________________
१४६
-
नन्दी-चूलिकासूत्रं क्वचिल्लिखित्वा श्रेणिको राजगृहं प्रति चलितवान्, नन्दायाश्च देवलोकच्युतमहानुभावगर्भसत्त्वप्रभावतः एवं दौहृदमुदपादि यदहं यदि प्रवरकुञ्जरमधिरूढा निखिलजनेभ्यो धनदानपुरस्सरमभयदानं करोमीति, पिता च तदित्थम्भूतं दौहृदमुत्पन्नं ज्ञात्वा राजानं विज्ञप्य पूरितवान्, कालक्रमेण च प्रवृत्ते प्रसवसमये प्रातरादित्यबिम्बमिव दश दिशः प्रकाशयन्नजायत परमसूनुः, तस्य च दौहदानुसारेभाभय इति नाम चक्रे, सोऽपि चाभयकुमारो नन्दनवनान्तगर्तकल्पपादय इव तत्र सुखेन परिवर्द्धते, शास्त्रग्रहणादिकमपि यथाकालं कृतवान, ___ अन्यदा च स्वमातरं पप्रच्छ-मातः ! कथं मे पिताऽभूदिति?, ततः सा कथयामास मूलत आरभ्य सर्वं यथावस्थितं वृत्तान्तं, दर्शयामास च लिखितान्यक्षराणि, ततो मातृवचनतात्पर्यावगमतो लिखिताक्षरार्थावगमतश्च ज्ञातमभयकुमारेण-यथा मे पिता राजगृहे राजा वर्तते इति, एवं च.ज्ञात्वा मातरमभाणीत-व्रजामो राजगृहे सार्थेन सह वयमिति, सा प्रत्यादीत-वत्स! यद्भणसि तत्करोमीति, ततोऽभयकुमारः स्वमात्रा सह सार्थेन समंचलितः, प्राप्तो राजगृहस्य बहिःप्रदेशं, ततोऽभयकुमारः तत्र मातरं विमुच्य किं वर्तते सम्प्रति पुरे? कथं वा राजा दर्शनीय ? इति विचिन्त्य राजगृहपरं प्रविष्टः, तत्र च पुरप्रवेश एव निर्जलकूपतटे समन्ततो लोकः समुदायेनावतिष्ठते, पुष्टं चाभयकुमारेण--किमित्येष लोकमेलापक:?, ततो लोकेनोक्तंकूपस्य मध्ये राज्ञोऽगुल्याभरणमास्ते तद्यो नाम तटे स्थितः स्वहस्तेन गृह्णाणी तस्मै राजा महतं वृत्तिं प्रयच्छतीति, तत एवं श्रुते पृष्टाः प्रत्यासन्नवर्त्तिनो राजनियुक्ताः पुरुषाः तैरप्येवमेव कथितं, तताऽभवकुमारेणोक्तम्-अहं तटे स्थितो ग्रहीष्यामि, राजनियुक्तैः पुरुषैरुक्तं-गृहाण त्वं, यत्प्रतिज्ञातं राज्ञा तदवश्यं करिष्यते, ततोऽभयकुमारेण परिभावितमंगुल्याभरणं दृष्ट्या सम्यक, तत आर्द्रगोमयेनाहतं, संलग्नं तत्तत्र, ततस्तस्मिन् शुष्के मुक्तं कूपान्तरात् पानीयं, भृतो जलेन, परिपूर्ण: स कूपः, तरति चोपरि सांगुल्याभरणः शुष्कगोमयः, ततस्तटस्थेन सता गृहीतमंगुल्याभरणमभयकुमारेण, कृतश्चानन्दकोलाहलो लोकेने, निवेदितं राज्ञो राजनियुक्तैः, पुरुषः, आकारितोऽभयकुमारो राज्ञा, गतो राज्ञाः समीपं, मुमोच पुरतोऽगुल्याभरणं, __ पृष्टश्च राज्ञा-वत्स ! कोऽसि त्वं?, अभयकुमारेणोक्तं-देव! युष्मदपत्यं, राजा प्राहकथं?, ततः प्राक्तनं वृत्तान्तं कथितवान्, ततो जगाम महाप्रमोदं राजा, चकारोत्सङ्गेऽभयकुमारं, चुम्बितवान् सस्नेहं शिरसि, पृष्टश्च श्रेणिकेनाभयकुमारो-वत्स! क्व ते माता वर्तते?, तेनोक्तंदेव! बहिःप्रदेशे, ततो राजा सपरिच्छदस्तस्याः सम्मुखमुपागमत्, अभयकुमारश्चाग्रे समागत्य कथयामास सर्वं नन्दायाः, ततः साऽऽत्मानं मण्डयितुं प्रवृत्ता, निषिद्धा चाभयकुमारणमातर्न कल्पते कुलस्त्रीणां निजपतिविरहितानां निजपतिदर्शनमन्तरेण भूषणं कर्तुमिति, समागतो राजा, पपात राज्ञाः पादयोः नन्दा, सन्मानिता च भूषणादिप्रदानेनातीव राज्ञा, सस्नेहं प्रवेशिता महाविभूत्या नगरं सपुत्रा, स्थापितश्चाभयकुमारोऽमात्यपदे। अभयकुमारस्यौत्पत्तिकी बुद्धिः ४ ___ तथा पड'त्ति पटोदाहरणं, तद्भावना-द्वौ पुरुषो, एकस्याच्छादनपट: सौत्रिक: अपरस्योपर्णामयः, तौ च सह गत्वा युगपत् स्नातुं प्रवृत्तौ, तत्रोर्णामयपटस्वामी स्वपटं विमुच्य द्वितीस्य सत्कं सौत्रिकं पटं गृहीत्वा गन्तुं प्रस्थितो, द्वितीयो याचते स्वपट्, सन प्रयच्छति, ततो राजकुले व्यवहारो जातः, ततः कारणिकैर्द्वयोरपि शिरसी कङ्कतिकयाऽवलेखिते, ततोऽवलेखने कृते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org