SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२८ नन्दी - चूलिकासूत्रं शक्नुवन्ति, ततो न तेषां निर्वाणसम्भवः, स्त्रियस्तु प्रागुक्तप्रकारेण यथावत्सम्यग्दर्शनादिरत्त्रत्रयसम्पद्योग्या, ततस्तासां न निर्वाणाभावः । अति च-भुजपरिसर्पा द्वितीयामेव पृथिवीं यावद्गच्छन्ति, न परतः, परपृथिवीगमनहेतुतथारूपमनोवीर्यपरिणत्यभावात्, तृतीयां यावत् पक्षिणः, चतुर्थी चतुष्पदाः, पञ्चमीमुरगाः अथ च सर्वेऽप्यूर्द्धमुत्कर्षत: सहस्रारं यावद्गच्छन्ति, तन्नाधोगतिविषये मनोवीर्यपरिणतिवैपम्यदर्शनादूर्द्धगतावपि तद्वैषम्यं, तथा च सति सिद्धं स्त्रीपुंसामधोगतिवैषम्येऽपि निर्वाणं सममिति कृतं प्रसङ्गेन, तथा पुल्लिङ्गे शरीरनिर्वृत्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुंलिङ्गसिद्धाः, एवं नपुंसकलिङ्गसिद्धा:, तथा स्वलिङ्गे-रजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते स्वलिङ्गसिद्धा:, तथा अन्यलिङ्गे-परिव्राजकादिसम्बन्धिनि वल्कलकषायादिवस्त्रादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो ये सिद्धास्तेऽन्यलिङ्गसिद्धाः, गृहिलिङ्गे सिद्धा गृहिलिङ्गसिद्धा मरुदेवीप्रभृतयः, तथा एकसिद्धा इति एकस्मिन् २ समये एककाः सन्तो ये सिद्धास्ते एकसिद्धा:, 'अनेगसिद्धा इति' एकस्मिन् समये अनेके सिद्धा: अनेकसिद्धाः अनेके चैकस्मिन् समये सिध्यन्त उत्कषर्तोऽष्टोत्तरशतसङ्ख्या वेदितव्याः । आह- ननु तीर्थसिद्धातीर्थसिद्धरूपभेदद्वये एव शेषभेदा अन्तर्भवन्ति तत्किमर्थं शेषभेदोपादानमुच्यते ?, सत्यम्, अन्तर्भवन्ति परं न तीर्थसिद्धातीर्थसिद्धभेदद्योपादानमात्रात् शेषभेदपरिज्ञानं भवति, विशेषपरिज्ञानार्थं चैष शास्त्रारम्भप्रयास इति शेष भेदोपादानं । मू. (८८) से किं तं परम्परसिद्ध केवलनाणं ?, परंपरसिद्ध केवलनाणं अणेगविहं पण्णत्तं, तंजहा- अपढमसमयसिद्धा दुसमयसिद्धा तिसमयसिद्धा चउसमयसिद्धा जाव दससमयसिद्धा संखिज्जसमयसिद्धा असंखिज्जसमयसिद्धा अनंतसमयसिद्धा, से तं परंपरसिद्धकेवलनाणं, से तं सिद्धकेवलनाणं ॥ वृ. 'से किं तं परम्परसिद्धकेवलनाणमित्यादि, न प्रथमसमयसिद्धा अप्रथमसमयसिद्धाः, परम्परसिद्धविशेषणं, अप्रथमसमयवर्त्तिनः सिद्धत्वसमयाद्वितीयसमयवर्त्तिन इत्यर्थः, स्त्र्यादिषु तु द्वितीयसमयसिद्धादय उच्यन्ते, यद्वा सामान्यतः अप्रथमसमयसिद्धा इत्युक्तं, तत एतदेव विशेषणे व्याचष्टे - द्विसमयसिद्धाः त्रिसमयसिद्धा इत्यादि । 'से त्तमि' -त्यादि निगमनं' मू. (८९) तं समासओ चउव्विहं पन्नत्तं, तंजहा- दव्वओ खित्तओ कालओ भावओ, तत्थ दव्वओ णं केवलनाणी सव्वदव्वाइं जाणइ पासइ, खित्तओ णं केवलनाणी सव्वं खित्तं जाणइ पासइ, कालओ णं केवलनाणी सव्वं कालं जाणइ पासइ, भावओ णं केवलनाणी सव्वे भावे जाणइ पासइ । वृ. 'तं समासतो' इत्यादि, तदिदं सामान्येन केवलज्ञानमभिगृह्यते, 'समासतः' संक्षेपेण चतुर्विधं प्रज्ञप्ततद्यथा - द्रव्यत: क्षेत्रतः कालतो भावतश्च तत्र द्रव्यतो 'णमिति' वाक्यालङ्कारे केवलज्ञानी सर्वद्रव्याणि-धर्मास्तिकायादीनि साक्षाज्जानाति पश्यति, क्षेत्रतः केवलज्ञानी सर्वं क्षेत्र- लोकालोकभेदभिन्नं जानाति पश्यति, इह यद्यपि सर्वद्रव्यग्रहणेनाकाशास्तिकायोऽपी गृह्यते तथापि तस्य क्षेत्रत्वेन रूढत्वात् भेदेनोपन्यासः, कालतः केवलज्ञानी सर्वं कालम् - अतीतानागतवर्त्तमानभेदभिन्नं जानाति पश्यति, भावतः केवलज्ञानी सर्वान् जीवाजीवगतान् For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy