SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ मूलं - ९८ १४९ तस्या एवं कर्त्तुमशक्यत्वात्, ततः क्षुल्लकः कायिक्या पद्ममालिखितवान्, सा कर्त्तुं न शक्नोति, ततो जिता परिव्राजिका । क्षुल्लकस्यौत्पत्तिकी बुद्धिः १३ । 'मग्ग 'त्ति मार्गोदाहरणं, तद्भावना कोऽपि पुरुषो निजभार्यां गृहीत्वा वाहनेन ग्रामान्तरं व्रजति, अपान्तराले च कचित् प्रदेशे शरीरचिन्तानिमित्तं तद्भार्या वाहनादुत्तीर्णवती, तस्यां च शरीरचिन्तानिमित्तं कियद्भूद्भागं गतायां तत्प्रदेशवर्त्तिनी काचिद्वयन्तरी पुरुषस्य रूपसौभाग्यादिकमवलोक्य कामानुरागतस्तद्रूपेणागत्य वाहनं विलग्ना, सा च तद्भार्या शरीरचिन्तयां विधाय यावद्वाहनसमीपमागच्छति तावदन्यां स्त्रियमात्मसमानरूपां वाहनमधिरूढां पश्यति सा च व्यन्तरी पुरुषं प्रत्याह-एषा काचिद्व्यन्तरी मदीयं रूपमारचय्य तव सकाशमभिलषति ततः खेटय २ सत्वरं सौरभेयाविति, ततः स पुरुषस्तथैव कृतवान्, सा चारटन्ती पश्चाल्लग्ना समागच्छति, पुरुषोऽपि तामारटन्तीं दृष्ट्वा मूढचेता मन्दं मन्दं खेटयामास, ततः प्रावर्त्तत तयोस्तद्भार्याव्यन्तर्योर्निष्ठुरभाषणादिकः परस्परं कलहः, ग्रामे च प्राप्ते जातस्तयो राजकुले व्यवहारः, पुरुषश्च निर्णयमकुर्वन्नुदासीनो वर्त्तते, ततः कारणिकैः पुरुषो दूरे व्यवस्थापितो, भणितो च ते द्वे अपि च स्त्रियौ - युवयोर्मध्ये या काचिदमुं प्रथमं हस्तेन संस्पृश्यति तस्याः पतिरेष न शेषायाः, ततो व्यन्तरी हस्तं दूरतः प्रसार्य प्रथमं स्पृष्टवती, ततो ज्ञातं कारणिकेरेषा व्यन्तरीति, ततो निर्द्धाटिता, द्वितीया च समप्पिता स्वपतेः । कारणिकानामौत्पत्तिकी बुद्धिः १४ । 1 " 'इत्थि 'त्ति स्त्र्युदाहरणं, तद्भावना - मूलदेवपुण्डरीकौ सह पन्थानं गच्छतः इतश्च कोऽपि सभार्याकः पुरुषस्तेनैव पथा गन्तुं प्रावर्त्तत, पुण्डरीकश्च दूरस्थितस्तद्भार्यागतमतिशायिरूपं दृष्टवा साभिलाषो जातः कथितं च तेन मूलदेवस्य - यदीमां मे सम्पादयसि तदहं जीवामि, नान्यथेति, ततो मूलदेवोऽवादीम्मा आतुरीभूः, अहं ते नियमतः सम्पादयिष्यामि, ततस्तौ द्वावप्यलक्षितौ सत्वरं दूरतो गतौ, ततो मूलदेवः पुण्डरीकमेकस्मिन् वननिकुञ्जे संस्थाप्य पथि ऊर्वस्थितो वर्त्तते, ततः क्षणमात्रं निजमहेलां विसर्जय, विसर्जिता तेन, गता सा पुण्डरीकपार्श्व, ततः क्षणमात्रं स्थित्वा समागता 44 'आगंतूण य तत्तो पडयं धेत्तूण मूलदेवस्य । धुत्ती भइ हसन्ती पियं खु ते दारओ जाओ ||' द्वयोरपि तयोरौत्पत्तिकी बुद्धिः १५” । ‘पइ 'त्ति पतिदृष्टान्त, तद्भावना- द्वयोर्भ्रात्रोरेका भार्या, लोके च महत्कौतुमकम् - अहो द्वयोरप्येषा समानरागेति एतच्च श्रुतिपरम्परया राज्ञाऽपि श्रुतं परं विस्मयमुपागतो राजा, मन्त्री ब्रूते देव ! न भवति कदाचिदप्येतद्, अवश्यं विशेषः कोऽपि भविष्यति, राज्ञोक्तंकथमेतदवसेयं ?, मन्त्री ब्रूते देव ! अचिरादेव यथा ज्ञास्यते तथा यतिष्यते, व्रतो मन्त्रिणा तस्याः स्त्रिया लेखः प्रेषितो यथा - तौ द्वावपि निजपती ग्रामद्वये प्रेषणीयौ - एकः पूर्वस्यां दिशि विवक्षिते ग्रामेऽपरोऽपरस्यां दिशि, तस्मिन्नेव च दिने द्वाभ्यामपि स्वगृहे समागन्तव्यं, ततस्तया यो मन्दवल्लभः स पूर्वस्यां दिशि प्रेषितोऽपरोऽपरस्यां दिशि, पूर्वस्यां च दिशि यो गतस्तस्य गच्छत आगच्छतश्च संमुखः सूर्यो, यः पुनरपरस्यां गतस्तस्य गच्छत आगच्छतश्च पृष्ठतः, एवं कृते च मन्त्रिणा ज्ञातम् - अयं मन्दवल्लभः अपरोऽत्यन्तवल्लभः, ततो निवेदितं च For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy