________________
-
मूलं-८९ इहान्तरायकर्मणो दानान्तरायादिभेदेन पञ्चप्रकारत्वात् तत्क्षयोऽपि पञ्चप्रकार: उक्तः, सततं न ददाति लभते वा भुंक्ते उपभुंक्त वा सर्वज्ञः, किन्तु कार्ये समुत्पन्ने सति ददाति लभते वा भुंक्ते वा उपलक्षणमेतत् उपभुंक्त वा, तथैव 'इहापि' केवलज्ञानदर्शनविषये सत्यपि तदावरणक्षये न युगपत्तदुपयोगसम्भवः, तथाजीवस्याभाव्यादिति।स्यादेतद्, यदि पञ्चविधान्तरायक्षये सत्यपि भगवान् न सततं दानादिक्रियासु प्रवर्त्तते ततः किं तत्क्षयस्य फलमित्यत आह___दितस्स लभंतस्स व भुंजंतस्स व जिणस्स एस गुणो।
खीणंतरायवत्ते जं से विग्धं न संभवइ ।' जिनस्य क्षीणसकलधातिकर्मणः क्षीणान्तरायचे सत्येष गुणो जायते, यदुत--'से' तस्य जिनस्य ददतो लभमानस्य वा भुञ्जानस्य वकारस्यानुक्तसमुच्चयार्थत्वादुपभुञ्जानस्य च यद्विघ्नो न भवति, प्राकृतत्वाच्च विघ्नशब्दस्य नपुंसकनिर्देशः । अमुमेव गुणं प्रकृतेऽपि योजयत्राह
'उवउत्तस्सेमेव य नाणंमि व दंसणंमि व जिनस्स ।
खीणावरणगुणोऽयं जं कसिणं मुणइ पासइ वा।" 'एवमेव' दानादिक्रियासु प्रवृत्तस्येव ज्ञाने दर्शने चोपयुक्तस्य जिनस्य केवलिनाऽयं क्षीणावरणेत्वे सति गुणो यत् कृत्स्नं लोकालोकात्मकं जगज्जानाति पश्यति वा, न तु जानतः पश्यतो वा विघ्नः सम्भवतीति । वाद्याह
'पासंतोऽवि न जाणइ जाणं व न पासई जइ जिणिदो।
एवं न कयाऽवेसो सव्वण्णू सव्वदरिसी य॥' यदि पश्यन्नपि भगवान् न जानाति, दर्शनकाले ज्ञानोपयोगानभ्युपगमात्, जानन् वा यदि न पश्यति, ज्ञानोपयोगकाले दर्शनोपयोगानभ्युपगमात्, तत एवं सति न कदाचिदप्यसौ सर्वज्ञः सर्वदर्शी च प्राप्नोतीति। सिद्धान्तवाद्याह__ 'जुगवमयाणंतोऽवि हु चउहिवि नाणेहि जह व चउनाणी।
भन्नइ तहेव अरिहा सव्वण्णू सव्वदरिसी य॥' यथा मत्यादीभिः मनःपर्यायान्तैश्चतुर्भिनैिर्युगपदजानन्नपि जीवस्वाभाव्यादेव युगपदु-- पयोगाभावात् लब्ध्यपेक्षया चतुर्ज्ञानी भण्यते, तथैवार्हन्नपि भगवन् युगपत्केवलकज्ञानदर्शनोपयोगाभावेऽपि नि:शेषतदावरणक्षयात् शक्त्यपेक्षया सर्वज्ञः सर्वदर्शी चोच्यते इत्यदोषः। पुनरप्यत्र वाद्याह- .
'तुल्ले उभयावरणक्खयंमि पुव्वं समुब्भवो कस्स।
दुविहुवयोगाभावे जिनस्स जुगवंति चोएइ ।' 'तुल्ये' समाने, एककालमित्यर्थः, उभयावरणक्षये' केवलज्ञानकेवलदर्शनावरणक्षये 'पूर्व' प्रथमं 'समुद्भवः' उत्पादः कस्य भवेत् ? किं ज्ञानस्य ? उत दर्शनस्य ? यदि ज्ञानस्य स किनिबन्धन इति वाच्यं, तदावरणक्षयनिबन्धन इति चेत्, ननु स दर्शनेऽपि तुल्य इति तस्याप्युद्भप्रसङ्गः, एवं दर्शनपक्षेऽपि वाच्यं, अतः प्रथमसमये स्वावरणक्षयेऽपि अन्यतरस्याभावेऽप्यन्यतरस्याप्यभाव एव विपर्ययो वा प्राप्नोतीति युगद्विविधोपयोगाभावभ्युपगमे जिनस्य वादी चोदयतीति । अत्र सिद्धान्तवाद्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org