________________
मूलं - ८९
'अह देसनाणंदसणविगमे तव केवलं मयं नाणं ।
न मयं केवलदंसणमिच्छामित्तं ननु तवेदं ॥ '
अथ देशज्ञानदर्शनविगमे तव केवलज्ञानमेवैकं मतं, न मतं केवलदर्शनमिति, अत्राह - ननु तवेदमिच्छामात्राम्-अभिप्रायमात्रं, न त्वत्र काचनापि युक्तिः, न चेच्छामात्रतो वस्तुसिद्धिः, सर्वस्य सर्वेष्वर्थेषु सिद्धिप्रसक्ततेः, यदप्युक्तं 'न चैतदपि समीचीनमित्यादि' तदपि न समीचीनं, क्षयोपशमाविशेषेऽपि मत्यादीनामिव जीवस्वाभाव्यादेव केवलज्ञानवरणकेवलदर्शनावरणक्षयेऽपि सततं तयोरप्रादुर्भावाविरोधात्, अथोच्येत “दव्वतो णं केवलनाणी सव्वदव्वाई जाणइ पासइ” इत्यादि सूत्रं केवलज्ञानकेवलदर्शनाभेदप्रतिपादनपरं, केवलज्ञानिन एव सतो ज्ञानदर्शनयोरभेदेन विषयनिर्देशात्, सूत्रं च युष्माकमपि प्रमाणं, तत्कथमत्र विप्रतिपद्यते इति ?, 'भन्नइ जहोहिनाणी जाणइ पासइ य भासियं सुत्ते । न य नाम ओहिदंसणनाणेगत्तं तह इहंपि ॥'
'भण्यते' अत्रोत्तरं दीयते यथा अवधिज्ञानी जानाति पश्यति चेति सूत्रे भाषितं, तदुक्तं"दव्वओ णं ओहिनाणी उक्कोसेणं सव्वाई रूविदव्वाइं जाणइ पासइ" इत्यादि, न च तथा सूत्रे भाणितमपि नामावधिज्ञानावधिदर्शनयोरेकत्वं, तथा इहापि केवलज्ञानकेवलदर्शनयोरेकत्वं सूत्रवशादासज्यमानं न भविष्यति, सूत्रस्य सामान्यतः, प्रवृत्तेः, अपि च-जानाति पश्यति चेति द्वावति शब्दावेकार्थौ न भवतो, नापि तत्र सूत्रे एकार्थिकवक्तव्यताधिकारः, किन्तु सामान्यविशेषविपयाधिगमाधिधानपरौ । ततश्च
-
'जह पासइ तह पासउ पासइ जेणेह दंसणं तं से । जाणइ जेणं अरिहा तं से नाणंति धेतव्वं ॥'
‘यथा' येन प्रकारेण ज्ञानादभेदेन भेदेन वा पश्यति तथा पश्यतु, एवावत्तु वयं ब्रूमो येन सामान्यावगमाकारेणार्हन् पश्यति तद्दर्शनमितिज्ञातव्यं, येन पुनर्विशेषावगमरूपेणाकारेण जानाति तत् 'से' तस्यार्हतो ज्ञानमिति, न च युगपदुपयोगद्वयं, अनकेशः सूत्रे निषेधात्, ततः क्रमेण भगवतो ज्ञानं दर्शनं चेति । एतदेव सूत्रेण दर्शयति
१३३
"नाणंमि दंसणंमि व एत्तो एगयरयंमि उवउत्ता । सव्वस्स केवलिस्स जुगवं दो नत्थि उवओगा ॥"
Jain Education International
ज्ञाने तथा दर्शने वाशब्दो विकल्पार्थः, अनयोरेककालम् एकतरस्मिन् कस्मिंश्चिदुपयुक्ताः केवलिनो, न तु द्वयोः यतः सर्वस्य केवलिनो युगपत् द्वावुपयोगौ न स्त इति । तस्मादेत्सूत्रबलादपि क्रमेण ज्ञानं दर्शनं च सिद्धं । अपि च
'उवओगो एगयरो पणवीसइमे सए सिणायस्स ।
भणियो विडत्थयोच्चिय छट्ठद्देसे विसेसेणं ॥'
भगवत्यां पञ्चविंशतितमे शते अध्ययनापरपर्याये षष्ठोद्देशके स्त्रावकस्य केवलिनो 'विशेषेण' विशेषत: एकतर उपयोगो भणितः, तत्कथमेवमागमार्थमुपलभ्यात्मानं विप्रलम्भेमहि ? । साम्प्रतं सिद्धान्तवाद्येव जिनभद्रगणिक्षमाश्रमण आत्मनोऽद्धतत्वमागमभक्तिं च परां
ख्यापयन्नाह-
For Private & Personal Use Only
www.jainelibrary.org