________________
१५१
मूलं-१०० कौलिकस्यौत्पत्तिकी बुद्धिः १८।। - 'मुद्दिय'त्ति मुद्रिकोदाहरणं, तद्भावना-कस्मिंश्चित्पुरे कोऽपि पुरोधाः सर्वत्र ख्यातसत्यवृत्तिः-यथा परकीयान्निक्षेपानादायादाय प्रभूतकालातिक्रमेऽपि तथास्थितानेव समर्पयतीति, एतच्च ज्ञात्वा कोऽपिद्रमकः तस्मै स्वनिक्षेपं समर्प्य देशान्तरमगमत्, प्रभूतकालातिक्रमे च भूयोऽपि तत्रागतो याचते च स्वं निक्षेपं पुरोधसं, पुरोधाश्च मूलत एवापलपति-कस्त्वं कीदृशो वा तव निक्षेप इति?, ततः स रङ्को वराकः स्वं निक्षेपमलभमानः शून्यचित्तो बभूव, अन्यदा च तेनामात्यो गच्छन् दृष्टो याचितश्च-देहि मे पुरोहित! सुवर्णसहस्रप्रमाणं निक्षेपमिति, तत एतदाकर्ण्य अमात्यस्तद्विषयकृपापरीतचेता बभूव, ततो गत्वा निवेदितं राज्ञः, कारितश्च दर्शनंद्रमको, राज्ञापि भणितः पुरोधाः-देहि तस्मै द्रमकाय स्वं निक्षेपमिति, पुरोहितोऽवादीत्देव ! न किमपि तस्याहं गृह्णामि, ततो राजा मौनमधात्, पुरोधसि च स्वगृहं गते राजा विजने तंद्रमकमाकार्य पृष्टवान्-रे! कथय सत्यमिति, ततस्तेन सर्वं दिवसमुहूर्तस्थानपार्श्ववर्तिमानुषादिकं कथितं, ततोऽन्यदा राजा पुरोधसा समं रन्तुं प्रावर्त्तत, परस्परं नाममुद्रा च सञ्चारिता, ततो राजा यथा पुरोधा न वेत्ति तथा कस्यापि मानुषस्य हस्ते नाममुद्रां समर्प्य तं प्रति बभाणरे पुरोधसो गृहं गत्वा तद्भार्यामेवं ब्रहि-यथाऽहं पुरोधसा प्रष्तः, इयं च नाममुद्राऽभिज्ञानं, तस्मिन् दिने तस्यां वेलायां यः सुवर्णसहस्त्रनवलको द्रमकसत्कस्त्वत्समक्षममुकप्रदेशे -- मुक्तोऽस्ति झटिति मे समर्पय, तेन पुरुषेण तथैव कृतं, सापि च पुरोधसो भार्या नाममुद्रां दृष्ट्वाऽभिज्ञानमिलनतश्च सत्यमेष पुरोधसा प्रेषित इति प्रतिपत्रवती, ततः समर्पयामास तं द्रमकनिक्षेपं, तेन च पुरुषेणानीय राज्ञः समप्पितो, राज्ञा चान्येषां बहूनां नवलकानां मध्ये स द्रमकनवलक: प्रक्षिप्तः, आकारितो द्रमकः, पार्वे चोपवेशितः पुरोधाः द्रमकोऽपि तमात्मीयं नवलकं दृष्टवा प्रमुदितहृदयो विकसितलोचनोऽपगतचित्तशुन्यताभावः सहर्षो राजानं विज्ञपयितुं प्रवृत्त:देव! देवपादानां पुरत एवमाकारो मदीयो नवलकः, ततो राजा तं तस्मै समर्पयामास, पुरोधसश्च जिह्वाच्छेदमचीकरत् । राज्ञ औत्पत्तिकी बुद्धिः १९। __ 'अंके 'त्ति अङ्कदृष्टान्तभावना, कोऽपि कस्यापि पार्वे रूपकसहस्रनवलकं निक्षिप्तवान्, तेन च निक्षेपग्राहिणा तं नवलकमध:प्रदेशे छित्त्वा कूटरूपकाणां सहस्रेण स भृतः, तथैव च सीवितः, ततः कालान्तरे तस्य पार्वान्निक्षेपस्वामिना स्वनिक्षेपो गृहीतः, परिभावितः, सर्वतस्तथैव दृश्यते मुद्रामिकं, तत उद्घाटीता मुद्रा यावत् रूपकान् परिभावयति तावत्सर्वानपि कूटान् पश्यति, ततो जातो राजकुले तयोर्व्यवहारः, पृष्टः कारणिकैनिक्षेपस्वामी-भोः! कतिसङ्ख्यास्तव नवलके रूपका आसीरन् ?, स प्राह-सहस्र, ततो गणयित्वा रूपकाणां सहस्रं तेन भृतः स नवलक: स च परिपूर्णं भृतः केवलं यावन्मात्रमधस्ताच्छिन्नस्तावन्यन् इत्युपरि सीवितुं न शक्यते, ततो ज्ञातं कारणिकैः, नूनमस्यापहृता रूपकाः, ततो दापितो रूपकसहस्रमितरो नवलकस्वामिनः । कारणिकानामौत्पत्तिकी बुद्धिः २० ।
'नाणं 'ति कोऽपि कस्यापि पार्वे सुवर्णपणभृतं नवलकं निक्षिप्तवान्, ततो गतो देशान्तरं, प्रभूते च कालेऽतिक्रान्ते निक्षेपग्राही तस्मानवलकात् जात्यसुवर्णमयान् पणान् गृहीत्वा हीनवर्णकसुवर्णपणान् तावत्सङ्ख्याकान् तत्र प्रक्षिप्तवान्, तथैव च स नवलकस्तेन सीवितः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org