SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १६६ नन्दी - चूलिकासूत्रं अस्ति चक्षुषः प्राप्यकारित्वे व्यवहितार्थानुपलब्धिरनुमानं प्रमाणं तदयुक्तं, अत्रापि हेतोरनैकान्तिकत्वात्, काचाभ्रपटलस्फटिकैरन्तरितस्याप्युपलब्धेः, अथेदमाचक्षीथाः नायना रश्मयो निर्गत्य तमर्थं गृह्णन्ति, नायनाश्च रश्मयस्तैजसत्वान्न तेजोद्रव्यैः प्रतिस्खल्यन्ते ततो न कश्चिद्दोषः, तदपि न मनोरमं, महाज्वालादौ स्खलनोपलब्धेः, तस्मादप्राप्यकारी चक्षुरिति स्थितं । एवं मनसोऽप्राप्यकारित्वं भावनीयं, तत्रापि विषयकृतानुग्रहोपघाताभावाद्, अन्यथा तोयादिचिन्तायामनुग्रहोऽग्निशस्त्रादिचिन्ताया चोपघाते भवेत्, ननु दृश्यते मनसोऽपि हर्षादिभिरनुग्रहः, शरीरोपचयदर्शनात्, तथाहि - हर्षप्रकर्षशान्मनसोऽपि पृष्टता भवति, तद्वशाच्च स्वशरीरस्योपचयः, तथोपघातोऽपि शोकादिभिर्दश्यते, शरीरदौर्बल्योर: क्षतादिदर्शनात्, अतिशोककरणतो हि मनसो विघातः सम्भवति, ततस्तद्वशाच्छरीरदौर्बल्यमितिचिन्तावशाच्च हृद्रोग इति, तदेतदतीवासम्बद्धं, यत इह मनसोऽप्राप्यकारित्वं साध्यमानं वर्त्तते, विषयकृतानुग्रहोपधाताभावात्, न चेह विषयकृतानुग्रहोपघातौ त्वया मनसो दर्श्यते, तत्कथं व्यभिचारः ?, मनस्तु स्वयं पुद्गलमत्वाच्छरीरस्यानुग्रहोपघातौ करिष्यति, यथेष्टानिष्टरूप आहार:, तथाहि - इष्टरूप आहारः परिभुज्यमानः शरीरस्य पोषमाधत्ते, अनिष्टरूपस्तूपसङ्घातं, तथा मनोऽप्यनिष्टपुद्गलोपचितमतिशोकादिचिन्तानिबन्धनं शरीरस्य हानिमादधाति, इष्टपुद्गलोपचितं च हर्षादिकारणं पृष्टिं, उक्तं च"इट्ठानिट्ठाहारब्भवहारे होंति पुट्ठिहानीओ। - जह तह मनसो ताओ पुग्गलगुणउत्ति को दोसो ॥" तस्मात् मनोऽपि विषयकृतानुग्रहोपघाताभावादप्राप्यकारीति स्थितं । इह सुगतमतानुसारिणः श्रोत्रमप्यप्राप्यकारि प्रपद्यन्ते, तथा च तद्ग्रन्थः - "चक्षुः श्रोत्रं मनोऽप्राप्यकारी" ति, तदयुक्तं, इहाप्राप्यकारितत्प्रतिपत्तुं शक्यते यस्य विषयकृतानुग्रहोपघाताभावो, यथा चक्षुर्मनसोः, श्रोत्रस्य च शब्दकृत उपघातो दृश्यते, सद्योजातबालकस्य समीपे महाप्रयत्नताडितझल्लरीझात्कारश्रवणतो यद्वा विद्युत्प्रपान तत्प्रत्यासन्नदेशवर्त्तिनां निर्घोष श्रवणतो बधिरी भावदर्शनात्, शब्दपरमाणवो हि उत्पत्तिदेशादारभ्य सर्वतो जलतरङ्गन्यायेन प्रसरमभिगृह्णानाः श्रोत्रेन्द्रियदेशमागच्छन्ति, ततः सम्भवत्युपघातः, ननु यदि श्रोत्रेन्द्रियं देशं प्राप्तमेव शब्दं गृह्णाति नाप्राप्तं तहीं यथा गन्धादौ गृह्णमाणे न तत्र दूरासन्नादितया भेदप्रतीतिरेवं शब्देऽपि न स्यात्, प्राप्तो हि विषयः परिच्छिद्यमानः सर्वोऽपि सन्निहित एव, तत्कथं तत्र दूरासन्नादिभेदप्रतीतर्भवितुर्महति ?, अथ च प्रतीयते शब्दो दूरासन्नादितया, तथा च लोके वक्तारः श्रूयन्ते - कस्यापि दूरे शब्द इति, -- अन्यच्च यदि प्राप्तः शब्दो गृह्यते श्रोत्रेन्द्रियेण तर्हि चाण्डालोक्तोऽपि शब्दः श्रोत्रेन्द्रियेण श्रोत्रेन्द्रियसंस्पृष्टो गृह्यते इति श्रोत्रेन्द्रियस्य चाण्डालस्पर्शदोषप्रसङ्गः, तत्र श्रेयः श्रोत्रेन्द्रियस्य प्राप्यकारित्वं, तदेतदतिमहामोहस्य मलीमसभाषितं, त (य) तो यद्यपि शब्द: प्राप्तो गृह्यते श्रोत्रेन्द्रियेण तथापि यत उत्थितः शब्दस्तस्य दूरासन्नत्वे शब्देऽपि स्वभाववैचित्र्यसम्भावद्दूरासन्नादिभेदप्रतीतिर्भवति, तथाहि - दूरादागतः शब्दः क्षीणशक्तिकत्वात्स्विन्न उपलक्ष्यते अस्पष्टरूपो वा, ततो लोको वदति- दूरे शब्दः श्रूयते, अस्य च वाक्यस्यायं भावार्थो - दूरादागतः शब्दः श्रूयते इति, स्यादेतद्-एवमतिप्रसङ्गः प्राप्नोति, तथाहि - एतदपि वक्तुं शक्यते दूरे रूपमुपलभ्यते, किमुक्तं भवति ? दूरागतं रूपमुपलभ्यते इति, ततश्चक्षुरपि प्राप्यकारि प्राप्नोति, न चेष्यते, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy