________________
मूलं-९८
. १४७ उर्णामयपटस्वामिनः शिरसि उर्णावयवा निर्जग्मुः, ततो ज्ञातं-नूनमेष न सौत्रिकपटस्य स्वामीति निगृहीतः, परस्य समपितः सौत्रिकः परः । कारणिकानामौत्पत्तिकी बुद्धि: ५ ।
'सरड'त्ति सरटोदाहरणं, तद्भावना-कस्यचित्पुरुष्स्य पुरीषमुत्सृजतः सरटो गुदस्याधस्ताद्विलं प्रविशन् पुच्छेन गुदं स्पृष्टवान्, ततस्तस्यैवमजायत शङ्का-नूनमुदरे मे सरटः प्रविष्टः, ततो गृहं गतो महतीमधृतिं कुर्वत्रतीव दुर्बलो बभूव, वैद्यं च प्रपच्छ, वैद्यश्च ज्ञातवान्, असम्भवमेतत्, केवलमस्य कथञ्चिदाशङ्का समुदपादि, ततः सोऽवादीत्-यदि मे शतं रूपकाणां प्रयच्छसि ततोऽहं त्वां निराकुलीकरोमि, तेन प्रतिपन्न, ततो वैद्यो विरेचकौषधं तस्य प्रदाय लाक्षारसखरण्टितं सरटं घटे प्रक्षिप्य तस्मिन् घटे पुरीषोत्सर्ग कारितवान्, ततो दर्शितो वैद्येन तस्य पुरपखरण्टितो घटे सरटो, व्यपगता तस्य शङ्का, जातो बलिष्टशरीरः । वैद्यस्यौत्पत्तिकी बुद्धिः ६। - 'काय'त्ति काकोदाहरणं, तद्भावना-बेत्रातटपुरे केनापि सौगतेन कोऽपि श्वेतपटक्षुल्लक: पृष्टो-भोः क्षुल्लक ! सर्वज्ञाः किल तवार्हन्तः तत्पुत्रकाश्च यूयं तत् कथय-कियन्तोऽत्र पुरे वसन्ति वायसाः ?, ततः क्षुल्लकश्चिन्तयामास-शठोऽयं प्रतिशठाचरणेन निर्लोठनीयः, ततः स्वबुद्धिवशादिदं पठितवान्
"सर्ट्सि कागसहस्सा इह (यं) बिन्नायडे परिवसंति ।
जइ ऊणगा पवसिया अब्भहिया पाहुणा आया।" ततः स भिक्षुः प्रत्युत्तरंदातुमशक्नुवन् लकुटाहतशिरस्क इव शिरः कण्डूयन् मौनमाधाया गतः । क्षुल्लकस्यौत्पत्तिकी बुद्धिः।
अथवा अपरो वायसदृष्टान्त:-कोऽपि क्षुल्लकः केनापि भागवतेन दुष्टबुद्धया पृष्टो-भोः क्षुल्लक ! किमेष काको विष्टामितस्ततो विक्षिपति ?, क्षुल्लकोऽपि तस्य दुष्टबुद्धितामवगम्य तन्मर्मवित् प्रत्युत्तरं दत्तवान्-युष्मत्सिद्धान्ते जले स्थले च सर्वत्र व्यापी विष्णुरभ्युपगम्यते, ततो यौष्माकीणं सिद्धान्तमुपश्रुत्य एषोऽपिवायसोऽचिन्तयत्-किमस्मिन् पुरीषे समस्ति विष्णुः किं वा नेति ?, ततः स एवमुक्तो बाणाहतमर्मप्रदेश इव धूर्णितचेतसो मौनमवलम्ब्य रुषा धूमायमानो गतः । क्षुल्लकस्यौत्पत्तिकी बुद्धिः ७। _ 'उच्चारे'त्ति उच्चारोदाहरणं, तद्भावना-क्वच्चित् पुरि कोऽपि धिग्जातीयः, तस्य भार्याऽभिनवयौवनोद्भेदरमणीया लोचनयुगलवक्रियावलोकनमहाभल्लीनिपातताडितसकलकामिकुरङ्गहृदयाप्रबलकामोन्मत्तमानसा, सोऽन्यदाधिग्जातीयस्तया भार्ययासहदेशान्तरं गन्तुं प्रवृत्तः, अपान्तराले च धूर्तः कोऽपि पथिको मिलितः, सा च धिग्जातीयभार्या तस्मिन् रति बद्धवती, ततो धूर्तः प्राह-मदीया एषा भार्या, धिग्जातीयः प्राह-मदीयेति, ततो राजकुले व्यवहारो जातः, कारणिकैर्द्वयोरपि पृथक् २ ह्यस्तनदिने भुक्त आहार: पृष्टो, धिग्जातीयेनोक्तंमया हस्तनदिने तिलमोदका भक्षिता मद्भार्यया च, धूर्तेनान्यत्किमप्युक्तं, ततो दत्तं तस्याः कारणिकैविरेकौषधं, जातो विरेको, दृष्टाः पुरीषान्तर्गतास्तिलाः, दत्ता सा धिग्जातीयाय, निर्धाटितो धूर्त्तः । कारणिकानामौत्पत्तिकी बुद्धिः ८।
'गय'त्ति गजोदाहरणं, तद्भावनावसन्तपुरे नगरेकोऽपि राजा बुद्धतिशयसम्पन्न मन्त्रिणमेकमन्वेषमाणश्चतुष्पथे हस्तिनमालानस्तम्भे बन्धयित्वा धोषणामचीकरत्-योऽमुं हस्तिनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org