________________
१६५
मूलं-११३ तदप्राप्यकारि, शेषकालं तु प्राप्तेनोपघातकेनोपघातो भविष्यति अनुग्राहकेण चानुग्रहः, तत्रांशुमालिनो रश्मयः सर्वत्रापि प्रसरमुपददाना यदाउंशुमालिनः सम्मुखमीक्षते तदा ते चक्षुर्देशमपि प्राप्नुवन्ति, ततश्चक्षुःसम्प्राप्तास्ते स्पर्शनेन्द्रियमिव चक्षुरुपघ्नन्ति, शीतांशुरश्मयश्च स्वभावत एव शीतलत्वादनुग्राहकास्ततस्ते चक्षुःसम्प्राप्ताः सन्तस्ते स्पर्शनेन्द्रियमिव चक्षुरनुगृह्णन्ति, ददङ्गमालासंकुलजलावलोकने च चलकणसम्पृक्तसमीरावयवसंस्पर्शतोऽनुग्रहो भवति, शाड्वलतरुमण्डलावलोकनेऽपिशाड्वतरुच्छायासम्पर्कशीतीभूतसमीरणसंस्पर्शात्, शेषकालं तुजलावलोकनेऽनुग्रहाभिमान उपधाताभावादवसेयः, भवति चोपधाताभावेऽनुग्रहाभिमानो यथाऽतिसूक्ष्माक्षरनिरीक्षणाद्विनृित्त्य यथासुखं नीलीरक्तवस्त्राद्यवलोकने, इत्थं चैतदङ्गीकर्त्तव्यं, अन्यथा समाने सम्पर्के यथा सूर्यमीक्षमाणस्य सूर्येणोपघातो भवति तथा हुतवहजलशलाद्यालोकने दाहक्लेदपाटनादेयोऽपि कस्मान भवन्तीति?, अपिच-यदि चक्षुः प्राप्यकारि तर्हि स्वदेशगतरजोमलाञ्जनशिलाकादिकं किं न पश्यति?, तस्मादप्राप्यकार्येवचक्षः।।
ननु यदि चक्षुरप्राप्यकारि तर्हि मनोवत्कस्मादविशेषेण सर्वानपि दूरव्यवहितादीनान् न गृह्णाति, यदि हि प्राप्तं परिच्छिन्द्यातहि यदेवानावृतमदूरदेशं वा तदेव गृह्णीयात् नावृतं दूरदेशं वा, तत्र चक्षुरश्मीनां गमनासम्भवः सम्पर्काभावात्, ततो युज्यते चक्षुषो ग्रहणाग्रहणे, नान्यथा, तथा चोक्तम्-प्राप्तयकारि चक्षुः, उपलब्ध्यनुपलब्थ्योरनावरणेतराप्रेक्षणात् अदूरेतराप्रेक्षणाच्च, यदि हि चक्षुरप्राप्यकारित् भवेत्तदाऽऽवरणभावादनुपलब्धिः अन्यथोपलब्धिरिति न स्यात्, न हि तदावरणमुपघातककरणसमर्थं, प्राप्यकारित्वे तु मूर्त्तद्रव्यप्रतिघातावदुपपत्तिमान् व्याघातोऽतिदूरे च गमनाभावादिति, प्रयोगश्चात्र-न चक्षुषो विषयपरिमाणं, अप्राप्यकारित्वात्, मनोवत्, तदेतदयुक्ततरं, दृष्टान्तस्य साध्यविकलत्वात्, न खलु मनोऽप्यशेषान् विषयान् गृह्णाति, तस्यापि सूक्ष्मेष्वागमगम्यादिष्वर्थेषु मोहदर्शनात्, तस्माद् यथा मनोऽप्राप्यकार्यपि स्वावरणक्षयोपशमसापेक्षत्वात् नियतविपयं तथा चक्षुरपि स्वावरणक्षयोपशमसापेक्षत्वादप्राप्यकार्यपि योग्यदेशावस्थितनियतविषयमिति न व्यवहितानामुपलम्भप्रसङ्गो नापि दूरदेशस्थितानामिति।
अपि च दृष्टमप्राप्यकारित्वेऽपि तथास्वभावविशेषाद्योग्यदेशापेक्षणं, यथाऽयस्कान्तस्य, न खल्वयस्कान्तोऽयसोऽप्राप्यकर्पणे प्रवर्त्तमानः सर्वस्याप्ययसो जगद्वर्त्तिन आकर्षको भवति, किन्तु प्रतिनियतस्यैव, (यत्तु) शङ्करस्वामी प्राह-"अयस्कान्तोऽपि प्राप्यकारी, अयस्कान्तच्छायाणुभिः सहसमाकृष्यमाणवस्तुनः सम्बन्धभावात्, केवलं ते छायाणवः सूक्ष्मत्वानोपलभ्यन्ते" इति, तदेतदुन्मत्तप्रलपितं, तद्ग्राहकप्रमाणाभावात्, न हि तत्र छायाणुसम्भवग्रहाकं प्रमाणमस्ति, न चाप्रमाणकं प्रतिपत्तुं शक्नुमः, अथास्ति ग्राहकं प्रमाणमनुमानं, इह यदाकर्षणं तत्संगपूर्वकं, यथाऽयोगोलकस्य सन्दंशेन, आकर्षण चायसोऽयस्कान्तेन, तत्र साक्षादयस्कान्ते संसर्गः प्रत्यक्षबाधित इत्यर्थात् छायाणुभिः सह द्रष्टव्य इति, तदपि बालिशजल्पितं, हेतोरनैकान्तिकत्वात्, मन्त्रेण व्यभिचारात, तथाहि-मन्त्रः स्मर्यमाणोऽपि विवक्षितं वस्त्वाकर्षति, न च तत्र कोऽपि संसर्ग इति, अपिच- यथा छायाणवः प्राप्तमयः समाकर्षन्ति तथा काष्ठादिकमपि प्राप्तं कस्मान्नाकर्षन्ति?, शक्तिप्रतिनियमादिति चेत् ननु स शक्तिप्रतिनियमोऽप्राप्तावपि तुल्य एवेति व्यर्थं छायाणुपरिकल्पनं । अन्यस्त्वाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org