SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ नन्दी-चूलिकासूत्रं तथा इतरेतरावरणता प्राप्नोति, तथाहि-यदि स्वावरणे निःशेषतः क्षीणेऽपि अन्यतरभावेऽन्तरभावो नेष्यते तर्हि ते एव परस्परमावरणे जाते, तथा च सति सिद्धान्तपक्षक्षितिरिति। अथवा निष्कारणावरणं, यदि हि साकल्येन स्वावरणापगमेऽप्यन्यतरोपयोगकालेऽन्यतरस्य भावो नेष्यते तर्हि तस्यान्यतरस्यावरणमकारणमेव जातं, कारणस्य कर्मलक्षणस्य प्रागेव सर्वथापगमात्, तथा च सति सदैव भावाभावप्रसङ्गः, तथा चोक्तं ___ "नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणादिति" 'तह य असव्वन्नुत्तं असव्वदरिसत्तणप्पसंगो य। एगंतरोवयोगे जिनस्स दोसा बहुविहा य॥' तथा चति समुच्चये, यदिक्रमेणोपयोग इष्यते तहि भगवतोऽसर्वज्ञत्वमसर्वदर्शित्वप्रस-- ङ्गश्च प्राप्नोति, तथाहि-यदिक्रमेण केवलज्ञानकेवलदर्शनोपयोगाभ्युपगमस्तहिन कदाचिदपि भगवान् सामान्यविशेषावेककालं जानाति पश्यति वा, ततोऽसर्वज्ञत्वासर्वदर्शित्वप्रसङ्गः, पाक्षिकं वा सर्वज्ञत्वं सर्वदर्शित्वं च प्रसज्यते, तथाहि-यदा सर्वज्ञो न तदा सर्वदर्शी, दर्शनोपयोगाभावात्, यदा तु सर्वदर्शी न तदा सर्वज्ञो, ज्ञानोपयोगाभावदिति। एवमेकान्तरोपयोगेऽभ्युपगम्यमाने सति जिनस्य दोषा बहुविधाः प्राप्नुवन्ति। एवं परेणोक्ते सति आगमवादी जिनभद्रगणिक्षमाश्रमण आह 'भण्णइ भिन्नुमुहुत्तोवओगकालेऽवि तो तिनाणस्स। मिच्छा छावट्ठी सागरोवमाइं खओवसमे।।' यदुक्तम्-इतरथा आदिनिधनत्वं प्राप्नोति, तदसमीचीनं, उपयोगमनपेक्ष्य लब्धिमात्रापेक्षया केवलज्ञानकेवलदर्शनो: साद्यपर्यवसितत्वस्याभिधानात्, मत्यादिषुषट्षष्टिसागरोपमाणामिव, यदप्युक्तं -'मिथ्यावरणक्षय' इति तत्रापि भण्यते, यदि साद्यपर्यवसितं कालमुपयोगाभावत आवरणक्षयस्य मिथ्यात्मापद्यते 'तो' त्ति ततः 'त्रिज्ञानिनो' मतिश्रुततावधिज्ञानवतो भिन्नमुहूर्तलक्षणोपयोगकालेऽपि यो नाम मत्यादीनां षट्षष्टिसागरोपमाणि यावत् क्षयोपशमः सूत्रेऽभिहितः स मिथ्या प्राप्नोति, तावन्तं कालं मत्यादीनामुपयोगासम्भवात् युगपुद्भावासम्भवाच्च, याति इतरेतरावरणता पूर्वमासज्जिता साऽप्यसमीचीना, यतो जीवस्वाभाव्यादेव मत्यादीनामिव केवलज्ञानकेवलदर्शनयोर्युगपदुपयोगासम्भवः, ततः सा कथमुपपद्यते?, मा प्रापदन्यथा मत्यादीनामपि परस्परमावरणत्प्रसङ्गः, योऽपि निष्कारणावरणदोष उद्भावितः सोऽपि जीवस्वाभाव्यादेव तथोपयोगप्रवृत्तेरपास्तो दृष्टव्यः, अन्यथा मत्यादीनामपि प्रसज्जेत, तेषामप्युत्कर्षतः षट्षष्टिसागरोपमाणि यावत् क्षयोपशमस्याभिधानात्, तावत्कालंचोपयोगाभावादिति। वादिमतमाशङ्कय दूष्यति 'अह नवि एवं तो सुण जहेव खीणंतरायो अरिहा। संतेवि अंतरायक्खयम्मि पंचप्पयारंमि ॥ समयं न देइ लहइ व भुंजइ उवभुंजइ व सव्वण्णू। - कज्जंमि देइ लहइ व भुंजइ व तहेव इहइंपि ॥' 'अपिः' अवधारणे, अथ नैवमुक्तेन प्रकारेण मन्यसे क्षायोपशमिकक्षायिकयादृष्टान्तदार्टान्तिकभावासम्भवात्, यथैव खलु क्षीणान्तरायकोऽर्हन् सत्यप्यन्तराग्रक्षये पञ्चप्रकारे, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy