________________
१४८
नन्दी - चूलिकासूत्र तोलयति तस्मै राजा महतीं वृत्तिं प्रयच्छतीति, इमां च घोषणां श्रुत्वा कश्चिदेकः पुमान्, तं हस्तिनं महासरसि नावमारोहयामास, अस्मिश्चारूढे यावत्प्रमाणा नौर्जले निमग्ना तावत्प्रमाणां रेखामदात्, ततः समुत्तारितो हस्ती तटे, प्रक्षिप्ता गण्डशैलकल्पा नावि ग्रावाणः, ते च तावत्प्रक्षिप्ता यावद्रेखां मर्यादीकृत्य जले निमग्ना नौः ततस्तोलिताः सर्वे ते पाषाणा:, कृतमेकत्र पलप्रमाणं निवेदितं च राज्ञे देव! एतावत्पलप्रमाणो हस्ती वर्त्तते, ततस्तुतोष राजा, कृतो मन्त्रिमण्डलमूर्द्धाभिषिकः परममन्त्री । तस्यौत्पत्तिकी बुद्धिः ९ ।
'घयण 'त्ति भाण्डः, तदुदाहरणं-विटो नाम कोऽपि पुरुषो राज्ञः प्रत्यासन्नवत्ती, तं प्रति राजा निजदेवीं प्रशंसति - अहो निरामया मे देवी या न कदाचिदपि वातनिसर्गं विदधाति, विट: प्राह- देव ! न भवतीदं जातुचित्, राजाऽवादीत्कथं ?, विट आह-देव ! धूती देवी, ततो यदा सुगन्धीनि पुष्पाणि चूर्णयित्वा वासान् समर्पयति नासिकाग्रे तदा ज्ञातव्यं वातं विमुञ्चतीति, ततोऽन्यदा राज्ञा तथैव परिभावितं सम्यगवगते च हसितं, ततो देवी हसननिमित्तकथनाय निर्बन्धं कृतवती, ततो राजाऽतिनिर्बन्धे कृते पूर्ववृत्तान्तमचीकथत्, ततक्षुकोप देवी तस्मै विटाय, आज्ञप्तो देशत्यागेन, तेनापि जज्ञे - नूनमकथयत् पूर्ववृत्तान्तं देवो देव्या:, तेन मे चुकोप देवी, ततो महान्तमुपानहा भरमादया मतो देवीसकाशं, विज्ञापयामास देवीं-देवि ! यामो देशान्तराणि, देवी उपानहां भरं पार्श्वे स्थितं दृष्ट्वा पृष्टवती -रे किमेष उपानहाम्भर: ?, सोऽवादीत्-देवि ! यावन्ति देशान्तराण्येतावतीभिरुपानद्भिर्गन्तुं शक्ष्यामि तावत्सु देव्याः कीर्त्तिविस्तारणीया, तत एवमुक्ते मा मे सर्वत्रापकीर्त्तिर्जायेतेति परिभाव्य देवी बलात्तं धारयामास विटस्यौत्पत्तिकी बुद्धिः १० ।
'गोलो 'त्ति गोलकोदाहरणं, तद्भावना- लाक्षागोलकः कस्यपि बालकस्य कथमपि नासिकामध्ये प्रविष्टः, ततस्तन्मातापितरावतीवार्तौ बभूवतुः, दर्शितो बालकः सुवर्णकारस्य, तेन सुवर्णकारेण प्रतप्ताग्रभागया लोहशकलाकया शनैः शनैर्यनतो लाक्षागोलको मनाक् प्रताप्य सर्वोऽपि समाकृष्टः । सुवर्णकारस्यौत्पत्तिकी बुद्धिः ११ ।
'खंभ 'त्ति स्तम्भोदाहरणं, तद्भावना - राजा मन्त्रिणमेकं गवेषयन् महाविस्तीर्णताकमध्ये स्तम्धमेकं निक्षेपयामास तत एवं घोषणां कारितवान्- यो नाम तटे स्थितोऽमुं स्तम्भ्ं दवरकेण बन्धाति तस्मै राजा शतहस्रं प्रयच्छतीति, तत एवं घोषणां श्रुत्वा कोऽपि पुमान् एकस्मिन् तरप्रदेशे कीलकं भूमौ निक्षिप्य दवरकेण बद्ध्वा तेन दवरकेण सह सर्वतस्तटे परिभ्रमन् मध्यस्थितं तं स्तम्भं बद्धवान्, लोकेन च बुद्धतिशयसम्पन्नतया प्रशंसितो, निवेदितश्च राज्ञो राजनियुक्तैः पुरुषैः, तुतोष राजा, ततस्तं मन्त्रिणमकार्षीत् । तस्य पुरुषस्यौत्पत्तिकी बुद्धिः
'खुल्लाग 'ति क्षुल्लकोदाहरणं, तद्भावना - कस्मिंश्चित्पुरे काचित् परिव्राजिका, सा यो यत्करोति तदहं कुशलकर्मा सर्वं करोमीति राज्ञः समक्षं प्रतिज्ञां कृतवती, राजा च तत्प्रतिज्ञासूचकं पटहमुद्घोषयामास तत्र च कोऽपि क्षुल्लको भिक्षार्थमटन् पटहशब्दं श्रुतवान् श्रुतश्च प्रतिज्ञार्थ:, ततो धृतवान् पटहं, प्रतिपन्नो राजसमक्षं व्यवहारो, गतो राजकुलं क्षुल्लकं:, ततस्तं लघु दृष्टवा सा परिव्राजिकाऽऽत्मीयं मुखं विकृत्यावज्ञयाऽभिधत्ते - कथय कुतो मिलाभि ?, तत एवमुक्ते क्षुल्लकः स्वं में दर्शितवान्, ततो हसितं सर्वैरपि जनैः, उद्घुष्टं च-जिता जिता परिव्राजिका,
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only