________________
१५०
नन्दी-चूलिकासूत्रं राजे, राज्ञा च न प्रतिपन्न, यतोऽवश्यमेकः पूर्वस्यां दिशि प्रेषणीयोऽपरोऽपरस्यां दिशि, ततः कथमेष विशेषो गम्यते?, ततः पुनरपि मन्त्रिणा लेखप्रदानेन सा महेलोक्ता-द्वावपि निजपति तयोरेव ग्रामयोः समकं प्रेषणीयौ, तया च तौ तथैव प्रेषितौ, मन्त्रिणा च द्वौ पुरुषौ तस्याः समीपे समकं तयोः शरीरापाटवनिवेदकौ प्रषितौ, द्वाभ्यामपि च सा समकमाकारिता, ततो यो मन्दवल्लभशरीरापाटवनिवेदकः पुरुषस्तं प्रत्याह-सदैवमन्दशरीरो द्वितीयोऽत्यातुरश्च वर्ततेप्रत्यहं गमिष्यामि, तथैव कृतं, ततो निवेदितं राज्ञो मन्त्रिणा, प्रतिपन्नं राज्ञा तथेति। मन्त्रिण: औत्पत्तिकी बुद्धिः १६ ।
'पुत्त'त्ति पुत्रदृष्टान्तः, तद्भावना-कोऽपि वणिक् तस्य द्वे पत्यौ, एकस्याः पुत्रोऽपरा वन्ध्या, परं सापि तं पुत्रं सम्यक पालयति, ततः स पुत्रो विशेषं न जानीते-यथा इयं मे जननी इयं नेति, सोऽपि वणिक् सभार्यापुत्रो देशान्तरं गतो, गतमात्र एव परासुरभूत, ततो द्वयोरपि तयोः कलहोऽजायत, एका भणति-ममैष पुत्रस्तताऽहं गृहस्वामिनी, द्वितीया ब्रूते-का त्वं?, ममैष पुत्रः ततोऽहमेव गृहस्वामिनीति, एवं च तयोः परस्परं कलहे जाते राजकुले व्यवहारो बभूव, ततोऽमात्यः प्रतिपादयामास निजपुरुषान्-भोः पूर्वं द्रव्यं समस्तं विभजत, विभज्य ततो दारकं करपत्रेण कुरुत द्वौ भागौ, कृत्वा चैकं खण्डमेकस्यै समर्पयत द्वितीयं द्वितीयस्यै, तत एतदमात्मवाक्यं शिरसि महाज्वालासहस्त्रावलीढज्रोपनिपातकल्पं पुत्रमाता श्रुत्वा सोत्कम्पहृदया हृदयान्तःप्रविष्टतिर्यक्शल्येव सदुःखं वक्तुं प्रवृत्ता-हा स्वामिन् ! महामात्य! न ममैष पुत्रो, न मे किञ्चिदर्थेन प्रयोजनं, एतस्या एव पुत्रो भवतु गृहस्वामिनी च, अहं पुनरमुं पुत्रं दूरस्थितापि परगृहेषु दारिद्रयमपि कुर्वति जीवन्तं द्रक्ष्यामि, तावता च कृतकृत्यमात्मानं प्रपत्स्ये, पुत्रेण विना पुनरधुनापि समस्तोऽपि मे जीवलोकोऽस्तमुपयाति, इतरा च न किमपि वक्ति, ततोऽमात्येन तां सदुःखां परिभाव्योक्तम्-तस्याः पुत्रो नास्या इति, सेव सर्वस्वस्वामिनी कृता, द्वितीया तु निर्धाटिता । अमात्यस्यौत्पत्तिकी बुद्धिः १७। . मू.(९९) भरह सिल मिंढ कुक्कुड वालुअ हत्थी अगड वनसंडे
यस अइआ पत्ते खाडहिला पंच पिअरो अ॥ वृ.'भरहसिलमेंढे 'त्यादिका च गाथा रोहकसंविधानसूचीका, सा च प्रागुक्तकथानकानुसारेण स्वयमेव व्याख्येया। मू.(१००) महसित्थ मुद्दि अंके नाणए भिक्खु चेडगनिहाणे
सिक्खा अत्थसत्थे इच्छा य महंसयसहस्से। ७. मधयुक्तं सित्थं-मधुसित्थं तदृष्टान्तभावना-कश्चित्कौलकस्तस्य भार्या स्वैरिणी, सा चान्यदा केनापि पुरुषेण सह कस्मिंश्चित्प्रदेशे जालिमध्ये मैथुनं सेवितवती, मैथुनस्थितया च तया उपरि भ्रामरं समुत्पन्नं दृष्टं, क्षणमात्रानन्तरं च समागता गृहे, द्वितीये च दिवसे स्वभर्ती मदनं क्रीणस्तया निवारितो-मा क्रीणाहि मदनं, अहं ते भ्रामरमुत्पन्नं दर्शयिष्यामि, ततः स क्रयाद्विनिवृत्तो, गतौ च तौ द्वावपि तां जालिं, न पश्यति सा कथमपि कौलिकी, भ्रामरं, ततो येन संस्थानेन मैथुनं सेवितवती तेनैव संस्थानेन स्थिता, ततो दृष्टवती भ्रामरं, दर्शयामास च कौलिकाय, कौलिकोऽपि तथारूपं संस्थानमवलोक्य ज्ञातवान्-नूनमेषा दुश्चारिणीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org