SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ मूलं - १०० १५३ मित्रमवादीत्-भो ! वयस्य ! तावेतौ तव पुत्रौ, तथा च पश्य तव स्नेहमात्मीयं दर्शयतः, ततः स मायावी प्राह- वयस्य ! किं मानुषावकस्मात् मर्कटौ भवतः ?, वयस्य आह - भवतः कर्म्मप्रातिकूल्यवशात्, तथाहि-किं सुवर्णमङ्गारीभवति ?, परमावयोः कर्मप्रातिकूल्यादेतदपि जातं, तथा तव पुत्रावपि मर्कटावभूतामिति, ततो मायावी चिन्तयामास - नूनमहं ज्ञातोऽनेन, यद्युच्चैः शब्दं करिष्ये ततोऽहं राजग्राह्यो भविष्यामि, पुत्रौ चान्यथा मे न भवतः, ततस्तेन सर्वं यथावस्थितं तस्मै निवेदितं, दत्तश्च भागः, इतरेण च समप्पितौ पुत्रौ । तस्योत्पत्तिकी बुद्धिः २३ । - 'सिक्ख 'त्ति शिक्षा- धनुर्वेदः, तदुहारणभावना - कोऽपि पुमान् अतीव धनुर्वेदकुशलः, स परिभ्रमन् एकत्रेश्वरपुत्रान् शिक्षयितुं प्रावर्त्तत, तेभ्यश्चेश्वरपुत्रेभ्यः प्रभूतं द्रव्यं प्राप्तवान्, ततः पित्रादयस्तेषां चिन्तयामासुः प्रभूतमेतस्मै कुमारा दत्तवन्तः, ततो यदाऽसौ यास्यति तदैनं मारयित्वा सर्वं ग्रहीष्यामः, एतच्च कथमपि तेन ज्ञातं, ततः स्वबन्धूनां ग्रामान्तरवासिनां कथमपि ज्ञापितं भणितं च यथाहममुकस्यां रात्रौ नद्यां गोमयपिण्डान् प्रक्षेप्स्यामि भवद्भिस्ते ग्राह्या इति, ततस्तैस्तथैव प्रतिपन्नं, ततो द्रव्येण संवलिता गोमयपिण्डास्तेन कृताः, आतपेन च शोषिताः, तत ईश्वरपुत्रानित्युवाच-यथैषोऽस्माकं विधिः-विवक्षिततिथिपर्वणि स्नानमन्त्रपुरस्सरं गोमयपिण्डा नद्या प्रक्षिप्यन्ते इति, तैरपि यथा गुरवो व्याचक्षते तथेति प्रतिपन्नं, ततो विवक्षितरात्रौ तैरीश्वरपुत्रैः, समं स्नानमन्त्रपुरस्सरं ते सर्वेऽपि गोमयपिण्डा नद्यां प्रक्षिप्ताः, ततः समागतो गृहं, तेऽपि गोमयपिण्डा नीताबन्धुभिः स्वग्रामे, ततः कतिपयदिनातिक्रमे तानीश्वरपुत्रान् तेषा च पित्रादीन् प्रत्येकं मुत्कलाप्यात्मानं च वस्त्रमात्रपरिग्रहोपेतं दर्शयेन् सर्वजनसमक्षं स्वग्रामं जगाम, पित्रादिभिश्च परिभावितो नास्य पार्श्वे किमप्यस्तीति न मारितः । तस्यौत्पत्तिकी बुद्धिः २४ । 'अत्थसत्थे 'त्ति अर्थशास्त्रम् - अर्थविषयं नीतिशास्त्रं, दृष्टान्तभावना - काऽपि वणिक्, तस्य द्वे पत्यौ, एकस्याः पुत्रोऽपरा बन्ध्या, परं साऽपि पुत्रं सम्यक् पालयति, ततः पुत्रो विशेषं नावबुध्यते यथेवं मे जननी नेयमिति, सोऽपि वणिक् सभार्यापुत्रो देशान्तरमगमत् यत्र सुमतिस्वामिनस्तीर्थकृतो जन्मभूमिः, तत्र च गतमात्र एवं दिवं गतः, सपत्न्योश्च परस्परं कलहोऽभूत्, एका ब्रूते ममैष पुत्रस्ततोऽहं गृहस्वामिनी, द्वितीया ब्रूते अहमिति, ततो राजकुले व्यवहारो जात:, तथापि न निर्बलति, एतच्च भगवति तीर्थकरे सुमतिस्वामिनि गर्भस्थे तज्जनन्या मङ्गलादेव्या जज्ञे, अत आकारिते द्वे अपि सपत्यौ, ततो देव्या प्रतिपादितं कतिपयदिनानन्तरं पुत्रो भविष्यति ?, स च वृद्धिमधिरूढोऽस्याशोकपादपस्याधस्तादुपविष्टो युष्माकं व्यवहारं छेत्स्यति, तत एतावन्तं कालं यावदविशेषेण स्वादतां पिबतामिति, ततो न यस्याः, पुत्रः साऽचिन्तयत्- लब्धस्तावदेतावान् कालः पश्चात् किमपि यद्भविष्यति तन्न जानीमः, ततो हृष्टवदनया तया प्रतिपन्नं, ततो देव्या जज्ञे - नैषा पुत्रस्य मातेति निर्भर्त्सिता, द्वितीया च गृहस्वामिनी कृता । देव्या औत्पत्तिकी बुद्धिः २५ । 'इच्छा य मह'त्ति काचित् स्त्री, तस्या भर्ता पञ्चत्वमधिगतः, सा च वृद्धिप्रयुक्तं द्रव्यं लोकेभ्यो न लभते, ततः प्रतिमित्रं भणितवती - मम दापय लोकेभ्यो धनमिति, ततस्तेनोक्तंयदि मम भागं प्रयच्छसि ततोनयोक्तं- यदिच्छसि तन्मह्यं दद्या इति, ततस्तेन लोकेभ्यः सर्वं द्रव्यमुद्ग्राहितं, तस्यै स्तोकं प्रयच्छति सा नेच्छति, ततो जातो राजकुले व्यवहारः, ततः For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy