SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ मूलं - ८९ भावान् गतिकपायागुरुलघुभृतीन् जानाति पश्यति । इह केवलज्ञानकेवलदर्शनोपयोगचिन्तायां क्रमोपयोगादिविषया सूरीणामनेकधा विप्रतिपत्तिः, सा चूण्णिकृता मूलटीकाकृता च दर्शिता, ततो वयमपि संक्षेपतो विनेयजनानुग्रहाय तां प्रदर्शयामः - 'केई भांति जुगवं जाणइ पासइ य केवली नियमा । अन्ने एगंतरियं इच्छंति सुओवएसेणं ॥ अन्नेन चेव वीसुं दंसणमिच्छंति जिनवरिंदस्स । जं चिय केवलनाणं तं चिय से दंसणं विंति ॥ ' ‘केचन' सिद्धसेनाचार्यादयो 'भणंति' ब्रूवते, किमित्याह- 'युगपद्' एकस्मिन् काले 'केवली' केवलज्ञानवान् न त्वन्यश्छद्मस्थो जानाति पश्यति च 'नियमात्' नियमेन, अन्ये पुनराचार्या जिनभद्रगणिक्षमाश्रमणप्रभृतयः 'इच्छंति' मन्यन्ते, किमिति ?, आह- एकान्तरितं केवली जानाति पश्यति चेति, एकस्मिन् समये जानाति एकस्मिन्समये पश्यतीत्यर्थः । कथमेतदिच्छन्तीति ?, अत आह- श्रुतोपदेशेन, आगमानुसारेणेत्यर्थः । 'अन्ने' इत्यादि, अन्ये केचिद्वृद्धाचार्या न चैव ज्ञानदर्शनं विष्वक् पृथगिच्छन्ति जिनवरेन्द्रस्य, जिना:- उपशान्तरागादिदोषसमूहाः तेषां वराः - प्रधाना निर्मूलत एव क्षीणसकलरागादिदोषोद्भवनिबन्धनमोहनीयकर्म्माणः, क्षीणामोहा इत्यर्थ:, तेषामिन्द्रो भगवान् उत्पन्नकेवलज्ञानः तस्य, न त्वन्यस्य, किन्तु यदेव केवलज्ञानं तदेव 'से' तस्य केवलिनो दर्शनं ब्रुयते, क्षीणसकलाबरणस्य देशज्ञानाभावात् केवलदर्शनस्याप्यभावात्, तस्यापि वस्त्वेकदेशभूतसामान्यमात्रग्राहितया देशज्ञानकल्पत्वादिति भावना । तत्र ‘यथोद्देशं निर्द्देश' इति न्यायात् प्रथमं युगपदुपयोगवादिमतं प्रदर्श्यते'जं केवलाई साई अपज्जवसियाई दोवि भणियाई । तो बिति केइ जुगवं जाणइ पासइ य सव्वन्नू ।।' 'यत्' यस्मात् कारणात् 'द्वे अपि' केवलज्ञानकेवलदर्शने समये-सिद्धान्ते साद्यपर्यवसिते भणिते, ततो ब्रुवते केचन सिद्धसेनाचार्यादयः, किमित्याह- 'युगपद्' एकस्मिन् समये काले जानाति पश्यति च सर्वज्ञ इति । विपक्षे बाधामाह "इहराऽऽईनिहणत्तं मिच्छावरणक्खओत्ति व जिनस्स । इयरेवयरावरणया अहवा निक्कारणावरणं ।।" 'इतरथा' युगपत्केवलज्ञानदर्शनभावानभ्युपगमे 'आदिनिधनत्वं' सादिसपर्यवसितत्वं केवलज्ञानकेवलदर्शनयोः प्राप्नोति, तथाहि - उत्पत्तिसमयभाविकेवलज्ञानोपयोगानन्तरमेव केवलदर्शनोपयोगसमये केवलज्ञानाभावः पुनस्तदनन्तरं केवलज्ञानोपयोगसमये केवलदर्शनाभाव इति द्वे अपि केवलज्ञानकेवलदर्शने सादिसपर्यवसिते, तथा मिथ्या-अलीक: आवरणक्षय:-- केवलज्ञानावरणकेवलदर्शनावरणक्षयो जिनंस्य प्राप्नोति न ह्यपनीतावरणौ द्वौ प्रदीपो क्रमेण प्रकाश्यं प्रकाशयतः, तद्वत् इहापि केवलज्ञानदर्शने युगपन्निर्मूलतोऽपनीतस्वस्वावरणे ततः कथं ते क्रमेण स्वप्रकाश्यं प्रकाशयत: ? क्रमेणेति चेदभ्युपगमः तर्हि मिथ्या तदावरणक्षति 30/9 Jain Education International For Private & Personal Use Only १२९ www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy