SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ नन्दी - चूलिकासूत्रं कारणिकैर्यदुद्ग्राहितं द्रव्यं तत्सर्वमानायितं, कृतौ द्वौ भागौ, एको महान् द्वितीयोऽल्प इति, ततः पृष्टः कारणिकैः स पुरुषः - कं भागं त्वमिच्छसि ?, स प्राह- महान्तं इति, ततः कारणिकैरक्षरार्थो विचारितो यदिच्छसि तन्मह्यं दद्या इति, त्वमिच्छसि महान्तं भागं ततो महान् भाग एतस्याः, द्वितीयस्तु तवेति । कारणिकानामौत्पत्तिकी बुद्धिः २६ । 'सयसहस्से 'त्ति काऽपि परिव्राजकः, तस्य रूप्यमयं महाप्रमाणं भाजनं खोरयसंज्ञं, स च यदेकवारं शृणोति तत्सर्वं तथैवावधारयति, ततः स निजप्रज्ञागर्वमुद्वहन् सर्वसमक्षं प्रतिज्ञां कृतवान्-यो नाम मामपूर्वं श्रावयति तस्मै ददामीदं भाजनमिति, न च कोऽप्यपूर्वं श्रावयितुं शक्नोति, स हि यत्किमपि शृणोति तत्सर्वमस्खलितं तथैवानुवदती, वदते च- अग्रेऽपीदं मया श्रुतं कथमन्यथाऽहमस्खलितं भणामीति, तत्सर्वत्र ख्यातिमगमत्, ततः केनापि सिद्धपुत्रकेण ज्ञाततत्प्रतिज्ञेन तं प्रत्युक्तम् अहमपूर्वं श्रावयिष्यामि, ततो मिलितो भूयान् लोको राजसमक्षं व्यवहारो बभूव, ततः सिद्धपुत्रोऽपाठीत् १५४ "तुज्झ पिया मह पिउणो धारेइ अनूनगं सयहस्सं जइ सुयपुव्वं दिज्जउ अह न सुयं खोरयं देसु ।। " जितः परिव्राजकः । सिद्धपुत्रस्यौत्पत्तिकी बुद्धिः २७ । तदेवमुक्ता बुद्धिरौत्पत्तिकी, सम्प्रति वैनयिक्या लक्षणं प्रतिपादयति - मू. (१०१ ) भरनित्थरणसमत्था तिवग्गसुत्तत्थगहिअपेआला । उभओ लोगफलवई विणयसमुत्था हवइबुद्धि || वृ. इहातिगुरु कार्यं दुर्निवहत्वाद्भर इव भरस्तन्निस्तरणे समर्थाः भरनिस्तरसमर्था त्रयो वर्गास्त्रिवर्गाः--लोकरूढ्य धर्मार्थकामास्तदर्जनोपायप्रतिपादकं यत्सूत्रं यश्च तदर्थस्तौ त्रिवर्गसूत्रार्थौ तयोर्गृहीतं 'पेयालं' प्रमाणं सारो वा यया सा तथाविधा, अत्राह - नन्वश्रुतनिश्रिता बुद्धयो वक्तुमभिप्रेताः, ततो यद्यस्यास्त्रिवर्गसूत्रार्थगृहीतसारत्वं ततोऽश्रुतनिश्रितत्वं नोपपद्यते, न हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहीतसारत्वं संभवति, अत्रोच्यते, इह प्रायोवृत्तिमा - श्रित्याश्रुतनिश्रित्वमुक्तं, ततः स्वल्पश्रुतभावेऽपि न कश्चिद्दोषः । तथा 'उभयलोकफलवती' ऐहिके आमष्यिके च लोके फलदायिनी विनयसमुत्था बुद्धिर्भवति । सम्प्रत्यस्या एव विनेयजनानुग्रहार्थमुदाहरणैः स्वरूपं दर्शयति गाथाद्वयार्थः कथानेकेभ्योऽवसेवः, तानि च ग्रन्थगौरवभयात्संक्षेपेणोच्यते मू. (१०२) निमित्ते १ अत्थसत्थे अ २ लेहे ३ गणिघ अ४ कूव ५ अस्से अ ६ । गद्दभ ७ लक्खण ८ गंठी ९ अगए १० रहिए अ ११ गणिया य १२ ॥ वृ. तत्र 'निमित्ते' इति, कचित्पुरे कोऽपि सिद्धपुत्रकः, तस्य द्वौ शिष्यौ निमित्तशास्त्रमधीतवन्तौ, एको बहुमानपुरस्सरं गुरोर्विनयपरायणो यत्किमपि गुरुरुपदिशति तत्सर्वं तथेतिप्रतिपद्य स्वचेतसि निरन्तरं विमृशति, विमृशतश्च यत्र कापि सन्देह उपजायते तत्र भूयोऽपि विनयेन गुरुपादमूलमागत्य पृच्छति, एवं निरन्तरं विमर्शपूर्वं शास्त्रार्थं तस्य चिन्तयतः प्रज्ञा प्रकर्षमुपजगाम, द्वितीयस्त्वेतद्गुणविकलः, तौ चान्यदा गुरुनिर्देशात् कचित्प्रत्यासन्ने ग्रामे गन्तुं प्रवृत्तौ पथि च कानिचित् महान्ति पदानि तावदर्शतां, तत्र विमृश्यकारिणा पृष्टं भोः कस्यामूनि पदानि ?, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy