SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ मूलं - १०२ १५५ हस्तिन्या अमूनि पदानि सा च हस्तिनी वामेन चक्षुषा काणा, तां चाधिरूढा गच्छति काचिद्राज्ञी, सा च सभर्तृका गुर्वी च प्रजने कल्या, अद्य श्वो वा प्रसविष्यति, पुत्रश्च तस्या भविष्यति, तत एवमुक्ते सोऽविमृश्यकारी ब्रूते कथमेतदवसीयते ?, " विमृश्यकारी प्राह-'ज्ञानं प्रत्ययसार' मित्यग्रे प्रत्ययतो व्यक्तं भविष्यति, ततः प्राप्तौ तौ विवक्षितं ग्रामं दृष्टा चावसिता तस्य ग्रामस्य बहिः प्रदेशे महासरस्तटे राज्ञी, परिभाविता च हस्तिनी वामेन चक्षुषा काणा अत्रान्तरे च काचिद्दासचेडी महत्तमं प्रत्याह- वर्द्धाप्यसे राज्ञः पुत्रलाभेनेति, ततः शब्दितो विमृश्यकारिणा द्वितीयः - परिभावय दासचेडीवचनमिति, तेनोक्तंपरिभावितं मया सर्वं, नान्यथा तव ज्ञानमिति, ततस्तौ हस्तपादान् प्रक्षाल्य तस्मिन् महातरस्तटे न्यग्रोधतरोरधो विश्रामाय स्थितौ दृष्टौ च कयाचिच्छिरोन्यस्तजलभृतधटिकया वृद्धस्त्रिया, परिभाविता च तयोराकृतिः, ततश्चिन्तयामास - नूनमेतौ विद्वांसौ, ततः पृच्छामि देशान्तरगतनिजपुत्रागमनमिति, पृष्टं तया, प्रश्नसमकालमेव च शिरसो निपत्य भूमौ धटः शतखण्डशौ भग्नः, ततो झटित्येवाविमृश्यकारिणा प्रोचे गतस्ते पुत्रो धट इव व्यापत्तिमिति, विमृश्यकारी ब्रूते स्म - मा वयस्यैवं वादीः, पुत्रोऽस्या गृहे समागतो वर्त्तते, याहि मातवृद्धे ! स्त्रि ! स्वपुत्रमुखमवलोकय, तत एवमुक्ता सा प्रत्युज्जीवितेवाशीर्वादशतानि विमृश्यकारिणः प्रयुञ्जाना स्वगृहं जगाम, दृष्टश्चोद्धूलितजङ्घः स्वपुत्रो गृहभागतः, ततः प्रणता स्वपुत्रेण, सा चाशीर्वादं निजपुत्राय प्रायुंक्त, कथयामास च नैमित्तिकवृत्तान्तं, ततः पुत्रमापृच्छय वस्त्रयुगंलं रूपकांश्च कतिपयानादाय विमृश्यकारिणः समर्पयामास, अविमृश्यकारी च खेदमावहन् स्वचेतसि अचिन्तयत्- नूनमहं गुरुणा न सम्यक् परिपाठितः, कथमन्यथाऽहं न जानामि ?, एष जानातीति, गुरुप्रयोजनं कृत्वा समागतौ द्वौ गुरोः पार्श्वे, तत्र विमृश्यकारी दर्शनमात्र एव शिरो नमयित्वा कृताञ्जलिपुट: सबहुमानमानन्दाश्रुप्लावितलोचनो गुरोः पादावन्तरा शिरः प्रक्षिप्य प्राणिपपात, द्वितीयोऽपि च शैलस्तम्भ इव मनागप्यनमितगात्रयष्टिर्मात्सर्यवह्निसम्पर्कतो धूमायमानोऽवतिष्ठते, ततो गुरुस्तं प्रत्याह - रे किमिति पादयोर्न पतसि ?, स प्राह-य एव सम्यक् पाठितः स एव पतिष्यति, नाहमिति, गुरुराह- कथं त्वं न सम्यक् पाठित: ?, ततः स प्राचीनं वृत्तान्तं सकलमचीकथत्, यावदेतस्य ज्ञानं सर्वं सत्यं न ममेति, ततो गुरुणा विमृश्यकारी पृष्टः- कथय वत्स ! कथं त्वयेदं ज्ञातमिति ?, - ततः स प्राह-मया युष्मत्यापादादेशेन विमर्श: कर्त्तुमारब्धो यथैतानि हस्तिरूपस्य पदानि सुप्रतीतान्येव, विशेषचिन्तायां तु किं हस्तिन उत हस्तिन्या: ?, तत्र कायिकीं दृष्ट्वा हस्तिन्या इति निश्चितं, दक्षिणे च पार्श्वे वृत्तिसमारूढवल्लीवितामआलूनविशीर्णो हस्तिनीकृतो दृष्टो न वामपार्श्वे ततो निश्चिये नूनं वामेन चक्षुषा काणेति, तथा नान्य एवंविधपरिकरोपेतो हस्ति•न्यामधिरूढो गन्तुमर्हति ततोऽवश्यं राजकीयं किमपि मानुषं यातीति निश्चितं तच्च मानुषं क्वचित्प्रदेशे हस्तिन्या उत्तीर्य शरीरचिन्तां कृतवत्, कायिक दृष्टवा राज्ञीति निश्चितं, वृक्षावलग्नरक्तवस्त्रदशालेशदर्शनात् सभर्तृका, भूमौ हस्तं निवेश्योत्थानाकारदर्शनाद्गुर्व्वी, दक्षिणचरणनिस्सहमोचननिवेशदर्शनात्प्रजने कल्येति । वृद्धस्त्रियाः प्रश्नानन्तरं घटनिपते चैवं विमर्शः कृतोयथैव घटो यत उत्पन्नस्तत्रैव मिलितस्तथा पुत्रोऽपीति । तत एवमुक्ते गुरुणा च विमृश्यकारी www.jainelibrary.org Jain Education International - For Private & Personal Use Only
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy