________________
नन्दी-चूलिकासूत्रं विशेषाभावात्, ज्ञवं यावच्चरमसमयेऽपि, अथ च चरमसमये ज्ञानमर्थावग्रहरूपं जायमानमुपलभ्यते ततः प्रागपि कापि कियती ज्ञानमात्रा द्रष्टव्या, अथ मन्येथाः-मा भूत्प्रथमसमयादिषु शब्दादिपरिणतद्रव्यसम्बन्धेऽपि काचिदपि ज्ञानमात्रा, शब्दादिपरिणतद्रव्याणां तेषु समयेषु स्तोकत्वात्, चरमसमये तु भविष्यति, शब्दादिरूपपरिणतद्रव्यसमूहस्य तदानीं भूयसो भावात्, तदयुक्तं, यतो यदि प्रथमसमयादिषुशब्दादिद्रव्याणां स्तोकत्वात् सम्पृक्तावव्यक्ताऽपि काचिदपि ज्ञानमात्रा न समुल्लसेत् तर्हिप्रभूतसमुदायसम्पर्केऽपिन भवेत्, न खलु सिकताकणेषु प्रत्येकमसति तैललेशे समुदायेऽपि तैलं समुद्भवदुपलभ्यते, अस्ति चचरमसमये प्रभूतशब्दादिद्रव्यस्मपृक्तौ ज्ञानं ततः प्राक्तनेष्वपि समयेषु स्तोकस्तोकतरैरपि शब्दादिपरिणतद्रव्यैः सम्बन्धे काचिदव्यक्ता ज्ञानमात्राऽभ्युपगन्तव्या, अन्यथा चरमसमयेऽपिज्ञानानुपपत्तेः, तथ चोक्तं
"जं सव्वहा न वीसुंसव्वेसुवितं न रेणुतेल्लंव।
पत्तेयमनिच्छंतो कहमिच्छसि समुदये नाणं? |" ततः स्थितमेतत्-व्यञ्जनावग्रहो ज्ञानरूपः, केवलं तेषु ज्ञानमव्यक्तमेव बोद्धव्यं। चशब्दौ स्वगतानेकभेदसूचकौ, ते च स्वगता अनेकभेदा अग्रे स्वयमेव सूत्रकृता वर्णयिष्यन्ते, आहप्रथमं व्यञ्जनावग्रहो भवति ततोऽर्थावग्रहः ततः कस्मादिह प्रथममर्थावग्रह उपन्यस्त:?, उच्यते, स्पष्टतयोपलभ्यमानत्वात्, तथाहि-अर्थावग्रहः स्पष्टरूपतया सर्वैरपि जन्तुभिः संवेद्यते, शीघ्रतरगमनादौ सकृत्सत्वरमुपलम्भे मया किञ्चिद् दृष्टं परं न परिभावितं सम्यगिति व्यवहारदर्शनात्, अपि च-अर्थावग्रहः सर्वेन्द्रियमनोभावी व्यञ्जनावग्रहस्तु नेतिप्रथममर्थावग्रह उक्तः, सम्प्रति तु व्यञ्जनावग्रहादूर्वमर्थावग्रह इति क्रममाश्रित्य प्रथमं व्यञ्जनावग्रहस्वरूपंप्रतिपिपादयिषुः शिष्यः प्रश्नं कारयति
मू.(११३)से किंतंवंजणुग्गहे?, वंजणुग्गहे चउव्विहे पन्नत्ते, तंजहा-सोइंदिअवंजणुग्गहे घाणिदियवंजणुग्गहे जिभिदियवंजणुग्गहे फासिंदिअवंजणुग्गहे। सेतं वंजणुग्गहे।
वृ.'से किं तमि'त्यादि, अथ कोऽयं व्यञ्जनावग्रहः?, आचार्य आह-व्यञ्जनावग्रहश्चतुर्विधः प्रज्ञप्तः, तद्यथा-'श्रोत्रेन्द्रियव्यञ्जनावग्रह' इत्यादि, अत्राह-सत्सु पञ्चस्विन्द्रियेषु षष्ठे चमनसि कस्मादयं चतुर्विधोव्यावर्ण्यते?, उच्यते, इहव्यञ्जनमुपकरणेन्द्रियस्य शब्दादिद्रव्याणां च परस्परं सम्बन्ध उच्यते, सम्बन्धश्चतुर्णामेव श्रोत्रेन्द्रियादीनां, न नयनमनसोः, तयोरप्राप्यकारित्वात्, आह
कथमप्राप्यकारित्वंतयोरवसीयते?, उच्यते, विषयकृतानुग्रहोपघाताभावात्, तथाहि-यदि प्राप्तमर्थं चक्षुर्मनो वा गृह्णीयात् तर्हि स्पर्शनेन्द्रियं स्त्रक्चन्दनादिकं अङ्गारादिकं च प्राप्तमर्थं परिच्छिन्दत्तत्कृतानुग्रहोपघातभाग्भवति तथा चक्षुर्मनसी अपि भवेतां, विशेषाभावात्, न च भवतः तस्मादप्राप्यकारिणी ते, ननु दृश्येते एव चक्षुषोऽपि विषयकृतावनुग्रहोपधातौ, तथाहिघनपटलविनिर्मुक्ते नभसि सर्वतो निबिडजरठिमोपेतं करप्रसरमभिसर्पयन्तमंशुमालिनमनवरतमवलोकमानस्य भवति चक्षुषो विधातः, शशाङ्ककरकदम्बकं यदिवा तरङ्गमालोपशोभितं जलं तरुमण्डलंचशावलं निरन्तरंनिरीक्षमाणस्य चानुग्रहः, तदेतदपरिभावितभाषितं, यतो न ब्रूमःसर्वथा विषयकृतानुग्रहोपघातौ न भवतः, किन्त्वेतावदेववदामो
यदा विषयं विषयतया चक्षुरवलम्बते तदा तत्कृतावनुग्रहोपधातौ तस्य न भवत इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org