलकादेरपि तह्याकाशे उपलभ्यमानत्वात्तद्गुणत्वं प्राप्नोति, अथ तूलकादेः परमार्थतः पृथिव्यादिस्थानमाकाशे तूपलम्भो वायुना सञ्चार्यमाणत्वादवसेयं, तथाहि - यतो यतो वायुः सञ्चरति ततस्ततः शब्दोऽपि गच्छति, वातप्रतिकूलशब्दस्याश्रवणात् उक्तं च
"यथा च प्रेर्यते तूलमाकाशे मातरिश्वना।
तथा शब्दोऽपि किं वायोः, प्रतीपं कोऽपि शब्दवित् ? ॥"
तन्नाकाशगुणः शब्द:, किन्तु पुद्गलमय इति स्थितं ।
मू. ( ११४ ) से किं तं अत्थुग्गहे ?, अत्थुग्गहे छव्विहे पत्रत्ते, तंजहा- सोइंदिअअत्थुग्गहे चक्खिदिअअत्थुग्गहे घाणिदिअअत्थुग्गहे जिब्भिदियअत्थुग्गहे फार्सिदिअअत्थुग्गहे नोइंदिअअत्थुग्गहे ।
वृ. अथ कतिविधोऽयमर्थावग्रहः ?, सूरिराह- अर्थावग्रहः पड्विधः प्रज्ञप्तः, तद्यथा - श्रोत्रेन्द्रियार्थावग्रह इत्यादि श्रोत्रेन्द्रियार्थावग्रहः, (श्रोत्रेन्द्रियेण) व्यञ्जनावग्रहोत्तरकालमेकसामायिकनिर्देश्यसामान्यरूपार्थावग्रहणं श्रोत्रेन्द्रियार्थावग्रहः, एवं घ्राणजिह्वास्पर्शनेन्द्रियार्थावग्रहेष्वपि वाच्यं, चक्षुर्मनसोस्तु व्यञ्जनावग्रहो न भवति, ततस्तयोः प्रथममेव स्वरूपद्रव्यगुणक्रियाविकल्पनातीतमनिर्देश्यं सामान्यमात्ररूपार्थावग्रहणमर्थावग्रहोऽवसेयः ।
'तत्र 'नोइंदिय अत्थावग्गहो 'त्ति नोइन्द्रियं मनः, तच्च द्विधा द्रव्यरूपं भावरूपं च तत्र मनः पर्याप्तिनामकर्मोदयतो यत् मनःप्रायोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमितं तद्रव्यरूपं मन:, तथा चाह चूण्णिकृत--"मनपज्जत्तिनामकम्मोदयओ तज्जोग्गे मनोदव्वे धेत्तुं मनत्तेण परिणामिया दव्वा दव्वमनो भण्णइ ।"
तथा द्रव्यमनोऽवष्टम्भेन जीवस्य यो मननपरिणामः स भावमनः, तथा चाह चूर्णिकार एव"जीवो पुण मननपरिणामकियापन्नो भावमनो, किं भणियं होइ ?, मनदव्वालंबणो जीवस्य मननवावारो भावमनो भण्णइ" तत्रेह भावमनसा प्रयोजनं, तद्ग्रहणे ह्यवश्यं द्रव्यमनसोऽपि ग्रहणं भवति, द्रव्यमनोऽन्तरेण भावमनसोऽसम्भवात्, भावमनो विनापि च द्रव्यमनो भवति, यथा भवस्थकेवलिन:, तत उच्यते - भावमनसेह प्रयोजनं, तत्र नोइन्द्रियेण - भावमनसाऽर्थावग्रहो द्रव्येन्द्रिव्यापारनिरपेक्षो घटाद्यर्थस्वरूपपरिभावनाभिमुखः प्रथममेकसामयिको रूपाद्यर्था
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International