________________
१३२
नन्दी - चूलिकासूत्रं
'भन्नइ न एस नियमो जुगवुप्पन्त्रेण जुगवमेवेह | होयव्वं उवयोगेण एत्थ सुण ताव दिट्ठतं ।'
I
'भण्यते' अत्रोत्तरं दीयते, न एष नियमो यदुत शक्त्यपेक्षया युगपदुत्पन्नेनापि ज्ञानेन युगपदेवेह उपयोगेन- उपयोगरूपतयाऽपि भवितव्यमिति । कुत इति चेत्, तथादर्शनात्, आह च- 'एत्थ सुण तावदिट्टंतं' 'अत्र' अस्मिन् विचारप्रक्रमे शृणु तावत् दृष्टान्तं । तमेव दर्शयति - 'जह जुगवुप्पत्तीएऽवि सुत्ते सम्मत्तमइसुयाईणं । नत्थ जुगवोवओगो सव्वेसु तहेव केवलिणो ॥'
यथा सम्यक्त्वमति श्रुतादीनाम्, आदिशब्दादवधिज्ञानपरिग्रहः, युगपदुत्पत्तावपि 'सूत्रे' आगमेऽभिहितायां न सर्वेष्वेव मत्यादिषु युगपदुपयोगो भवति, “जुगवं दो नत्थि उवओगा' इति वचनप्रामाण्यात्, तथैव केवलिनोऽपि शक्त्यपेक्षया युगपत्केवलज्ञानकेवलदर्शनोत्पत्तौ अपि न द्वयोरपि युगपदुपयोगो भवति । अमुमेवार्थं सूत्रेण संवादयन्नाह - 'भणियं चिय पन्नत्तीपन्नवणाईसु जह जिनो समयं ।
जं जाइ नवि पास तं अनुरयणप्पभाईणं ॥ '
-
भणितं चैतदनन्तरोदितं प्रज्ञप्तौ प्रज्ञापनादिषु यथा यं समयं केवली जानाति अण्वादिकं रत्नप्रभादिकं च न तमेव समयं पश्यतीति, 'अनुरयणप्पभाईणं' इत्यत्र प्राकृतत्वाद्वितीयार्थे षष्ठी, ततः क्रमेणैव केवलज्ञानकेवलदर्शनयोरुपयोगो न युगपदिति स्थितं ।
साम्प्रतं ये केवल - ज्ञानकेवलदर्शनाभेदवादिनस्तन्मतकमुपन्यस्यन्नाह
'जह किर खीणावरणे देसन्नाणाण सम्भवो न जिने ।
उभयावरणातीते तह केवलदंसणस्सावि ॥'
यथा 'किले'- त्याप्तोक्तौ क्षीणावरणे भगवति जिने 'देशज्ञानानां' मत्यादीनां न सम्भवः तथा 'उभयावरणातीते' केवलज्ञानकेवलदर्शनावरणातीते भगवति केवलदर्शनस्यापि न सम्भवः । कथमिति चेदुच्यते - इह तावद् यगुपदुपयोगद्वयं न जायते, सूत्रे तत्र तत्र प्रदेशे निषेधात्, न चैतदपि समीचीनं यत्तदावरणं क्षीणं तथापि तन्न प्रादुर्भवति, ऊद्धर्वमपि तद्भावप्रसङ्गात्, ततः केवलदर्शनस्यापि न सम्भवः । कथमिति चेदुच्यते-इह तावद् युगपदुपयोगद्वयं न जायते, सूत्रे तत्र तत्र प्रदेशे निषेधात्, न चैतदपि समीचीनं यत्तदावरणं क्षीणं तथापि तन्न प्रादुर्भवति, ऊर्ध्वमपि तदभावप्रसङ्गात्, ततः केवलदर्शनावरणक्षयादुपजायमानं केवलदर्शनं सामान्यमात्रग्राहकं केवलज्ञान एव सर्वात्मना सर्ववस्तुग्राहकेऽन्तर्भवतीति तदेवैकं केवलज्ञानं चकास्ति, न ततः पृथग्भूतं केवलदर्शनमिति । अत्र सिद्धान्तवादी केवलदर्शनस्य स्वरूपतः पार्थक्यं सिसाधयिषुरिदमाह
'देसन्नाणोवरमे जह केवलनाणसंभवो भणिओ ।
सद्दंसणवि गमे तह केवलदंसणं होऊ ।'
यथा भगवति मत्यादिदेशज्ञानोपरमे केवलज्ञानसम्भवः स्वरूपेण भणितस्त्वया तथा चक्षुद्दर्शनादिदेशदर्शनविगमे सति केवलदर्शनमपि ततः पृथक् स्वरूपतो भवतु, न्यायस्य समानत्वात्, अन्यथा पृथक् तदावरणकल्पनानैरर्थक्यापत्तेः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org